Site icon Stotra Nidhi

Sundarakanda Sarga (Chapter) 62 – सुन्दरकाण्ड द्विषष्टितमः सर्गः (६२)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

॥ दधिमुखखिलीकारः ॥

तानुवाच हरिश्रेष्ठो हनुमान्वानरर्षभः ।
अव्यग्रमनसो यूयं मधु सेवत वानराः ॥ १ ॥

अहमावारयिष्यामि युष्माकं परिपन्थिनः ।
श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोङ्गदः ॥ २ ॥

प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु ।
अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया ॥ ३ ॥

अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम् ।
अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः ॥ ४ ॥

साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् ।
पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम् ॥ ५ ॥

जग्मुर्मधुवनं यत्र नदीवेगा इव द्रुतम् ।
ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः ॥ ६ ॥

अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् ।
पपुः सर्वे मधु तदा रसवत्फलमाददुः ॥ ७ ॥

उत्पत्य च ततः सर्वे वनपालान्समागतान् ।
ताडयन्ति स्म शतशः सक्तान्मधुवने तदा ॥ ८ ॥

मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते ।
पिबन्ति सहिताः सर्वे निघ्नन्ति स्म तथापरे ॥ ९ ॥

केचित्पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः ।
मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः ॥ १० ॥

अपरे वृक्षमूले तु शाखां गृह्य व्यवस्थिताः ।
अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते ॥ ११ ॥

उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत् ।
क्षिपन्ति च तदान्योन्यं स्खलन्ति च तथापरे ॥ १२ ॥

केचित् क्ष्वेलां प्रकुर्वन्ति केचित्कूजन्ति हृष्टवत् ।
हरयो मधुना मत्ताः केचित्सुप्ता महीतले ॥ १३ ॥

कृत्वा केचिद्धसन्त्यन्ये केचित्कुर्वन्ति चेतरत् ।
कृत्वा केचिद्वदन्त्यन्ये केचिद्बुध्यन्ति चेतरत् ॥ १४ ॥

येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु ।
तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः ॥ १५ ॥

जानुभिस्तु प्रकृष्टाश्च देवमार्गं च दर्शिताः ।
अब्रुवन्परमोद्विग्ना गत्वा दधिमुखं वचः ॥ १६ ॥

हनूमता दत्तवरैर्हतं मधुवनं बलात् ।
वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः ॥ १७ ॥

ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः ।
हतं मधुवनं श्रुत्वा सान्त्वयामास तान्हरीन् ॥ १८ ॥

इहागच्छत गच्छामो वानरान्बलदर्पितान् ।
बलेन वारयिष्यामो मधु भक्षयतो वयम् ॥ १९ ॥

श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः ।
पुनर्वीरा मधुवनं तेनैव सहसा ययुः ॥ २० ॥

मध्ये चैषां दधिमुखः प्रगृह्य तरसा तरुम् ।
समभ्यधावद्वेगेन ते च सर्वे प्लवङ्गमाः ॥ २१ ॥

ते शिलाः पादपांश्चापि पर्वतांश्चापि वानराः ।
गृहीत्वाऽभ्यगमन्क्रुद्धा यत्र ते कपिकुञ्जराः ॥ २२ ॥

ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत् ।
त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः ॥ २३ ॥

वृक्षस्थांश्च तलस्थांश्च वानरान्बलदर्पितान् ।
अभ्यक्रामंस्ततो वीराः पालास्तत्र सहस्रशः ॥ २४ ॥

अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः ।
अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा ॥ २५ ॥

तं सवृक्षं महाबाहुमापतन्तं महाबलम् ।
आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोङ्गदः ॥ २६ ॥

मदान्धश्च न वेदैनमार्यकोऽयं ममेति सः ।
अथैनं निष्पिपेषाशु वेगवद्वसुधातले ॥ २७ ॥

स भग्नबाहूरुभुजो विह्वलः शोणितोक्षितः ।
मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः ॥ २८ ॥

स समाश्वस्य सहसा सङ्क्रुद्धो राजमातुलः ।
वानरान्वारयामास दण्डेन मधुमोहितान् ॥ २९ ॥

स कथञ्चिद्विमुक्तस्तैर्वानरैर्वानरर्षभः ।
उवाचैकान्तमाश्रित्य भृत्यान्स्वान्समुपागतान् ॥ ३० ॥

एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः ।
सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ॥ ३१ ॥

सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिवे ।
अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ॥ ३२ ॥

इष्टं मधुवनं ह्येतत्सुग्रीवस्य महात्मनः ।
पितृपैतामहं दिव्यं देवैरपि दुरासदम् ॥ ३३ ॥

स वानरानिमान्सर्वान्मधुलुब्धान्गतायुषः ।
घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् ॥ ३४ ॥

वध्या ह्येते दुरात्मानो नृपाज्ञापरिभाविनः ।
अमर्षप्रभवो रोषः सफलो नो भविष्यति ॥ ३५ ॥

एवमुक्त्वा दधिमुखो वनपालान्महाबलः ।
जगाम सहसोत्पत्य वनपालैः समन्वितः ॥ ३६ ॥

निमेषान्तरमात्रेण स हि प्राप्तो वनालयः ।
सहस्रांशुसुतो धीमान्सुग्रीवो यत्र वानरः ॥ ३७ ॥

रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च ।
समप्रतिष्ठां जगतीमाकाशान्निपपात ह ॥ ३८ ॥

सन्निपत्य महावीर्यः सर्वैस्तैः परिवारितः ।
हरिर्दधिमुखः पालैः पालानां परमेश्वरः ॥ ३९ ॥

स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् ।
सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत् ॥ ४० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥

सुन्दरकाण्ड त्रिषष्टितमः सर्गः (६३)>>


सम्पूर्ण वाल्मीकि सुन्दरकाण्ड पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments