Site icon Stotra Nidhi

Sri Maha Sastha Ashtottara Shatanamavali – श्री महाशास्तृ अष्टोत्तरशतनामावली

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ध्यानम् –
विप्रारोपितधेनुघातकलुषच्छेदाय पूर्वं महान्
सोमारण्यजयन्तिमध्यमगतो ग्रामे मुनिर्गौतमः ।
चक्रे यज्ञवरं कृपाजलनिधिस्तत्राविरासीत् प्रभुः
तस्मै श्रीगुरुमूर्तये नम इदं यो विष्णुशम्भ्वोसुतः ॥

नामावली –
रैवताचलशृङ्गाग्रमध्यस्थाय नमो नमः ।
रत्नादिसोमसम्युक्तशेखराय नमो नमः ।
चन्द्रसूर्यशिखावाहत्रिणेत्राय नमो नमः ।
पाशाङ्कुशगदाशूलाभरणाय नमो नमः ।
मदघूर्णितपूर्णाम्बामानसाय नमो नमः ।
पुष्कलाहृदयाम्भोजनिवासाय नमो नमः ।
श्वेतमातङ्गनीलाश्ववाहनाय नमो नमः ।
रक्तमालाधरस्कन्धप्रदेशाय नमो नमः ।
वैकुण्ठनाथशम्भ्वोश्च सुसुताय नमो नमः । ९

त्रिकालं वर्तमानानां भाषणाय नमो नमः ।
महासुरदशकरच्छेदनाय नमो नमः ।
देवराजसुवाक् तुष्टमानसाय नमो नमः ।
अभयङ्करमन्त्रार्थस्वरूपाय नमो नमः ।
जयशब्दमुनिस्तोत्रश्रोत्रियाय नमो नमः ।
सूर्यकोटिप्रतीकाशसुदेहाय नमो नमः ।
दण्डनाराचविलसत्कराब्जाय नमो नमः ।
मन्दाकिनीनदीतीरनिवासाय नमो नमः ।
मतङ्गोद्यानसञ्चारवैभवाय नमो नमः । १८

सदा सद्भक्तिसन्धातृचरणाय नमो नमः ।
कृशानुकोणमध्यस्थकृपाङ्गाय नमो नमः ।
पार्वतीहृदयानन्दभरिताय नमो नमः ।
शाण्डिल्यमुनिसंस्तुत्यश्यामलाय नमो नमः ।
विश्वावसुसदासेव्यविभवाय नमो नमः ।
पञ्चाक्षरीमहामन्त्रपारगाय नमो नमः ।
प्रभा सत्याभिसम्पूज्यपदाब्जाय नमो नमः ।
खड्गखेटोरगाम्भोजसुभुजाय नमो नमः ।
मदत्रयद्रवगजारोहणाय नमो नमः । २७

चिन्तामणिमहापीठमध्यगाय नमो नमः ।
शिखिपिञ्छजटाबद्धजघनाय नमो नमः ।
पीताम्बराबद्धकटिप्रदेशाय नमो नमः ।
विप्राराधनसन्तुष्टविश्रान्ताय नमो नमः ।
व्योमाग्निमायामूर्धेन्दुसुबीजाय नमो नमः ।
पुरा कुम्भोद्भवमुनिघोषिताय नमो नमः ।
वर्गारिषट्कुलामूलविनाशाय नमो नमः ।
धर्मार्थकाममोक्षश्रीफलदाय नमो नमः ।
भक्तिप्रदानन्दगुरुपादुकाय नमो नमः । ३६

मुक्तिप्रदातृपरमदेशिकाय नमो नमः ।
परमेष्ठिस्वरूपेण पालकाय नमो नमः ।
परापरेण पद्मादिदायकाय नमो नमः ।
मनुलोकैः सदावन्द्य मङ्गलाय नमो नमः ।
कृते प्रत्यक्षरं लक्षात्कीर्तिदाय नमो नमः ।
त्रेतायां द्व्यष्टलक्षेण सिद्धिदाय नमो नमः ।
द्वापरे चाष्टलक्षेण वरदाय नमो नमः ।
कलौ लक्षचतुष्केन प्रसन्नाय नमो नमः ।
सहस्रसङ्ख्याजापेन सन्तुष्टाय नमो नमः । ४५

यदुद्दिश्य जपः सद्यस्तत्प्रदात्रे नमो नमः ।
शौनकस्तोत्रसम्प्रीतसुगुणाय नमो नमः ।
शरणागतभक्तानां सुमित्राय नमो नमः ।
पाण्योर्गजध्वजं घण्टां बिभ्रते ते नमो नमः ।
आजानुद्वयसन्दीर्घबाहुकाय नमो नमः ।
रक्तचन्दनलिप्ताङ्गशोभनाय नमो नमः ।
कमलासुरजीवापहरणाय नमो नमः ।
शुद्धचित्तसुभक्तानां रक्षकाय नमो नमः ।
मार्यादिदुष्टरोगाणां नाशकाय नमो नमः । ५४

दुष्टमानुषगर्वापहरणाय नमो नमः ।
नीलमेघनिभाकारसुदेहाय नमो नमः ।
पिपीलिकादिब्रह्माण्डवश्यदाय नमो नमः ।
भूतनाथसदासेव्यपदाब्जाय नमो नमः ।
महाकालादिसम्पूज्यवरिष्ठाय नमो नमः ।
व्याघ्रशार्दूल पञ्चास्य वश्यदाय नमो नमः ।
मधुरानृपसम्मोहसुवेषाय नमो नमः ।
पाण्ड्यभूपसभारत्नपङ्कजाय नमो नमः ।
राघवप्रीतशबरीस्वाश्रमाय नमो नमः । ६३

पम्पानदीसमीपस्थसदनाय नमो नमः ।
पन्तलाधिपवन्द्यश्रीपदाब्जाय नमो नमः ।
भूतभेतालकूष्माण्डोच्चाटनाय नमो नमः ।
भूपाग्रे वनशार्दूलाकर्षणाय नमो नमः ।
पाण्ड्येशवंशतिलकस्वरूपाय नमो नमः ।
पत्रवाणीजरारोगध्वंसनाय नमो नमः ।
वाण्यै चोदितशार्दूल शिशुदाय नमो नमः ।
केरलेषु सदा केलिविग्रहाय नमो नमः ।
आश्रिताखिलवंशाभिवृद्धिदाय नमो नमः । ७२

छागास्यराक्षसीपाणिखण्डनाय नमो नमः ।
सदाज्वलद्घृणीन्यस्तशरणाय नमो नमः ।
दीप्त्यादिशक्तिनवकैः सेविताय नमो नमः ।
प्रभूतनामपञ्चास्यपीठस्थाय नमो नमः ।
प्रमथाकर्षसामर्थ्यदायकाय नमो नमः ।
षट्पञ्चाशद्देशपतिवश्यदाय नमो नमः ।
दुर्मुखीनामदैत्यशिरश्छेदाय नमो नमः ।
टादिभान्तदलैः क्लुप्तपद्मस्थाय नमो नमः ।
शरच्चन्द्रप्रतीकाशवक्त्राब्जाय नमो नमः । ८१

वश्याद्यष्टक्रियाकर्मफलदाय नमो नमः ।
वनवासादिसुप्रीतवरिष्ठाय नमो नमः ।
पुरा शचीभयभ्रान्तिप्रणाशाय नमो नमः ।
सुरेन्द्रप्रार्थिताभीष्टफलदाय नमो नमः ।
शम्भोर्जटासमुत्पन्नसेविताय नमो नमः ।
विप्रपूज्यसभामध्यनर्तकाय नमो नमः ।
जपापुष्पप्रभावोर्ध्वाधरोष्ठाय नमो नमः ।
साधुसज्जनसन्मार्गरक्षकाय नमो नमः ।
मध्वाज्यकुलवत्स्वादुवचनाय नमो नमः । ९०

रक्तसैकतशैलाघक्षेत्रस्थाय नमो नमः ।
केतकीवनमध्यस्थकुमाराय नमो नमः ।
गोहत्तिपापशमनचतुराय नमो नमः ।
स्वपूजनात् पापमुक्तगौतमाय नमो नमः ।
उदीच्याचलवारीशग्रामरक्षाय ते नमः ।
गौतमीसलिलस्नानसन्तुष्टाय नमो नमः ।
सोमारण्यजयन्ताख्यक्षेत्रमध्याय ते नमः ।
गौतमाख्यमुनिश्रेष्ठयागप्रार्च्याय ते नमः ।
कृत्तिकर्क्षोद्भवग्रामप्रवेशाय नमो नमः । ९९

कृत्तिकर्क्षोद्भवग्रामक्लेशनाशाय ते नमः ।
कृत्तिकर्क्षोद्भवग्रामपालनाय नमो नमः ।
सदाध्यायिभरद्वाजपूजिताय नमो नमः ।
कश्यपादिमुनीन्द्राणां तपोदेशाय ते नमः ।
जन्ममृत्युजरातप्तजनशान्तिकृते नमः ।
भक्तजनमनः क्लेशमर्दनाय नमो नमः ।
आयुर्यशः श्रियं प्रज्ञां पुत्रान् देहि नमो नमः ।
रेवन्तजृम्भिन् एह्येहि प्रसादं कुरु मे नमः ।
ब्रह्मविष्णुशिवात्मैक्यस्वरूपाय नमो नमः । १०८

इति श्रीमहाशास्तृ अष्टोत्तरशतनामावली ॥


इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments