Site icon Stotra Nidhi

Sri Renuka Hrudayam – श्री रेणुका हृदयम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

स्कन्द उवाच ।
भगवन् देवदेवेश परमेश शिवापते ।
रेणुकाहृदयं गुह्यं कथयस्व प्रसादतः ॥ १ ॥

शिव उवाच ।
शृणु षण्मुख वक्ष्यामि रेणुकहृदयं परम् ।
जपेद्यो हृदयं नित्यं तस्य सिद्धिः पदे पदे ॥ २ ॥

रेणुकाहृदयस्यास्य ऋषिरानन्दभैरवः ।
छन्दोभृद्विराट् प्रोक्तं देवता रेणुका परा ॥ ३ ॥

क्लीं बीजं कामदा शक्तिर्महामायेति कीलकम् ।
सर्वाभीष्ट फलप्राप्त्यै विनियोग उदाहृतः ॥ ४ ॥

ओं क्लीमित्यङ्गुष्ठादि हृदयादिन्यासं कृत्वा ।

ध्यानम् ।
ध्यायेन्नित्यमपूर्ववेशललितां कन्दर्पलावण्यदां
देवीं देवगणैरुपास्यचरणां कारुण्यरत्नाकराम् ।
लीलाविग्रहणीं विराजितभुजां सच्चन्द्रहासदिभि-
-र्भक्तानन्दविधायिनीं प्रमुदितां नित्योत्सवां रेणुकाम् ॥

आनन्दभैरव उवाच ।
ओं नमो रेणुकायै सर्वभूतिदायै सर्वकर्त्र्यै सर्वहन्त्र्यै सर्वपालिन्यै सर्वार्थदात्र्यै सच्चिदानन्दरूपिण्यै एकलायै कामाक्ष्यै कामदायिन्यै भर्गायै भर्गरूपिण्यै भगवत्यै सर्वेश्वर्यै एकवीरायै वीरवन्दितायै वीरशक्त्यै वीरमोहिन्यै वीरसुवेश्यै ह्रीङ्कारायै क्लीङ्कारायै वाग्भवायै ऐङ्कारायै ओङ्कारायै श्रीङ्कारायै दशार्णायै द्वादशार्णायै षोडशार्णायै त्रिबीजकायै त्रिपुरायै त्रिपुरहरवल्लभायै कात्यायिन्यै योगिनीगणसेवितायै चामुण्डायै मुण्डमालिन्यै भैरवसेवितायै भीतिहरायै भवहारिण्यै कल्याण्यै
कल्याणदायै नमस्ते नमस्ते ॥ ५ ॥

नमो नमः कामुक कामदायै
नमो नमो भक्तदयाघनायै ।
नमो नमः केवलकेवलायै
नमो नमो मोहिनी मोहदायै ॥ ६ ॥

नमो नमः कारणकारणायै
नमो नमो शान्तिरसान्वितायै ।
नमो नमः मङ्गल मङ्गलायै
नमो नमो मङ्गलभूतिदायै ॥ ७ ॥

नमो नमः सद्गुणवैभवायै
नमो नमः ज्ञानसुखप्रदायै । [विशुद्धविज्ञान]
नमो नमः शोभनशोभितायै
नमो नमः शक्तिसमावृतायै ॥ ८ ॥

नमः शिवायै शान्तायै नमो मङ्गलमूर्तये ।
सर्वसिद्धिप्रदायै ते रेणुकायै नमो नमः ॥ ९ ॥

ललितायै नमस्तुभ्यं पद्मावत्यै नमो नमः ।
हिमाचलसुतायै ते रेणुकायै नमो नमः ॥ १० ॥

विष्णुवक्षःस्थलावासे शिववामाङ्कसंस्थिते ।
ब्रह्माण्यै ब्रह्ममात्रे ते रेणुकायै नमोऽस्तु ते ॥ ११ ॥

राममात्रे नमस्तुभ्यं जगदानन्दकारिणी ।
जमदग्निप्रियायै ते रेणुकायै नमो नमः ॥ १२ ॥

नमो भैरवरूपायै भीतिहन्त्र्यै नमो नमः ।
नमः परशुरामस्यजनन्यै ते नमो नमः ॥ १३ ॥

कमलायै नमस्तुभ्यं तुलजायै नमो नमः ।
षट्चक्रदेवतायै ते रेणुकायै नमो नमः ॥ १४ ॥

अहिल्यायै नमस्तुभ्यं कावेर्यै ते नमो नमः ।
सर्वार्थिपूजनीयायै रेणुकायै नमो नमः ॥ १५ ॥

नर्मदायै नमस्तुभ्यं मन्दोदर्यै नमो नमः ।
अद्रिसंस्थानायै ते रेणुकायै नमो नमः ॥ १६ ॥

त्वरितायै नमस्तुभ्यं मन्दाकिन्यै नमो नमः ।
सर्वमन्त्राधिदेव्यै ते रेणुकायै नमो नमः ॥ १७ ॥

विशोकायै नमस्तुभ्यं कालशक्त्यै नमो नमः ।
मधुपानोद्धतायै ते रेणुकायै नमो नमः ॥ १८ ॥

तोतुलायै नमस्तुभ्यं नारायण्यै नमो नमः ।
प्रधानगुहरूपिण्यै रेणुकायै नमो नमः ॥ १९ ॥

सिंहगायै नमस्तुभ्यं कृपासिद्ध्यै नमो नमः ।
दारिद्र्यवनदाहिन्ये रेणुकायै नमो नमः ॥ २० ॥

स्तन्यदायै नमस्तुभ्यं विनाशघ्न्यै नमो नमः ।
मधुकैटभहन्त्र्यै ते रेणुकायै नमो नमः ॥ २१ ॥

त्रिपुरायै नमस्तुभ्यं पुण्यकीर्त्यै नमो नमः ।
महिषासुरनाशायै रेणुकायै नमो नमः ॥ २२ ॥

चेतनायै नमस्तुभ्यं वीरलक्ष्म्यै नमो नमः ।
कैलासनिलयायै ते रेणुकायै नमो नमः ॥ २३ ॥

बगलायै नमस्तुभ्यं ब्रह्मशक्त्यै नमो नमः ।
कर्मफलप्रदायै ते रेणुकायै नमो नमः ॥ २४ ॥

शीतलायै नमस्तुभ्यं भद्रकाल्यै नमो नमः ।
शुम्भदर्पहरायै ते रेणुकायै नमो नमः ॥ २५ ॥

एलाम्बायै नमस्तुभ्यं महादेव्यै नमो नमः ।
पीताम्बरप्रभायै ते रेणुकायै नमो नमः ॥ २६ ॥

नमस्त्रिगायै रुक्मायै नमस्ते धर्मशक्तये ।
अज्ञानकल्पितायै ते रेणुकायै नमो नमः ॥ २७ ॥

कपर्दायै नमस्तुभ्यं कृपाशक्त्यै नमो नमः ।
वानप्रस्थाश्रमस्थायै रेणुकायै नमो नमः ॥ २८ ॥

विजयायै नमस्तुभ्यं ज्वालामुख्यै नमो नमः ।
महास्मृतिर्ज्योत्स्नायै रेणुकायै नमो नमः ॥ २९ ॥

नमः तृष्णायै धूम्रायै नमस्ते धर्मसिद्धये ।
अर्धमात्राऽक्षरायै ते रेणुकायै नमो नमः ॥ ३० ॥

नमः श्रद्धायै वार्तायै नमस्ते मेधाशक्तये ।
मन्त्राधिदेवतायै ते रेणुकायै नमो नमः ॥ ३१ ॥

जयदायै नमस्तुभ्यं शूलेश्वर्यै नमो नमः ।
अलकापुरसंस्थायै रेणुकायै नमो नमः ॥ ३२ ॥

नमः परायै ध्रौव्यायै नमस्तेऽशेषशक्तये ।
ध्रुवमयै हृद्रूपायै रेणुकायै नमो नमः ॥ ३३ ॥

नमो नमः शक्तिसमन्वितायै
नमो नमः तुष्टिवरप्रदायै ।
नमो नमः मण्डनमण्डितायै
नमो नमः मञ्जुलमोक्षदायै ॥ ३४ ॥

श्रीशिव उवाच ।
इत्येवं कथितं दिव्यं रेणुकाहृदयं परम् ।
यः पठेत्सततं विद्वान् तस्य सिद्धिः पदे पदे ॥ ३५ ॥

राजद्वारे श्मशाने च सङ्कटे दुरतिक्रमे ।
स्मरणाद्धृदयस्यास्य सर्वसिद्धिः प्रजायते ॥ ३६ ॥

दुर्लभं त्रिषुलोकेषु तस्य प्राप्तिर्भवेद्ध्रुवम् ।
वित्तार्थी वित्तमाप्नोति सर्वार्थी सर्वमाप्नुयात् ॥ ३७ ॥

इत्यागमसारे शिवषण्मुखसंवादे आनन्दभैरवोक्तं रेणुकाहृदयम् ।


इतर देवी स्तोत्राणि पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments