Site icon Stotra Nidhi

Sri Dhumavathi Hrudayam – श्री धूमावती हृदयम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ओं अस्य श्री धूमावतीहृदयस्तोत्र महामन्त्रस्य-पिप्पलादऋषिः- अनुष्टुप्छन्दः- श्री धूमावती देवता- धूं बीजं- ह्रीं शक्तिः- क्लीं कीलकं -सर्वशत्रु संहारार्थे जपे विनियोगः

करन्यासः –
ओं धां अङ्गुष्ठाभ्यां नमः ।
ओं धीं तर्जनीभ्यां नमः ।
ओं धूं मध्यमाभ्य़ां नमः ।
ओं धैं अनामिकाभ्यां नमः ।
ओं धौं कनिष्ठकाभ्य़ां नमः ।
ओं धः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
ओं धां हृदयाय नमः ।
ओं धीं शिरसे स्वाहा ।
ओं धूं शिखायै वषट् ।
ओं धैं कवचाय हुं ।
ओं धौं नेत्रत्रयाय वौषट् ।
ओं धः अस्त्राय फट् ।

ध्यानम् ।
धूम्राभां धूम्रवस्त्रां प्रकटितदशनां मुक्तबालाम्बराढ्यां ।
काकाङ्कस्यन्दनस्थां धवलकरयुगां शूर्पहस्तातिरूक्षाम् ।
कङ्काङ्क्षुत्क्षान्त देहं मुहुरति कुटिलां वारिदाभां विचित्रां ।
ध्यायेद्धूमावतीं कुटिलितनयनां भीतिदां भीषणास्याम् ॥ १ ॥

कल्पादौ या कालिकाद्याऽचीकलन्मधुकैटभौ ।
कल्पान्ते त्रिजगत्सर्वं भजे धूमावतीमहम् ॥ २ ॥

गुणागारा गम्यगुणा या गुणागुणवर्धिनी ।
गीतावेदार्थतत्त्वज्ञैः भजे धूमावतीमहम् ॥ ३ ॥

खट्वाङ्गधारिणी खर्वखण्डिनी खलरक्षसां ।
धारिणी खेटकस्यापि भजे धूमावतीमहम् ॥ ४ ॥

घूर्ण घूर्णकराघोरा घूर्णिताक्षी घनस्वना ।
घातिनी घातकानां या भजे धूमावतीमहम् ॥ ५ ॥

चर्वन्तीमस्तिखण्डानां चण्डमुण्डविदारिणीं ।
चण्डाट्टहासिनीं देवीं भजे धूमावतीमहम् ॥ ६ ॥

छिन्नग्रीवां क्षताञ्छन्नां छिन्नमस्तास्वरूपिणीं ।
छेदिनीं दुष्टसङ्घानां भजे धूमावतीमहम् ॥ ७ ॥

जाताया याचितादेवैरसुराणां विघातिनीं ।
जल्पन्तीं बहुगर्जन्तीं भजेतां धूम्ररूपिणीम् ॥ ८ ॥

झङ्कारकारिणीं झुञ्झा झञ्झमाझमवादिनीं ।
झटित्याकर्षिणीं देवीं भजे धूमावतीमहम् ॥ ९ ॥

हेतिपटङ्कारसम्युक्तान् धनुष्टङ्कारकारिणीं ।
घोराघनघटाटोपां वन्दे धूमावतीमहम् ॥ १० ॥

ठण्ठण्ठण्ठं मनुप्रीतां ठःठःमन्त्रस्वरूपिणीं ।
ठमकाह्वगतिप्रीतां भजे धूमावतीमहम् ॥ ११ ॥

डमरू डिण्डिमारावां डाकिनीगणमण्डितां ।
डाकिनीभोगसन्तुष्टां भजे धूमावतीमहम् ॥ १२ ॥

ढक्कानादेनसन्तुष्टां ढक्कावादनसिद्धिदां ।
ढक्कावादचलच्चित्तां भजे धूमावतीमहम् ॥ १३ ॥

तत्ववार्ता प्रियप्राणां भवपाथोधितारिणीं ।
तारस्वरूपिणीं तारां भजे धूमावतीमहम् ॥ १४ ॥

थान्थीन्थून्थेमन्त्ररूपां थैन्थोथन्थःस्वरूपिणीं ।
थकारवर्णसर्वस्वां भजे धूमावतीमहम् ॥ १५ ॥

दुर्गास्वरूपिणीदेवीं दुष्टदानवदारिणीं ।
देवदैत्यकृतध्वंसां वन्दे धूमावतीमहम् ॥ १६ ॥

ध्वान्ताकारान्धकध्वंसां मुक्तधम्मिल्लधारिणीं ।
धूमधाराप्रभां धीरां भजे धूमावतीमहम् ॥ १७ ॥

नर्तकीनटनप्रीतां नाट्यकर्मविवर्धिनीं ।
नारसिंहीं नराराध्यां न्ॐइ धूमावतीमहम् ॥ १८ ॥

पार्वतीपतिसम्पूज्यां पर्वतोपरिवासिनीं ।
पद्मारूपां पद्मपूज्यां न्ॐइ धूमावतीमहम् ॥ १९ ॥

फूत्कारसहितश्वासां फट्‍मन्त्रफलदायिनीं ।
फेत्कारिगणसंसेव्यां सेवे धूमावतीमहम् ॥ २० ॥

बलिपूज्यां बलाराध्यां बगलारूपिणीं वरां ।
ब्रह्मादिवन्दितां विद्यां वन्दे धूमावतीमहम् ॥ २१ ॥

भव्यरूपां भवाराध्यां भुवनेशीस्वरूपिणीं ।
भक्तभव्यप्रदां देवीं भजे धूमावतीमहम् ॥ २२ ॥

मायां मधुमतीं मान्यां मकरध्वजमानितां ।
मत्स्यमांसमदास्वादां मन्ये धूमावतीमहम् ॥ २३ ॥

योगयज्ञप्रसन्नास्यां योगिनीपरिसेवितां ।
यशोदां यज्ञफलदां यजेद्धूमावतीमहम् ॥ २४ ॥

रामाराध्यपदद्वन्द्वां रावणध्वंसकारिणीं ।
रमेशरमणीपूज्यामहं धूमावतीं श्रये ॥ २५ ॥

लक्षलीलाकलालक्ष्यां लोकवन्द्यपदाम्बुजां ।
लम्बितां बीजकोशाढ्यां वन्दे धूमावतीमहम् ॥ २६ ॥

बकपूज्यपदांभोजां बकध्यानपरायणां ।
बालान्तीकारिसन्ध्येयां वन्दे धूमावतीमहम् ॥ २७ ॥

शङ्करीं शङ्करप्राणां सङ्कटध्वंसकारिणीं ।
शत्रुसंहारिणीं शुद्धां श्रये धूमावतीमहम् ॥ २८ ॥

षडाननारिसंहन्त्रीं षोडशीरूपधारिणीं ।
षड्रसास्वादिनीं स्ॐयां नेवे धूमावतीमहम् ॥ २९ ॥

सुरसेवितपादाब्जां सुरसौख्यप्रदायिनीं ।
सुन्दरीगणसंसेव्यां सेवे धूमावतीमहम् ॥ ३० ॥

हेरम्बजननीं योग्यां हास्यलास्यविहारिणीं ।
हारिणीं शत्रुसङ्घानां सेवे धूमावतीमहम् ॥ ३१ ॥

क्षीरोदतीरसंवासां क्षीरपानप्रहर्षितां ।
क्षणदेशेज्यपादाब्जां सेवे धूमावतीमहम् ॥ ३२ ॥

चतुस्त्रिम्शद्वर्णकानां प्रतिवर्णादिनामभिः ।
कृतं तु हृदयस्तोत्रं धूमावत्यास्सुसिद्धिदम् ॥ ३३ ॥

य इदं पठति स्तोत्रं पवित्रं पापनाशनं ।
स प्राप्नोति परां सिद्धं धूमावत्याः प्रसादतः ॥ ३४ ॥

पठन्नेकाग्रचित्तोयो यद्यदिच्छति मानवः ।
तत्सर्वं समवाप्नोति सत्यं सत्यं वदाम्यहम् ॥ ३५ ॥

इति धूमावतीहृदयम् ।


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments