Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सिततरसंविदवाप्यं सदसत्कलनाविहीनमनुपाधि ।
जयति जगत्त्रयरूपं नीरूपं देवि ते रूपम् ॥ १ ॥
एकमनेकाकारं प्रसृतजगद्व्याप्तिविकृतिपरिहीनम् ।
जयति तवाद्वयरूपं विमलमलं चित्स्वरूपाख्यम् ॥ २ ॥
जयति तवोच्छलदन्तः स्वच्छेच्छायाः स्वविग्रहग्रहणम् ।
किमपि निरुत्तरसहजस्वरूपसंवित्प्रकाशमयम् ॥ ३ ॥
वान्त्वा समस्तकालं भूत्या झङ्कारघोरमूर्तिमपि ।
निग्रहमस्मिन् कृत्वानुग्रहमपि कुर्वती जयसि ॥ ४ ॥
कालस्य कालि देहं विभज्य मुनिपञ्चसङ्ख्यया भिन्नम् ।
स्वस्मिन् विराजमानं तद्रूपं कुर्वती जयसि ॥ ५ ॥
भैरवरूपी कालः सृजति जगत्कारणादिकीटान्तम् ।
इच्छावशेन यस्याः सा त्वं भुवनाम्बिका जयसि ॥ ६ ॥
जयति शशाङ्कदिवाकरपावकधामत्रयान्तरव्यापि ।
जननि तव किमपि विमलं स्वरूपरूपं परन्धाम ॥ ७ ॥
एकं स्वरूपरूपं प्रसरस्थितिविलयभेदस्त्रिविधम् ।
प्रत्येकमुदयसंस्थितिलयविश्रमतश्चतुर्विधं तदपि ॥ ८ ॥
इति वसुपञ्चकसङ्ख्यं विधाय सहजस्वरूपमात्मीयम् ।
विश्वविवर्तावर्तप्रवर्तक जयति ते रूपम् ॥ ९ ॥
सदसद्विभेदसूतेर्दलनपरा कापि सहजसंवित्तिः ।
उदिता त्वमेव भगवति जयसि जयाद्येन रूपेण ॥ १० ॥
जयति समस्तचराचरविचित्रविश्वप्रपञ्चरचनोर्मि ।
अमलस्वभावजलधौ शान्तं कान्तं च ते रूपम् ॥ ११ ॥
सहजोल्लासविकासप्रपूरिताशेषविश्वविभवैषा ।
पूर्णा तवाम्ब मूर्तिर्जयति परानन्दसम्पूर्णा ॥ १२ ॥
कवलितसकलजगत्रयविकटमहाकालकवलनोद्युक्ता ।
उपभुक्तभावविभवप्रभवापि कृशोदरी जयसि ॥ १३ ॥
रूपत्रयपरिवर्जितमसमं रूपत्रयान्तरव्यापि ।
अनुभवरूपमरूपं जयति परं किमपि ते रूपम् ॥ १४ ॥
अव्ययमकुलममेयं विगलितसदसद्विवेककल्लोलम् ।
जयति प्रकाशविभवस्फीतं काल्याः परं धाम ॥ १५ ॥
ऋतुमुनिसङ्ख्यं रूपं विभज्य पञ्चप्रकारमेकैकम् ।
दिव्यौघमुद्गिरन्ती जयति जगत्तारिणी जननी ॥ १६ ॥
भूदिग्गोखगदेवीचक्रसञ्ज्ञानविभवपरिपूर्णम् ।
निरुपमविश्रान्तिमयं श्रीपीठं जयति ते रूपम् ॥ १७ ॥
प्रलयलयान्तरभूमौ विलसितसदसत्प्रपञ्चपरिहीनाम् ।
देवि निरुत्तरतरां नौमि सदा सर्वतः प्रकटाम् ॥ १८ ॥
यादृङ्महाश्मशाने दृष्टं देव्याः स्वरूपमकुलस्थम् ।
तादृग् जगत्रयमिदं भवतु तवाम्ब प्रसादेन ॥ १९ ॥
इत्थं स्वरूपस्तुतिरभ्यधायि
सम्यक्समावेशदशावशेन ।
मया शिवेनास्तु शिवाय सम्यक्
ममैव विश्वस्य तु मङ्गलाय ॥ २० ॥
इति श्रीश्रीज्ञाननेत्रपाद रचितं श्री कालिका स्वरूप स्तुतिः ।
इतर श्री कालिका स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.