Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीकण्ठार्पितपत्रगण्डयुगलां सिंहासनाध्यासिनीं
लोकानुग्रहकारिणीं गुणवतीं लोलेक्षणां शाङ्करीम् ।
पाकारिप्रमुखामरार्चितपदां मत्तेभकुम्भस्तनीं
श्रीशैलभ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ १ ॥
विन्ध्याद्रीन्द्रगृहान्तरे निवसितां वेदान्तवेद्यानिधिं
मन्दारद्रुमपुष्पवासितकुचां मायां महामायिनीम् ।
बन्धूकप्रसवोज्ज्वलारुणनिभां पञ्चाक्षरीरूपिणीं
श्रीशैलभ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ २ ॥
माद्यच्छुम्भनिशुम्भमेघपटलप्रध्वंसझञ्झानिलां
कौमारीं महिषाख्यशुष्कविटपीधूमोरुदावानलाम् ।
चक्राद्यायुधसङ्ग्रहोज्ज्वलकरां चामुण्डिकाधीश्वरीं
श्रीशैलभ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ ३ ॥
दृक्कञ्जातविलासकल्पितसरोजातोरुशोभान्वितां
नक्षत्रेश्वरशेखरप्रियतमां देवीं जगन्मोहिनीम् ।
रञ्जन्मङ्गलदायिनीं शुभकरीं राजत्स्वरूपोज्ज्वलां
श्रीशैलभ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ ४ ॥
केलीमन्दिरराजताचलतलां सम्पूर्णचन्द्राननां
योगीन्द्रैर्नुतपादपङ्कजयुगां रत्नाम्बरालङ्कृताम् ।
स्वर्गावाससरोजपत्रनयनाभीष्टप्रदां निर्मलां
श्रीशैलभ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ ५ ॥
संसारार्णवतारकां भगवतीं दारिद्र्यविध्वंसिनीं
सन्ध्याताण्डवकेलिकां प्रियसतीं सद्भक्तकामप्रदाम् ।
शिञ्जन्नूपुरपादपङ्कजयुगां बिम्बाधरां श्यामलां
श्रीशैलभ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ ६ ॥
चञ्चत्काञ्चनरत्नचारुकटकां सर्वं सहावल्लभां
काञ्चीकाञ्चनघण्टिकाघणघणां कञ्जातपत्रेक्षणाम् ।
सारोदारगुणाञ्चितां पुरहरप्राणेश्वरीं शाम्भवीं
श्रीशैलभ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ ७ ॥
ब्रह्मर्षीश्वरवन्द्यपादकमलां पङ्केरुहाक्षस्तुतां
प्रालेयाचलवंशपावनकरीं शृङ्गारभूषानिधिम् ।
तत्त्वातीतमहाप्रभां विजयिनीं दाक्षायिणीं भैरवीं
श्रीशैलभ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ ८ ॥
भ्रमराम्बा महादेव्याः अष्टकं सर्वसिद्धिदम् ।
शत्रूणां तु नराणां च ध्वंसनं तद्वदाम्यहम् ॥ ९ ॥
इति श्रीदूर्वासविरचितं श्रीभ्रमराम्बिकाष्टकम् ।
इतर देवी स्तोत्राणि पश्यतु ।
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.