Site icon Stotra Nidhi

Riddhi Stava – ऋद्धि स्तवः

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

श्रीमन्वृषभशैलेश वर्धतां विजयी भवान् ।
दिव्यं त्वदीयमैश्वर्यं निर्मर्यादं विजृम्भताम् ॥ १ ॥

देवीभूषायुधैर्नित्यैर्मुक्तैर्मोक्षैकलक्षणैः ।
सत्त्वोत्तरैस्त्वदीयैश्च सङ्गः स्तात्सरसस्तव ॥ २ ॥

प्राकारगोपुरवरप्रासादमणिमण्टपाः ।
शालिमुद्गतिलादीनां शालाः शैलकुलोज्ज्वलाः ॥ ३ ॥

रत्नकाञ्चनकौशेयक्षौमक्रमुकशालिकाः ।
शय्यागृहाणि पर्यङ्कवर्याः स्थूलासनानि च ॥ ४ ॥

कनत्कनकभृङ्गारपतद्ग्रहकलाचिकाः ।
छत्रचामरमुख्याश्च सन्तु नित्याः परिच्छदाः ॥ ५ ॥

अस्तु निस्तुलमव्यग्रं नित्यमभ्यर्चनं तव ।
पक्षेपक्षे विवर्धन्तां मासिमासि महोत्सवाः ॥ ६ ॥

मणिकाञ्चनचित्राणि भूषणान्यम्बराणि च ।
काश्मीरसारकस्तूरीकर्पूराद्यनुलेपनम् ॥ ७ ॥

कोमलानि च दामानि कुसुमैः सौरभोत्करैः ।
धूपाः कर्पूरदीपाश्च सन्तु सन्ततमेव ते ॥ ८ ॥

नृत्तगीतयुतं वाद्यं नित्यमत्र विवर्धताम् ।
श्रोत्रेषु सुधाधाराः कल्पन्तां काहलीस्वनाः ॥ ९ ॥

कन्दमूलफलोदग्रं कालेकाले चतुर्विधम् ।
सूपापूपघृतक्षीरशर्करासहितं हविः ॥ १० ॥

घनसारशिलोदग्रैः क्रमुकाष्टदलैः सह ।
विमलानि च ताम्बूलीदलानि स्वीकुरु प्रभो ॥ ११ ॥

प्रीतिभीतियुतो भूयाद्भूयान् परिजनस्तव ।
भक्तिमन्तो भजन्तु त्वां पौरा जानपदास्तथा ॥ १२ ॥

धरणीधनरत्नानि वितरन्तु चिरं तव ।
कैङ्कर्यमखिलं सर्वे कुर्वन्तु क्षोणिपालकाः ॥ १३ ॥

प्रेमदिग्धदृशः स्वैरं प्रेक्षमाणास्त्वदाननम् ।
महान्तः सन्ततं सन्तो मङ्गलानि प्रयुञ्जताम् ॥ १४ ॥

एवमेव भवेन्नित्यं पालयन् कुशली भवान् ।
मामहीरमण श्रीमान् वर्धतामभिवर्धताम् ॥ १५ ॥

पत्युः प्रत्यहमित्थं यः प्रार्थयेत समुच्छ्रयम् ।
प्रसादसुमुखः श्रीमान् पश्यत्येनं परः पुमान् ॥ १६ ॥

इति ऋद्धिस्तवः ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments