Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नमामि कालिका देवीं कलिकल्मषनाशिनीम् ।
नमामि शम्भुपत्नीं च नमामि भवसुन्दरीम् ॥ १ ॥
आद्यां देवी नमस्कृत्य नमस्त्रैलोक्यमोहिनीम् ।
नमामि सत्यसङ्कल्पां सर्वपर्वतवासिनीम् ॥ २ ॥
पार्वतीं च नमस्कृत्य नमो नित्यं नगात्मजे ॥ ३ ॥
मातस्त्वदीय चरणं शरणं सुराणां
ध्यानास्पदैर्दिशति वाञ्छितवाञ्छनीयम् ।
येषां हृदि स्फुरति तच्चरणारविन्दं
धन्यास्त एव नियतं सुरलोकपूज्याः ॥ ४ ॥
गन्धैः शुभैः कुङ्कुम पङ्कलेपै
मतिस्त्वदीयं चरणं हि भक्ताः ।
स्मरन्ति शृण्वन्ति लुठन्तिधीरा-
-स्तेषां जरानैव भवेद्भवानि ॥ ५ ॥
तवाङ्घ्रि पद्मं शरणं सुराणां
परापरा त्वं परमा प्रकृष्टिः ।
दिने दिने देव भवेत् करस्थः
किमन्यमुच्चैः कथयन्ति सन्तः ॥ ६ ॥
कवीन्द्राणां दर्पं करकमलशोभा परिचितम् ।
विधुन्वज्जङ्घा मे सकलगणमेतद्गिरिसुते ॥ ७ ॥
अतस्त्वत्पादाब्जं जननि सततं चेतसि मम ।
हितं नारीभूतं प्रणिहितपदं शाङ्करमपि ॥ ८ ॥
ये ते दरिद्राः सततं हि मात-
-स्त्वदीयपादं मनसा नमन्ति ।
देवासुराः सिद्धवराश्च सर्वे
तव प्रसादात् सततं लुठन्ति ॥ ९ ॥
हरिस्त्वत्पादाब्जं निखिलजगतां भूतिरभवत् ।
शिवो ध्यात्वा ध्यात्वा किमपि परमं तत्परतरम् ॥ १० ॥
प्रजानां नाथोऽयं तदनु जगतां सृष्टिविहितम् ।
किमन्यत्ते मातस्तव चरणयुग्मस्य फलता ॥ ११ ॥
इन्द्रः सुराणां शरणं शरण्ये
प्रजापतिः काश्यप एव नान्यः ।
वरः पतिर्विष्णुभवः परेशि
त्वदीयपादाब्जफलं समस्तम् ॥ १२ ॥
त्वदीयनाभी नव पल्लवेवा
नवाङ्कुरैर्लोमवरैः प्रफुल्लम् ।
सदा वरेण्ये शरणं विधेहि
किं वापरं चित्तवरैर्विभाव्यम् ॥ १३ ॥
त्वदीय पादार्चित वस्तु सम्भवः
सुरासुरैः पूज्यमवाय शम्भुः ।
त्वदीय पादार्चन तत्परे हरिः
सुदर्शनाधीश्वरतामुपालभत् ॥ १४ ॥
धरित्री गन्धरूपेण रसेन च जलं धृतम् ।
तेजो वह्निस्वरूपेण प्रणवे ब्रह्मरूपधृक् ॥ १५ ॥
मुखं चन्द्राकारं त्रिभुवनपदे यामसहितं
त्रिनेत्रं मे मातः परिहरति यः स्यात् स तु पशुः ।
न सिद्धिस्तस्य स्यात् सुरतसततं विश्वमखिलं
कटाक्षैस्ते मातः सफलपदपद्मं स लभते ॥ १६ ॥
ऋतुस्त्वं हरिस्त्वं शिवस्त्वं मुरारेः
पुरा त्वं परा त्वं सदशीर्मुरारेः ।
हरस्त्वं हरिस्त्वं शिवस्त्वं शिवानां
गतिस्त्वं गतिस्त्वं गतिस्त्वं भवानि ॥ १७ ॥
नवाऽहं नवा त्वं नवा वा क्रियाया
वरस्त्वं चरुस्त्वं शरण्यं शरायाः ।
नदस्तवं नदीं त्वं गतिस्त्वं निधीनां
सुतस्त्वं सुता त्वं पिता त्वं गृहीणाम् ॥ १८ ॥
त्वदीय मुण्डाख्य भवानि मालां
विधाय चित्ते भव पद्मजाप्यः ।
सुराधिपत्वं लभते मुनीन्द्रः
शरण्यमेतत् किमयीह चान्यत् ॥ १९ ॥
नरस्य मुण्डं च तथा हि खड्गं
भुजद्वये ये मनसा जपन्ति ।
सव्येतरे देवि वराभयं च
भवन्ति ते सिद्धजना मुनीन्द्राः ॥ २० ॥
शिरोपरि त्वां हृदये निधाय
जपन्ति विद्यां हृदये कदाचित् ।
सदा भवेत्काव्यरसस्य वेत्ता
अन्ते परद्वन्द्वमुपाश्रयेत ॥ २१ ॥
दिगम्बरा त्वां मनसा विचिन्त्य
जपेत्पराख्यां जगतां जनीति ।
जपेत्पराख्यां जगतां मतिश्च
किंवा पराख्यां शरणं भवामः ॥ २२ ॥
शिवाविरावैः परिवेष्टितां त्वां
निधाय चित्ते सततं जपन्ति ।
भवेय देवेशि परापरादि
निरीशतां देवि परा वदन्ति ॥ २३ ॥
त्वदीय शृङ्गाररसं निधाय
जपन्ति मन्त्रं यदि वेदमुख्या ।
भवन्ति ते देवि जनापवादं
कविः कवीनामपि चाग्रजन्मा ॥ २४ ॥
विकीर्णवेशां मनसा निधाय
जपन्ति विद्यां चकितं कदाचित् ।
सुधाधिपत्यं लभते नरः स
किमस्ति भूम्यां शृणु कालकालि ॥ २५ ॥
त्वदीय बीजत्रयमातरेत-
-ज्जपन्ति सिद्धास्तु विमुक्तिहेतोः ।
तदेव मातस्तवपादपद्मा
भवन्ति सिद्धिश्च दिनत्रयेऽपि ॥ २६ ॥
त्वदीय कूर्चद्वयजापकत्वा-
-त्सुरासुरेभ्योऽपि भवेच्च वर्णः ।
धनित्व पाण्डित्यमयन्ति सर्वे
किं वा परान् देवि परापराख्या ॥ २७ ॥
त्वदीय लज्जाद्वय जापकत्वा-
-द्भवेन्महेशानि चतुर्थसिद्धिः ।
त्वदीय सत्सिद्धि वरप्रसादा-
-त्तवाधिपत्यं लभते नरेशः ॥ २८ ॥
ततः स्वनाम्नः शृणु मातरेत-
-त्फलं चतुर्वर्ग वदन्ति सन्तः ।
बीजत्रयं वै पुनरप्युपास्य
सुराधिपत्यं लभते मुनीन्द्रः ॥ २९ ॥
पुनस्तथा कूर्चयुगं जपन्ति
नमन्ति सिद्धा नरसिंहरूपा ।
ततोऽपि लज्जाद्वयजापकत्वा
लभन्ति सिद्धिं मनसो जनास्ते ॥ ३० ॥
त्रिपञ्चारे चक्रे जननि सततं सिद्धि सहिताम् ।
विचिन्वन् सञ्चिन्वन् परमममृतं दक्षिण पदम् ॥ ३१ ॥
सदाकाली ध्यात्वा विधि विहित पूजापरिकरा ।
न तेषां संसारे विभवपरिभङ्गप्रमथने ॥ ३२ ॥
त्वं श्रीस्त्वमीश्वरी काली त्वं ह्रीस्त्वं च करालिका ।
लज्जा लक्ष्मीः सती गौरी नित्याचिन्त्या चितिः क्रिया ॥ ३३ ॥
अकुल्याद्यैश्चित्ते प्रचयपदपद्यैः पदयुतैः
सदा जप्त्वा स्तुत्वा जपति हृदि मन्त्रं मनुविदा ।
न तेषां संसारे विभवपरिभङ्गप्रमथने
क्षणं चित्तं देवि प्रभवति विरुद्धे परिकरम् ॥ ३४ ॥
त्रयस्त्रिंशैः श्लोकैर्यदि जपति मन्त्रं स्तवति च
नमच्चैतानेतान् परममृतकल्पं सुखकरम् ।
भवेत् सिद्धि शुद्धौ जगति शिरसा त्वत्पदयुगम्
प्रणम्यं प्रकाम्यं वरसुरजनैः पूज्यविततिम् ॥ ३५ ॥
इति श्री काली क्रम स्तवः ।
इतर श्री कालिका स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.