Site icon Stotra Nidhi

Sri Raghavendra Ashtottara Shatanamavali – श्री राघवेन्द्र अष्टोत्तरशतनामावली

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ओं स्ववाग्देवता सरिद्भक्तविमलीकर्त्रे नमः ।
ओं श्रीराघवेन्द्राय नमः ।
ओं सकलप्रदात्रे नमः ।
ओं क्षमा सुरेन्द्राय नमः ।
ओं स्वपादभक्तपापाद्रिभेदनदृष्टिवज्राय नमः ।
ओं हरिपादपद्मनिषेवणाल्लब्धसर्वसम्पदे नमः ।
ओं देवस्वभावाय नमः ।
ओं दिविजद्रुमाय नमः । [इष्टप्रदात्रे]
ओं भव्यस्वरूपाय नमः । ९

ओं सुखधैर्यशालिने नमः ।
ओं दुष्टग्रहनिग्रहकर्त्रे नमः ।
ओं दुस्तीर्णोपप्लवसिन्धुसेतवे नमः ।
ओं विद्वत्परिज्ञेयमहाविशेषाय नमः ।
ओं सन्तानप्रदायकाय नमः ।
ओं तापत्रयविनाशकाय नमः ।
ओं चक्षुप्रदायकाय नमः ।
ओं हरिचरणसरोजरजोभूषिताय नमः ।
ओं दुरितकाननदावभूताय नमः । १८

ओं सर्वतन्त्रस्वतन्त्राय नमः ।
ओं श्रीमध्वमतवर्धनाय नमः ।
ओं सततसन्निहिताशेषदेवतासमुदायाय नमः ।
ओं श्रीसुधीन्द्रवरपुत्रकाय नमः ।
ओं श्रीवैष्णवसिद्धान्तप्रतिष्ठापकाय नमः ।
ओं यतिकुलतिलकाय नमः ।
ओं ज्ञानभक्त्यायुरारोग्य सुपुत्रादिवर्धनाय नमः ।
ओं प्रतिवादिमातङ्ग कण्ठीरवाय नमः ।
ओं सर्वविद्याप्रवीणाय नमः । २७

ओं दयादाक्षिण्यवैराग्यशालिने नमः ।
ओं रामपादाम्बुजासक्ताय नमः ।
ओं रामदासपदासक्ताय नमः ।
ओं रामकथासक्ताय नमः ।
ओं दुर्वादिद्वान्तरवये नमः ।
ओं वैष्णवेन्दीवरेन्दवे नमः ।
ओं शापानुग्रहशक्ताय नमः ।
ओं अगम्यमहिम्ने नमः ।
ओं महायशसे नमः । ३६

ओं श्रीमध्वमतदुग्दाब्धिचन्द्रमसे नमः ।
ओं पदवाक्यप्रमाणपारावार पारङ्गताय नमः ।
ओं योगीन्द्रगुरवे नमः ।
ओं मन्त्रालयनिलयाय नमः ।
ओं परमहंस परिव्राजकाचार्याय नमः ।
ओं समग्रटीकाव्याख्याकर्त्रे नमः ।
ओं चन्द्रिकाप्रकाशकारिणे नमः ।
ओं सत्यादिराजगुरवे नमः ।
ओं भक्तवत्सलाय नमः । ४५

ओं प्रत्यक्षफलदाय नमः ।
ओं ज्ञानप्रदाय नमः ।
ओं सर्वपूज्याय नमः ।
ओं तर्कताण्डवव्याख्याकर्त्रे नमः ।
ओं कृष्णोपासकाय नमः ।
ओं कृष्णद्वैपायनसुहृदे नमः ।
ओं आर्यानुवर्तिने नमः ।
ओं निरस्तदोषाय नमः ।
ओं निरवद्यवेषाय नमः । ५४

ओं प्रत्यर्धिमूकत्वनिदानभाषाय नमः ।
ओं यमनियमासन प्राणायाम प्रत्याहार ध्यानधारण समाध्यष्टाङ्गयोगानुष्टान निष्टाय नमः । [नियमाय]
ओं साङ्गाम्नायकुशलाय नमः ।
ओं ज्ञानमूर्तये नमः ।
ओं तपोमूर्तये नमः ।
ओं जपप्रख्याताय नमः ।
ओं दुष्टशिक्षकाय नमः ।
ओं शिष्टरक्षकाय नमः ।
ओं टीकाप्रत्यक्षरार्थप्रकाशकाय नमः । ६३

ओं शैवपाषण्डध्वान्त भास्कराय नमः ।
ओं रामानुजमतमर्दकाय नमः ।
ओं विष्णुभक्ताग्रेसराय नमः ।
ओं सदोपासितहनुमते नमः ।
ओं पञ्चभेदप्रत्यक्षस्थापकाय नमः ।
ओं अद्वैतमूलनिकृन्तनाय नमः ।
ओं कुष्ठादिरोगनाशकाय नमः ।
ओं अग्रसम्पत्प्रदात्रे नमः ।
ओं ब्राह्मणप्रियाय नमः । ७२

ओं वासुदेवचलप्रतिमाय नमः ।
ओं कोविदेशाय नमः ।
ओं बृन्दावनरूपिणे नमः ।
ओं बृन्दावनान्तर्गताय नमः ।
ओं चतुरूपाश्रयाय नमः ।
ओं निरीश्वरमत निवर्तकाय नमः ।
ओं सम्प्रदायप्रवर्तकाय नमः ।
ओं जयराजमुख्याभिप्रायवेत्रे नमः ।
ओं भाष्यटीकाद्यविरुद्धग्रन्थकर्त्रे नमः । ८१

ओं सदास्वस्थानक्षेमचिन्तकाय नमः ।
ओं काषायचेलभूषिताय नमः ।
ओं दण्डकमण्डलुमण्डिताय नमः ।
ओं चक्ररूपहरिनिवासाय नमः ।
ओं लसदूर्ध्वपुण्ड्राय नमः ।
ओं गात्रधृत विष्णुधराय नमः ।
ओं सर्वसज्जनवन्दिताय नमः ।
ओं मायिकर्मन्दिमतमर्दकाय नमः ।
ओं वादावल्यर्थवादिने नमः । ९०

ओं साम्शजीवाय नमः ।
ओं माध्यमिकमतवनकुठाराय नमः ।
ओं प्रतिपदं प्रत्यक्षरं भाष्यटीकार्थ (स्वारस्य) ग्राहिणे नमः ।
ओं अमानुषनिग्रहाय नमः ।
ओं कन्दर्पवैरिणे नमः ।
ओं वैराग्यनिधये नमः ।
ओं भाट्‍टसङ्ग्रहकर्त्रे नमः ।
ओं दूरीकृतारिषड्वर्गाय नमः ।
ओं भ्रान्तिलेशविधुराय नमः । ९९

ओं सर्वपण्डितसम्मताय नमः ।
ओं अनन्तबृन्दावननिलयाय नमः ।
ओं स्वप्नभाव्यर्थवक्त्रे नमः ।
ओं यथार्थवचनाय नमः ।
ओं सर्वगुणसमृद्धाय नमः ।
ओं अनाद्यविच्छिन्न गुरुपरम्परोपदेश लब्धमन्त्रजप्त्रे नमः ।
ओं धृतसर्वद्रुताय नमः ।
ओं राजाधिराजाय नमः ।
ओं गुरुसार्वभौमाय नमः । १०८
ओं श्रीमूलरामार्चक श्रीराघवेन्द्र यतीन्द्राय नमः ।

इति श्री राघवेन्द्र अष्टोत्तरशतनामावली ।


इतर १०८, ३००, १००० नामावल्यः पश्यतु । इतर श्री राघवेन्द्र स्तोत्राणि पश्यतु । इतर श्री गुरु स्तोत्राणि पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments