Site icon Stotra Nidhi

Sri Rajarajeshwari Stava – श्री राजराजेश्वरी स्तवः

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

( श्री राजराजेश्वरी मन्त्रमातृका स्तवः >>)

या त्रैलोक्यकुटुम्बिका वरसुधाधाराभिसन्तर्पिणी
भूम्यादीन्द्रियचित्तचेतनपरा संविन्मयी शाश्वती ।
ब्रह्मेन्द्राच्युतवन्दितेशमहिषी विज्ञानदात्रीसतां
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ १ ॥

यां विद्येति वदन्ति शुद्धमतयो वाचां परां देवतां
षट्चक्रान्तनिवासिनीं कुलपथप्रोत्साहसंवर्धिनीम् ।
श्रीचक्राङ्कितरूपिणीं सुरमणेर्वामाङ्कसंशोभिनीं
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ २ ॥

या सर्वेश्वरनायिकेति ललितेत्यानन्दसीमेश्वरी-
-त्यम्बेति त्रिपुरेश्वरीति वचसां वाग्वादिनीत्यन्नदा ।
इत्येवं प्रवदन्ति साधुमतयः स्वानन्दबोधोज्ज्वलाः
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ ३ ॥

या प्रातः शिखिमण्डले मुनिजनैर्गौरी समाराध्यते
या मध्ये दिवसस्य भानुरुचिरा चण्डांशुमध्ये परम् ।
या सायं शशिरूपिणी हिमरुचेर्मध्ये त्रिसन्ध्यात्मिका
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ ४ ॥

या मूलोत्थितनादसन्ततिलवैः संस्तूयते योगिभिः
या पूर्णेन्दुकलामृतैः कुलपथे संसिच्यते सन्ततम् ।
या बन्धत्रयकुम्भितोन्मनिपथे सिद्ध्यष्टकेनेड्यते
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ ५ ॥

या मूकस्य कवित्ववर्षणसुधाकादम्बिनी श्रीकरी
या लक्ष्मीतनयस्य जीवनकरी सञ्जीविनीविद्यया ।
या द्रोणीपुरनायिका द्विजशिशोः स्तन्यप्रदात्री मुदा
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ ६ ॥

या विश्वप्रभवादिकार्यजननी ब्रह्मादिमूर्त्यात्मना
या चन्द्रार्कशिखिप्रभासनकरी स्वात्मप्रभासत्तया ।
या सत्त्वादिगुणत्रयेषु समतासंवित्प्रदात्री सतां
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ ७ ॥

या क्षित्यन्तशिवादितत्त्वविलसत् स्फूर्तिस्वरूपा परं
या ब्रह्माण्डकटाहभारनिवहन्मण्डूकविश्वम्भरी ।
या विश्वं निखिलं चराचरमयं व्याप्य स्थिता सन्ततं
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ ८ ॥

या वर्गाष्टकवर्णपञ्जरशुकी विद्याक्षरालापिनी
नित्यानन्दपयोऽनुमोदनकरी श्यामा मनोहारिणी ।
सत्यानन्दचिदीश्वरप्रणयिनी स्वर्गापवर्गप्रदा
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ ९ ॥

या श्रुत्यन्तसुशुक्तिसम्पुटमहामुक्ताफलं सात्त्विकं
सच्चित्सौख्यपयोदवृष्टिफलितं सर्वात्मना सुन्दरम् ।
निर्मूल्यं निखिलार्थदं निरुपमाकारं भवाह्लाददं
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ १० ॥

या नित्याव्रतमण्डलस्तुतपदा नित्यार्चनातत्परा
नित्यानित्यविमर्शिनी कुलगुरोर्वायप्रकाशात्मिका ।
कृत्याकृत्यमतिप्रभेदशमनी कार्त्स्न्यात्मलाभप्रदा
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ ११ ॥

यामुद्दिश्य यजन्ति शुद्धमतयो नित्यं पराग्नौ स्रुचा
मत्या प्राणघृतप्लुतेन्द्रियचरुद्रव्यैः समन्त्राक्षरैः ।
यत्पादाम्बुजभक्तिदार्ढ्यसुरसप्राप्त्यै बुधाः सन्ततं
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ १२ ॥

या संविन्मकरन्दपुष्पलतिकास्वानन्ददेशोत्थिता
सत्सन्तानसुवेष्टनातिरुचिरा श्रेयःफलं तन्वती ।
निर्धूताखिलवृत्तिभक्तधिषणाभृङ्गाङ्गनासेविता
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ १३ ॥

यामाराध्य मुनिर्भवाब्धिमतरत् क्लेशोर्मिजालावृतं
यां ध्यात्वा न निवर्तते शिवपदानन्दाब्धिमग्नः परम् ।
यां स्मृत्वा स्वपदैकबोधमयते स्थूलेऽपि देहे जनः
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ १४ ॥

या पाशाङ्कुशचापसायककरा चन्द्रार्धचूडालसत्
काञ्चीदामविभूषिता स्मितमुखी मन्दारमालाधरा ।
नीलेन्दीवरलोचना शुभकरी त्यागाधिराजेश्वरी
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ १५ ॥

या भक्तेषु ददाति सन्ततसुखं वाणीं च लक्ष्मीं तथा
सौन्दर्यं निगमागमार्थकवितां सत्पुत्रसम्पत्सुखम् ।
सत्सङ्गं सुकलत्रतां सुविनयं सायुज्यमुक्तिं परां
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ १६ ॥

इति त्यागराज विरचितं श्री राजराजेश्वरी स्तवः ।


इतर श्री ललिता स्तोत्राणि पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments