Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री कालिका परमेश्वरी अनुग्रह प्रसाद सिद्धिद्वारा सर्वशत्रुबाधा शान्त्यर्थं, मम सर्वारिष्ट निवृत्त्यर्थं, सर्वकार्य सिद्ध्यर्थं, श्री कालिका परमेश्वरी प्रीत्यर्थं ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ॥
ध्यानम् –
शवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीं
चतुर्भुजां खड्गमुण्डवराभयकरां शिवाम् ।
मुण्डमालाधरां देवीं ललज्जिह्वां दिगम्बरां
एवं सञ्चिन्तयेत्कालीं श्मशानालयवासिनीम् ॥ १ ॥
या कालिका रोगहरा सुवन्द्या-
-र्वश्यैः समस्तैर्व्यवहारदक्षैः ।
जनैर्जनानां भयहारिणी च
सा देवमाता मयि सौख्यदात्री ॥ २ ॥
या माया प्रकृतिशक्तिश्चण्डमुण्डविमर्दिनी ।
सा पूज्या सर्वदेवैश्च ह्यस्माकं वरदा भव ॥ ३ ॥
ओं श्रीकालिका देव्यै नमः ध्यायामि ।
आवाहनम् –
आगच्छ वरदे देवि दैत्यदर्पनिषूदिनी ।
पूजां गृहाण सुमुखि नमस्ते शङ्करप्रिये ॥
ओं श्रीकालिका देव्यै नमः आवाहयामि ।
आसनम् –
अनेकरत्नसम्युक्तं नानामणिगणान्वितम् ।
कार्तस्वरमयं दिव्यमानसं प्रतिगृह्यताम् ॥
ओं श्रीकालिका देव्यै नमः सुवर्णसिंहासनं समर्पयामि ।
पाद्यम् –
गङ्गादि सर्वतीर्थेभ्यो मया प्रार्थनयाऽऽहृतम् ।
तोयमेतत्सुखस्पर्श पाद्यर्थं प्रतिगृह्यताम् ॥
ओं श्रीकालिका देव्यै नमः पादयोः पाद्यं समर्पयामि ।
अर्घ्यम् –
गन्धपुष्पाक्षतैर्युक्तमर्घ्यं सम्पादितं मया ।
गृहाण त्वं महादेवि प्रसन्ना भव सर्वदा ॥
ओं श्रीकालिका देव्यै नमः हस्तयोः अर्घ्यं समर्पयामि ।
आचमनीयम् –
आचम्यतां त्वया देवि भक्तिर्मे ह्यचलां कुरु ।
ईप्सितां मे वरं देहि परत्र च परां गतिम् ॥
ओं श्रीकालिका देव्यै नमः मुखे आचमनीयं समर्पयामि ।
पञ्चामृत स्नानम् –
पयोधधि घृतं क्षौद्रं सितया च समन्वितम् ।
पञ्चामृतमनेनाद्य कुरु स्नानं दयानिधे ॥
ओं श्रीकालिका देव्यै नमः पञ्चामृतस्नानं समर्पयामि ।
स्नानम् –
जाह्नवीतोयमानीतं शुभं कर्पूरसम्युतम् ।
स्नापयामि सुरश्रेष्ठे त्वां पुत्रादि फलप्रदान् ॥
ओं श्रीकालिका देव्यै नमः शुद्धोदकस्नानं समर्पयामि ।
स्नानानन्तरं शुद्धाचमनीयं समर्पयामि ।
वस्त्रम् –
वस्त्रं च सोमदैवत्यं लज्जायास्तु निवारणम् ।
मया निवेदितं भक्त्या गृहाण परमेश्वरी ॥
ओं श्रीकालिका देव्यै नमः वस्त्रं समर्पयामि ।
उपवस्त्रम् –
यामाश्रित्य महामाया जगत् सम्मोहिनी सदा ।
तस्यै ते परमेशानि कल्पयाम्युत्तरीयकम् ॥
ओं श्रीकालिका देव्यै नमः उपवस्त्रं समर्पयामि ।
आभरणम् –
स्वभाव सुन्दराङ्गार्थे नानाशक्त्याश्रिते शिवे ।
भूषणानि विचित्राणि कल्पयाम्यमरार्चिते ॥
ओं श्रीकालिका देव्यै नमः आभरणानि समर्पयामि ।
गन्धम् –
परमानन्द सौभाग्य परिपूर्ण दिगन्तरे ।
गृहाण परमं गन्धं कृपया परमेश्वरि ॥
ओं श्रीकालिका देव्यै नमः गन्धं समर्पयामि ।
कुङ्कुमम् –
कुङ्कुमं कान्तिदं दिव्यं कामिनी कामसम्भवम् ।
कुङ्कुमेनार्चिते देवि प्रसीद परमेश्वरि ॥
ओं श्रीकालिका देव्यै नमः कुङ्कुमं समर्पयामि ।
सिन्दूरम् –
सिन्दूरमरुणाभासं जपाकुसुमसन्निभम् ।
पूजितासि महादेवि प्रसीद परमेश्वरी ॥
ओं श्रीकालिका देव्यै नमः सिन्दूरं समर्पयामि ।
कज्जलम् –
चक्षुभ्यां कज्जलं रम्यं सुभगे शक्तिकारिके ।
कर्पूरज्योतिरुत्पन्नं गृहाण परमेश्वरि ॥
ओं श्रीकालिका देव्यै नमः कज्जलं समर्पयामि ।
हरिद्रा –
हरिद्रारञ्जिते देवि सुखसौभाग्यदायिनि ।
तस्मात्त्वं पूजयाम्यत्र सुखशान्तिं प्रयच्छ मे ॥
ओं श्रीकालिका देव्यै नमः हरिद्राचूर्णं समर्पयामि ।
परिमल द्रव्याणि –
चन्दनागरु कर्पूरं कुङ्कुमं रोचनं तथा ।
कस्तूर्यादि सुगन्धांश्च सर्वाङ्गेषु विलेपये ॥
ओं श्रीकालिका देव्यै नमः नानाविध परिमल द्रव्याणि समर्पयामि ।
सौभाग्य सूत्रम् –
सौभाग्यसूत्रं वरदे सुवर्णमणिसम्युते ।
कण्ठे गृहाण देवेशि सौभाग्यं देहि मे सदा ॥
ओं श्रीकालिका देव्यै नमः सौभाग्य सूत्रं समर्पयामि ।
अक्षतान् –
रञ्जिता कुङ्कुमौघेन अक्षताश्चापि शोभनाः ।
ममैषां देवि दानेन प्रसन्नाभवमीश्वरी ॥
ओं श्रीकालिका देव्यै नमः अक्षतान् समर्पयामि ।
पुष्पमाला –
सुरभिं पुष्पनिचयैर्ग्रथितं शुभमालिकाम् ।
ददामि तव शोभार्थं गृहाण परमेश्वरि ॥
ओं श्रीकालिका देव्यै नमः पुष्पमालान् समर्पयामि ।
पुष्पाणि –
मन्दार पारिजातादि पाटली केतकानि च ।
जाती चम्पक पुष्पाणि गृहाण परमेश्वरी ॥
ओं श्रीकालिका देव्यै नमः पुष्पाणि समर्पयामि ।
बिल्वपत्रम् –
अमृतोद्भव श्रीवृक्षो महादेवि प्रियः सदा ।
बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरी ॥
ओं श्रीकालिका देव्यै नमः बिल्वपत्रं समर्पयामि ।
अथ अष्टोत्तरशतनाम पूजा –
श्री काली अष्टोत्तरशतनामावली पश्यतु ।
धूपम् –
दशाङ्ग गुग्गुलं धूपं चन्दनागरु सम्युतम् ।
समर्पितं मया भक्त्या महादेवि प्रगृह्यताम् ॥
ओं श्रीकालिका देव्यै नमः धूपमाघ्रापयामि ।
दीपम् –
घृतवर्तिसमायुक्तं महातेजो महोज्ज्वलम् ।
दीपं दास्यामि देवेशि सुप्रीता भव सर्वदा ॥
ओं श्रीकालिका देव्यै नमः दीपं दर्शयामि ।
नैवेद्यम् –
अन्नं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम् ।
नैवेद्यं गृह्यतां देवि भक्तिर्मेह्यचलां कुरु ॥
ओं श्रीकालिका देव्यै नमः नैवेद्यं समर्पयामि ।
ऋतुफलम् –
द्राक्षा खर्जूर कदली पनसाम्रकपित्यकम् ।
नारिकेलेक्षुजम्ब्वादि फलानि प्रतिगृह्यताम् ॥
ओं श्रीकालिका देव्यै नमः ऋतुफलं समर्पयामि ।
आचमनीयजलम् –
कामारिवल्लभे देवि कुर्वाचमनमम्बिके ।
निरन्तरमहं वन्दे चरणौ तव चण्डिके ॥
ओं श्रीकालिका देव्यै नमः नैवेद्यानन्तरं आचमनीयजलं समर्पयामि ।
ताम्बूलम् –
एलालवङ्ग कस्तूरी कर्पूरैः सुष्ठुवासिताम् ।
वीटिकां मुखवासार्थमर्पयामि सुरेश्वरि ॥
ओं श्रीकालिका देव्यै नमः ताम्बूलं समर्पयामि ।
दक्षिण (स्वर्णं)-
पूजाफलसमृद्ध्यर्थं तवाग्रे स्वर्णमीश्वरि ।
स्थापितं तेन मे प्रीता पूर्णान् कुरु मनोरथान् ॥
ओं श्रीकालिका देव्यै नमः दक्षिणान् समर्पयामि ।
नीराजनम् –
नीराजनं सुमङ्गल्यं कर्पूरेण समन्वितम् ।
चन्द्रार्कवह्नि सदृशं महादेवि नमोऽस्तु ते ॥
ओं श्रीकालिका देव्यै नमः नीराजनं समर्पयामि ।
मन्त्रपुष्पम् –
ओं कालिकायै च विद्महे श्मशानवासिन्यै धीमहि तन्नोऽघोरा प्रचोदयात् ।
ओं श्रीकालिका देव्यै नमः मन्त्रपुष्पं समर्पयामि ।
प्रदक्षिण –
नमस्ते देवि देवेशि नमस्ते ईप्सितप्रदे ।
नमस्ते जगतां धात्रि नमस्ते भक्तवत्सले ॥
ओं श्रीकालिका देव्यै नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।
साष्टाङ्ग नमस्कारम् –
नमः सर्वहितार्थायै जगदाधार हेतवे ।
साष्टाङ्गोऽयं प्रणामस्तु प्रयत्नेन मया कृतः ॥
ओं श्रीकालिका देव्यै नमः साष्टाङ्ग नमस्कारान् समर्पयामि ।
क्षमा प्रार्थना –
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व परमेश्वरि ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं परात्परे ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु ते ॥
अनया मया कृतेन ध्यान आवाहनादि षोडशोपचार पूजनेन भगवती सर्वात्मिका श्री कालिका परमेश्वरी सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥
तीर्थप्रसाद ग्रहणम् –
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं मातृपादोदकं शुभम् ॥
ओं श्रीकालिका देव्यै नमः प्रसादं शिरसा गृह्णामि ।
विसर्जनम् –
इदं पूजा मया देवि यथाशक्त्युपपादिताम् ।
रक्षार्थं त्वं समदाय व्रजस्थानमनुत्तमम् ॥
ओं श्रीकालिका देव्यै नमः यथास्थानमुद्वासयामि ।
ओं शान्तिः शान्तिः शान्तिः ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.