Site icon Stotra Nidhi

Sri Ketu Stotram – श्री केतु स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

(पुस्तक: यह स्तोत्र “प्रभात स्तोत्रनिधि (देवनागरी)” पुस्तकमें मुद्रित है । Click here to buy.)

धूम्रा द्विबाहवः सर्वे गोदानो विकृताननाः ।
गृध्रयानासनस्थाश्च पान्तु नः शिखिनन्दनाः ॥ १ ॥

श्रीभैरव्युवाच ।
धन्या चानुगृहीतास्मि कृतार्थास्मि जगत्प्रभो ।
यच्छ्रुतं त्वन्मुखाद्देव केतुस्तोत्रमिदं शुभम् ॥ २ ॥

श्रीपरमेश्वर उवाच ।
शृणु देवि प्रवक्ष्यामि केतुस्तवमिमं परम् ।
सर्वपापविशुद्धात्मा स रोगैर्मुच्यते ध्रुवम् ॥ ३ ॥

श्वेतपीतारुणः कृष्णः क्वचिच्चामीकरप्रभः ।
शिवार्चनरतः केतुर्ग्रहपीडां व्यपोहतु ॥ ४ ॥

नमो घोरायाघोराय महाघोरस्वरूपिणे ।
आनन्देशाय देवाय जगदानन्ददायिने ॥ ५ ॥

नमो भक्तजनानन्ददायिने विश्वभाविने ।
विश्वेशाय महेशाय केतुरूपाय वै नमः ॥ ६ ॥

नमो रुद्राय सर्वाय वरदाय चिदात्मने ।
त्र्यक्षाय त्रिनिवासाय नमः सङ्कटनाशिने ॥ ७ ॥

त्रिपुरेशाय देवाय भैरवाय महात्मने ।
अचिन्त्याय चितिज्ञाय नमश्चैतन्यरूपिणे ॥ ८ ॥

नमः शर्वाय चर्च्याय दर्शनीयाय ते नमः ।
आपदुद्धरणायापि भैरवाय नमो नमः ॥ ९ ॥

नमो नमो महादेव व्यापिने परमात्मने ।
नमो लघुमते तुभ्यं ग्राहिणे सूर्यसोमयोः ॥ १० ॥

नमश्चापद्विनाशाय भूयो भूयो नमो नमः ।
नमस्ते रुद्ररूपाय चोग्ररूपाय केतवे ॥ ११ ॥

नमस्ते सौररूपाय शत्रुक्षयकराय च ।
महातेजाय वै तुभ्यं पूजाफलविवर्धिने ॥ १२ ॥

वह्निपुत्राय ते दिव्यरूपिणे प्रियकारिणे ।
सर्वभक्ष्याय सर्वाय सर्वग्रहान्तकाय ते ॥ १३ ॥

नमः पुच्छस्वरूपाय महामृत्युकराय च ।
नमस्ते सर्वदा क्षोभकारिणे व्योमचारिणे ॥ १४ ॥

नमस्ते चित्ररूपाय मीनदानप्रियाय च ।
दैत्यदानवगन्धर्ववन्द्याय महते नमः ॥ १५ ॥

य इदं पठते नित्यं प्रातरुत्थाय मानवः ।
ग्रहशान्तिर्भवेत्तस्य केतुराजस्य कीर्तनात् ॥ १६ ॥

यः पठेदर्धरात्रे तु वशं तस्य जगत्त्रयम् ।
इदं रहस्यमखिलं केतुस्तोत्रं तु कीर्तितम् ॥ १७ ॥

सर्वसिद्धिप्रदं गुह्यमायुरारोग्यवर्धनम् ।
गुह्यं मन्त्रं रहस्यं तु तव भक्त्या प्रकाशितम् ॥ १८ ॥

अभक्ताय न दातव्यमित्याज्ञा पारमेश्वरि ॥ १९ ॥

श्रीदेव्युवाच ।
भगवन्भवतानेन केतुस्तोत्रस्य मे प्रभो ।
कथनेन महेशान सत्यं प्रीतास्म्यहं त्वया ॥ २० ॥

श्रीईश्वर उवाच ।
इदं रहस्यं परमं न देयं यस्य कस्यचित् ।
गुह्यं गोप्यतमं देयं गोपनीयं स्वयोनिवत् ॥ २१ ॥

अग्निपुत्रो महातेजाः केतुः सर्वग्रहान्तकः ।
क्षोभयन्यः प्रजाः सर्वाः स केतुः प्रीयतां मम ॥ २२ ॥

इति केतु स्तोत्रम् ।


टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

प्रभात स्तोत्रनिधि

( पारायण ग्रन्थम् )

Click here to buy


इतर नवग्रह स्तोत्राणि पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments