Site icon Stotra Nidhi

Sri Guhya Kali Vajra Kavacham – श्री गुह्यकाली वज्र कवचम् (विश्वमङ्गलम्)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

अस्य विश्वमङ्गलं नाम श्री गुह्यकाली महावज्रकवचस्य संवर्त ऋषिः अनुष्टुप् छन्दः, एकवक्त्रादि शतवक्त्रान्ता गुह्यकाली देवता, फ्रें बीजं, स्फ्रें शक्तिः, छ्रीं कीलकं सर्वाभीष्टसिद्धि पूर्वक आत्मरक्षणे जपे विनियोगः ॥

ओं फ्रें पातु शिरः सिद्धिकराली कालिका मम ।
ह्रीं छ्रीं ललाटं मे सिद्धिविकरालि सदाऽवतु ॥ १ ॥

श्रीं क्लीं मुखं चण्डयोगेश्वरी रक्षतु सर्वदा ।
हूं स्त्रीं कर्णौ वज्रकापालिनी मे कालिकाऽवतु ॥ २ ॥

ऐं क्रौं हनू कालसङ्कर्षणा मे पातु कालिका ।
क्रीं क्रौं भ्रुवावुग्रचण्डा कालिका मे सदाऽवतु ॥ ३ ॥

हां क्षौं नेत्रे सिद्धिलक्ष्मीरवतु प्रत्यहं मम ।
हूं ह्रौं नासां चण्डकापालिनी मे सर्वदाऽवतु ॥ ४ ॥

आं ईं ओष्ठाधरौ पातु सदा समयकुब्जिका ।
ग्लूं ग्लौं दन्तान् राजराजेश्वरी मे रक्षतात् सदा ॥ ५ ॥

जूं सः सदा मे रसनां पातु श्रीजयभैरवी ।
स्फ्रें स्फ्रें पातु स्वर्णकूटेश्वरी मे चिबुकं सदा ॥ ६ ॥

ब्लूं ब्लौं कण्ठं रक्षतु मे सर्वदा तुम्बुरेश्वरी ।
क्ष्रूं क्ष्रौं मे राजमातङ्गी स्कन्धौ रक्षतु सर्वदा ॥ ७ ॥

फ्रां फ्रौं भुजौ वज्रचण्डेश्वरी रक्षतु मे सदा ।
स्त्रें स्त्रौं वक्षःस्थलं पातु जयझङ्केश्वरी मम ॥ ८ ॥

फिं फां करौ रक्षतु मे शिवदूती च सर्वदा ।
छ्रैं छ्रौं मे जठरं पातु फेत्कारी घोरराविणी ॥ ९ ॥

स्त्रैं स्त्रौं गुह्येश्वरि नाभिं मम रक्षतु सर्वदा ।
क्षुं क्षौं पार्श्वो सदा पातु बाभुवी घोररूपिणी ॥ १० ॥

ग्रूं ग्रौं कुलेश्वरी पातु मम पृष्ठं च सर्वदा ।
क्लूं क्लौं कटिं रक्षतु मे भीमादेवी भयानका ॥ ११ ॥

हैं हौं मे रक्षतादूरू सर्वदा चण्डखेचरी ।
स्फ्रों स्फ्रौं मे जानुनी पातु कोरङ्गी भीषणानना ॥ १२ ॥

त्रीं थ्रीं जङ्घायुगं पातु तामसी सर्वदा मम ।
ज्रैं ज्रौं पादौ महाविद्या सर्वदा मम रक्षतु ॥ १३ ॥

ड्रीं ठ्रीं वागीश्वरी सर्वान् सन्धीन् देहस्य मेऽवतु ।
ख्रें ख्रौं शरीरधातून्मे कामाख्या सर्वदाऽवतु ॥ १४ ॥

ब्रीं ब्रूं कात्यायनी पातु दशवायूंस्तनूद्भवान् ।
ज्लूं ज्लौं पातु महालक्ष्मीः खान्येकादश सर्वदा ॥ १५ ॥

ऐं औं अनूक्तं यत् स्थानं शरीरेऽन्तर्बहिश्च मे ।
तत्सर्वं सर्वदा पातु हरसिद्धा हरप्रिया ॥ १६ ॥

फ्रें छ्रीं ह्रीं स्त्रीं हूं शरीरसकलं सर्वदा मम ।
गुह्यकाली दिवारात्रौ सन्ध्यासु परिरक्षतु ॥ १७ ॥

इति ते कवचं प्रोक्तं नाम्ना च विश्वमङ्गलम् ।
सर्वेभ्यः कवचेभ्यस्तु श्रेष्ठं सारतरं परम् ॥ १८ ॥

इदं पठित्वा त्वं देहं भस्मनैवावगुण्ठ्य च ।
तत्तत् स्थानेषु विन्यस्य बद्धवादः कवचं दृढम् ॥ १९ ॥

दशवारान् मनुं जप्त्वा यत्र कुत्रापि गच्छतु ।
समरे निपतच्छस्त्रेऽरण्ये स्वापदसङ्कुले ॥ २० ॥

श्मशाने प्रेतभूताढ्यकान्तारे दस्युसङ्कुले ।
राजद्वारे सपिशुने गह्वरे सर्पवेष्टिते ॥ २१ ॥

तस्य भीतिर्न कुत्रापि चरतः पृथिवीमिमाम् ।
न च व्याधिभयं तस्य नैव तस्करजं भयम् ॥ २२ ॥

नाग्न्युत्पातो नैव भूतप्रेतजः सङ्कटस्तथा ।
विद्युद्वर्षोपलभयं न कदापि प्रबाधते ॥ २३ ॥

न दुर्भिक्षभयं चास्य न च मारिभयं तथा ।
कृत्याभिचारजा दोषाः स्पृशन्त्येनं कदापि न ॥ २४ ॥

सहस्रं जपतश्चास्य पुरश्चरणमुच्यते ।
तत्कृत्वा तु प्रयुञ्जीत सर्वस्मिन्नपि कर्मणि ॥ २५ ॥

वश्यकार्यो मोहने च मारणोच्चाटने तथा ।
स्तम्भने च तथा द्वेषे तथा कृत्याभिचारयोः ॥ २६ ॥

दुर्गभङ्गे तथा युद्धे परचक्र निवारणे ।
एतत् प्रयोगात् सर्वाणि कार्याणि परिसाधयेत् ॥ २७ ॥

भूतावेशं नाशयति विवादे जयति द्विषः ।
सङ्कटं तरति क्षिप्रं कलहे जयमाप्नुयात् ॥ २८ ॥

यदीच्छेत् महतीं लक्ष्मीं तनयानायुरेव च ।
विद्यां कान्तिं तथौन्नत्यं यशं आरोग्यमेव च ॥ २९ ॥

भोगान् सौख्यं विघ्नहानिमनालस्यं महोदयम् ।
अधीहि कवचं नित्यममुनामुञ्च च प्रिये ॥ ३० ॥

कवचेनामुना सर्वं संसाधयति साधकः ।
यद्यद्ध्यायति चित्तेन सिद्धं तत्तत्पुरः स्थितम् ॥ ३१ ॥

दुर्धटं घटयत्येतत् कवचं विश्वमङ्गलम् ।
विश्वस्य मङ्गलं यस्मादतो वै विश्वमङ्गलम् ॥ ३२ ॥

सान्निध्यकारकं गुह्यकाल्या एतत् प्रकीर्तितम् ।
भुक्त्वा भोगानघं हत्वा देहान्ते मोक्षमाप्नुयात् ॥ ३३ ॥

इति श्री गुह्यकाली विश्वमङ्गल कवचम् ॥


इतर श्री कालिका स्तोत्राणि पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments