Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अर्जुन उवाच ।
क्षेत्रेषु येषु येषु त्वं चिन्तनीयो मयाच्युत ।
चेतसः प्रणिधानार्थं तन्ममाख्यातुमर्हसि ॥ १ ॥
यत्र यत्र च यन्नाम प्रीतये भवतः स्तुतौ ।
प्रसादसुमुखो नाथ तन्ममाशेषतो वद ॥ २ ॥
भगवानुवाच ।
सर्वगः सर्वभूतोऽहं न हि किञ्चिन्मया विना ।
चराचरे जगत्यस्मिन् विद्यते कुरुसत्तम ॥ ३ ॥
तथापि येषु स्थानेषु चिन्तनीयोऽहमर्जुन ।
स्तोतव्यो नामभिर्यैश्च श्रूयतां तद्वदामि ते ॥ ४ ॥
पुष्करे पुण्डरीकाक्षं गयायां च गदाधरम् ।
लोहदण्डे तथा विष्णुं स्तुवंस्तरति दुष्कृतम् ॥ ५ ॥
राघवं चित्रकूटे तु प्रभासे दैत्यसूदनम् ।
बृन्दावने च गोविन्दं मां स्तुवन् पुण्यभाग्भवेत् ॥ ६ ॥
जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे ।
वराहं कर्दमाले तु काश्मीरे चक्रपाणिनम् ॥ ७ ॥
जनार्दनं च कुब्जाम्रे मथुरायां च केशवम् ।
कुब्जके श्रीधरं तद्वद्गङ्गाद्वारे सुरोत्तमम् ॥ ८ ॥
सालग्रामे महायोगिं हरिं गोवर्धनाचले ।
पिण्डारके चतुर्बाहुं शङ्खोद्धारे च शङ्खिनम् ॥ ९ ॥
वामनं तु कुरुक्षेत्रे यमुनायां त्रिविक्रमम् ।
विश्वेश्वरं तथा शोणे कपिलं पूर्वसागरे ॥ १० ॥
श्वेतद्वीपपतिं चापि गङ्गासागरसङ्गमे ।
भूधरं देविकानद्यां प्रयागे चैव माधवम् ॥ ११ ॥
नरनारायणाख्यं च तथा बदरिकाश्रमे ।
समुद्रे दक्षिणे स्तव्यं पद्मनाभेति फाल्गुन ॥ १२ ॥
द्वारकायां तथा कृष्णं स्तुवंस्तरति दुर्गतिम् ।
रामं नाम महेन्द्राद्रौ हृषीकेशं तथार्बुदे ॥ १३ ॥
अश्वतीर्थे हयग्रीवं विश्वरूपं हिमाचले ।
नृसिंहं कृतसौचे च विपाशायां द्विजप्रियम् ॥ १४ ॥
नैमिषे यज्ञपुरुषं जम्बूमार्गे तथाच्युतम् ।
अनन्तं सैन्धवारण्ये दण्डके शार्ङ्गधारिणम् ॥ १५ ॥
उत्पलावर्तके शौरिं नर्मदायां श्रियः पतिम् ।
दामोदरं रैवतके नन्दायां जलशायिनम् ॥ १६ ॥
सर्वयोगेश्वरं चैव सिन्धुसागरसङ्गमे ।
सह्याद्रौ देवदेवेशं वैकुण्ठं मागधे वने ॥ १७ ॥
सर्वपापहरं विन्ध्ये चोड्रेषु पुरुषोत्तमम् ।
हृदये चापि कौन्तेय परमात्मानमात्मनः ॥ १८ ॥
वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम् ।
पर्वते पर्वते रामं सर्वत्र मधुसूदनम् ॥ १९ ॥
नरं भूमौ तथा व्योम्नि कौन्तेय गरुडध्वजम् ।
वासुदेवं च सर्वत्र संस्मरेज्ज्योतिषां पतिम् ॥ २० ॥
अर्चयन् प्रणमन् स्तुन्वन् संस्मरेश्च धनञ्जय ।
एतेष्वेतानि नामानि नरः पापात् प्रमुच्यते ॥ २१ ॥
स्थानेष्वेतेषु मन्नाम्नामेतेषां प्रीणनं नरः ।
द्विजानां प्रीणनं कृत्वा स्वर्गलोकेऽभिजायते ॥ २२ ॥
नामान्येतानि कौन्तेय स्थानान्येतानि चात्मवान् ।
जपन् वै पञ्चपञ्चाशत् त्रिसन्ध्यं मत्परायणः ॥ २३ ॥
त्रीणि जन्मानि यत्पापमवस्थात्रितये कृतम् ।
तत्क्षालयत्यसन्दिग्धं जायते च सतां कुले ॥ २४ ॥
द्विकालं वा जपन्वैतद्दिवारात्रौ च यत्कृतम् ।
तस्माद्विमुच्यते पापात् संस्तुवन्परमो नरः ॥ २५ ॥
जप्तान्येतानि कौन्तेय सकृच्छ्रद्धासमन्वितम् ।
मोचयन्ति नरं पापाद्यत्तत्रैव दिने कृतम् ॥ २६ ॥
धन्यं यशस्यमायुष्यं जयं कुरु कुलोद्वह ।
ग्रहानुकूलतां चैव करोत्याशु न संशयः ॥ २७ ॥
उपोषितो मत्परमः स्थानेष्वेतेषु मानवः ।
कृतायतनवासश्च प्राप्नोत्यभिमतं फलम् ॥ २८ ॥
उत्क्रान्तिरप्यशेषेषु स्थानेष्वेतेषु शस्यते ।
अन्यस्थानाच्छतगुणमेतेष्वनशनादिकम् ॥ २९ ॥
यस्तु मत्परमः कालं करोत्येतेषु मानवः ।
देवानामपि पूज्योऽसौ मम लोके महीयते ॥ ३० ॥
स्थानेष्वथैतेषु च ये वसन्ति
सम्पूजयन्ते मम सर्वकालम् ।
तदेह चान्ते त्रिदिवं प्रयान्ति
नाकं च लोकं समवाप्नुवन्ति ॥ ३४ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अर्जुनं प्रति कृष्णोपदेशे स्थानविशेषकीर्तनमाहात्म्यवर्णनो नाम पञ्चविंशत्युत्तरशततमोऽध्यायः ।
इतर श्री विष्णु स्तोत्राणि पश्यतु |
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.