Site icon Stotra Nidhi

Sri Kamala Stotram – श्री कमला स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ओङ्काररूपिणी देवि विशुद्धसत्त्वरूपिणी ।
देवानां जननी त्वं हि प्रसन्ना भव सुन्दरि ॥ १ ॥

तन्मात्रं चैव भूतानि तव वक्षःस्थलं स्मृतम् ।
त्वमेव वेदगम्या तु प्रसन्ना भव सुन्दरि ॥ २ ॥

देव दानव गन्धर्व यक्ष राक्षस किन्नरैः ।
स्तूयसे त्वं सदा लक्ष्मि प्रसन्ना भव सुन्दरि ॥ ३ ॥

लोकातीता द्वैतातीता समस्तभूतवेष्टिता ।
विद्वज्जनकीर्तिता च प्रसन्ना भव सुन्दरि ॥ ४ ॥

परिपूर्णा सदा लक्ष्मि त्रात्री तु शरणार्थिषु ।
विश्वाद्या विश्वकर्त्री च प्रसन्ना भव सुन्दरि ॥ ५ ॥

ब्रह्मरूपा च सावित्री त्वद्दीप्त्या भासते जगत् ।
विश्वरूपा वरेण्या च प्रसन्ना भव सुन्दरि ॥ ६ ॥

क्षित्यप्तेजोमरुद्वोमपञ्चभूतस्वरूपिणी ।
बन्धादेः कारणं त्वं हि प्रसन्ना भव सुन्दरि ॥ ७ ॥

महेशे त्वं हैमवती कमला केशवेऽपि च ।
ब्रह्मणः प्रेयसी त्वं हि प्रसन्ना भव सुन्दरि ॥ ८ ॥

चण्डी दुर्गा कालिका च कौशिकी सिद्धिरूपिणी ।
योगिनी योगगम्या च प्रसन्ना भव सुन्दरि ॥ ९ ॥

बाल्ये च बालिका त्वं हि यौवने युवतीति च ।
स्थविरे वृद्धरूपा च प्रसन्ना भव सुन्दरि ॥ १० ॥

गुणमयी गुणातीता आद्या विद्या सनातनी ।
महत्तत्त्वादिसम्युक्ता प्रसन्ना भव सुन्दरि ॥ ११ ॥

तपस्विनी तपः सिद्धिः स्वर्गसिद्धिस्तदर्थिषु ।
चिन्मयी प्रकृतिस्त्वं तु प्रसन्ना भव सुन्दरि ॥ १२ ॥

त्वमादिर्जगतां देवि त्वमेव स्थितिकारणम् ।
त्वमन्ते निधनस्थानं स्वेच्छाचारा त्वमेव हि ॥ १३ ॥

चराचराणां भूतानां बहिरन्तस्त्वमेव हि ।
व्याप्यव्यापकरूपेण त्वं भासि भक्तवत्सले ॥ १४ ॥

त्वन्मायया हृतज्ञाना नष्टात्मानो विचेतसः ।
गतागतं प्रपद्यन्ते पापपुण्यवशात्सदा ॥ १५ ॥

तावत्सत्यं जगद्भाति शुक्तिकारजतं यथा ।
यावन्न ज्ञायते ज्ञानं चेतसा नान्वगामिनी ॥ १६ ॥

त्वज्ज्ञानात्तु सदा युक्तः पुत्रदारगृहादिषु ।
रमन्ते विषयान् सर्वानन्ते दुःखप्रदान् ध्रुवम् ॥ १७ ॥

त्वदाज्ञया तु देवेशि गगने सूर्यमण्डलम् ।
चन्द्रश्च भ्रमते नित्यं प्रसन्ना भव सुन्दरि ॥ १८ ॥

ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया ।
व्यक्ताऽव्यक्ता च देवेशि प्रसन्ना भव सुन्दरि ॥ १९ ॥

अचला सर्वगा त्वं हि मायातीता महेश्वरि ।
शिवात्मा शाश्वता नित्या प्रसन्ना भव सुन्दरि ॥ २० ॥

सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ।
अनन्ता निष्काला त्वं हि प्रसन्ना भवसुन्दरि ॥ २१ ॥

सर्वेश्वरी सर्ववन्द्या अचिन्त्या परमात्मिका ।
भुक्तिमुक्तिप्रदा त्वं हि प्रसन्ना भव सुन्दरि ॥ २२ ॥

ब्रह्माणी ब्रह्मलोके त्वं वैकुण्ठे सर्वमङ्गला ।
इन्द्राणी अमरावत्यामम्बिका वरुणालये ॥ २३ ॥

यमालये कालरूपा कुबेरभवने शुभा ।
महानन्दाग्निकोणे च प्रसन्ना भव सुन्दरि ॥ २४ ॥

नैरृत्यां रक्तदन्ता त्वं वायव्यां मृगवाहिनी ।
पाताले वैष्णवीरूपा प्रसन्ना भव सुन्दरि ॥ २५ ॥

सुरसा त्वं मणिद्वीपे ऐशान्यां शूलधारिणी ।
भद्रकाली च लङ्कायां प्रसन्ना भव सुन्दरि ॥ २६ ॥

रामेश्वरी सेतुबन्धे सिंहले देवमोहिनी ।
विमला त्वं च श्रीक्षेत्रे प्रसन्ना भव सुन्दरि ॥ २७ ॥

कालिका त्वं कालिघट्‍टे कामाख्या नीलपर्वते ।
विरजा औड्रदेशे त्वं प्रसन्ना भव सुन्दरि ॥ २८ ॥

वाराणस्यामन्नपूर्णा अयोध्यायां महेश्वरी ।
गयासुरी गयाधाम्नि प्रसन्ना भव सुन्दरि ॥ २९ ॥

भद्रकाली कुरुक्षेत्रे कृष्ण कात्यायनी व्रजे ।
महामाया द्वारकायां प्रसन्ना भव सुन्दरि ॥ ३० ॥

क्षुधा त्वं सर्वजीवानां वेला च सागरस्य हि ।
महेश्वरी मथुरायां प्रसन्ना भव सुन्दरि ॥ ३१ ॥

रामस्य जानकी त्वं च शिवस्य मनमोहिनी ।
दक्षस्य दुहिता चैव प्रसन्ना भव सुन्दरि ॥ ३२ ॥

विष्णुभक्तिप्रदा त्वं च कंसासुर विनाशिनी ।
रावणनाशिनी चैव प्रसन्ना भव सुन्दरि ॥ ३३ ॥

लक्ष्मीस्तोत्रमिदं पुण्यं यः पठेद्भक्तिसम्युतः ।
सर्वज्वरभयं नश्येत् सर्वव्याधिनिवारणम् ॥ ३४ ॥

इदं स्तोत्रं महापुण्यमापदुद्धारकारणम् ।
त्रिसन्ध्यमेकसन्ध्यं वा यः पठेत् सततं नरः ॥ ३५ ॥

मुच्यते सर्वपापेभ्यस्तथा तु सर्वसङ्कटात् ।
मुच्यते नात्र सन्देहो भुवि स्वर्गे रसातले ॥ ३६ ॥

समस्तं च तथा चैकं यः पठेद्भक्तितत्परः ।
स सर्वदुष्करं तीर्त्वा लभते परमां गतिम् ॥ ३७ ॥

सुखदं मोक्षदं स्तोत्रं यः पठेद्भक्तिसम्युतः ।
स तु कोटितीर्थफलं प्राप्नोति नात्र संशयः ॥ ३८ ॥

एका देवी तु कमला यस्मिंस्तुष्टा भवेत्सदा ।
तस्याऽसाध्यं तु देवेशि नास्तिकिञ्चिज्जगत्त्रये ॥ ३९ ॥

पठनादपि स्तोत्रस्य किं न सिद्ध्यति भूतले ।
तस्मात् स्तोत्रवरं प्रोक्तं सत्यं सत्यं हि पार्वति ॥ ४० ॥

इति श्री कमला स्तोत्रम् ।


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments