Site icon Stotra Nidhi

Sri Datta Prarthana Taravali – श्री दत्त प्रार्थना तारावली

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

दत्तात्रेय महामाय वेदगेय हतामय ।
अनसूयात्रितनय ममापायं निवारय ॥ १ ॥

नमो नमस्ते जगदेकनाथ
नमो नमस्ते सुपवित्रगाथ ।
नमो नमस्ते जगतामधीश
नमो नमस्तेऽस्तु परावरेश ॥ २ ॥

त्वत्तोऽखिलं जातमिदं हि विश्वं
त्वमेव सर्वं परिपासि विश्वम् ।
त्वं शक्तितो धारयसीह विश्वं
त्वमेव भो संहरसीश विश्वम् ॥ ३ ॥

त्वं जीवरूपेण हि सर्व विश्वं
प्रविश्य सञ्चेष्टयसे न विश्वम् ।
स्वतन्त्रमत्राखिललोकबन्धो
कारुण्यसिन्धो परबोधसिन्धो ॥ ४ ॥

यो ब्रह्मरूपेण सृजत्यशेषं
यो विष्णुरूपेण च पात्यशेषम् ।
यो रुद्ररूपेण च हन्त्यशेषं
दुर्गादिरूपैः शमयत्यशेषम् ॥ ५ ॥

यो देवतारूपधरोऽत्ति भागं
यो वेदरूपोऽपि बिभर्ति यागम् ।
योऽधीशरूपेण ददाति भोगं
यो मौनिरूपेण तनोति योगम् ॥ ६ ॥

गायन्ति यं नित्यमशेषवेदाः
यजन्ति नित्यं मुनयोऽस्तभेदाः ।
ब्रह्मादिदेवा अपि यं नमन्ति
सर्वेऽपि ते लब्धहिता भवन्ति ॥ ७ ॥

यो धर्मसेतून् सुदृढान् बिभर्ति
नैकावतारान् समये बिभर्ति ।
हत्वा खलान् योऽपि सतो बिभर्ति
यो भक्तकार्यं स्वयमातनोति ॥ ८ ॥

स त्वं नूनं देवदेवर्षिगेयो
दत्तात्रेयो भावगम्योऽस्यमेयः ।
ध्येयः सर्वैर्योगिभिः सर्वमान्यः
कोऽन्यस्त्राता तारकोऽधीश धन्यः ॥ ९ ॥

सजलजलदनीलो योऽनसूयात्रिबालो
विनिहतनिजकालो योऽमलो दिव्यलीलः ।
अमलविपुलकीर्तिः सच्चिदानन्दमूर्ति-
-र्हृतनिजभजकार्तिः पात्वसौ दिव्यमूर्तिः ॥ १० ॥

भक्तानां वरदः सतां च परदः पापात्मनां दण्डद-
-स्त्रस्तानामभयप्रदः कृतधियां सन्न्यासिनां मोक्षदः ।
रुग्णानामगदः पराकृतमदः स्वर्गार्थिनां स्वर्गदः
स्वच्छन्दश्च वदोवदः परमुदो दद्यात् स नो बन्धदः ॥ ११ ॥

निजकृपार्द्रकटाक्षनिरीक्षणा-
-द्धरति यो निजदुःखमपि क्षणात् ।
स वरदो वरदोषहरो हरो
जयति यो यतियोगिगतिः परा ॥ १२ ॥

अज्ञः प्राज्ञो भवति भवति न्यस्तधीश्चेत् क्षणेन
प्राज्ञोऽप्यज्ञो भवति भवति व्यस्तधीश्चेत् क्षणेन ।
मर्त्योऽमर्त्यो भवति भवतः सत्कृपावीक्षणेन
धन्यो मान्यस्त्रिजगति समः शम्भुना त्रीक्षणेन ॥ १३ ॥

त्वत्तो भीतो देव वातोऽत्र वाति
त्वत्तो भीतो भास्करोऽत्राप्युदेति ।
त्वत्तो भीतो वर्षतीन्द्रोदवाह-
-स्त्वत्तो भीतोऽग्निस्तथा हव्यवाहः ॥ १४ ॥

भीतस्त्वत्तो धावतीशान्तकोऽत्र
भीतस्त्वत्तोऽन्येऽपि तिष्ठन्ति कोऽत्र ।
मर्त्योऽमर्त्योऽन्येऽपि वा शासनं ते
पाताले वाऽन्यत्र वाऽतिक्रमन्ते ॥ १५ ॥

अग्निरेकं तृणं दग्धुं न शशाक त्वयार्पितम् ।
वातोऽपि तृणमादातुं न शशाक त्वयार्पितम् ॥ १६ ॥

विना तवाज्ञां न च वृक्षपर्णं
चलत्यहो कोऽपि निमेषमेकम् ।
कर्तुं समर्थो भुवने किमर्थं
करोत्यहन्तां मनुजोऽवशस्ताम् ॥ १७ ॥

पाषाणे कृष्णवर्णे कथमपि परितश्छिद्रहीने न जाने
मण्डूकं जीवयस्यप्रतिहतमहिमाचिन्त्यसच्छक्तिजाने ।
काष्ठाश्माद्युत्थवृक्षांस्त्र्युदरकुहरगान् जारवीतांश्च गर्भा-
-न्नूनं विश्वम्भरेशावसि कृतपयसा दन्तहीनांस्तथाऽर्भान् ॥ १८ ॥

करोति सर्वस्य भवानपेक्षा
कथं भवत्तोऽस्य भवेदुपेक्षा ।
अथापि मूढः प्रकरोति तुच्छां
सेवां तवोज्झित्य च जीवितेच्छाम् ॥ १९ ॥

द्वेष्यः प्रियो वा न च तेऽस्ति कश्चित्
त्वं वर्तसे सर्वसमोऽथ दुश्चित् ।
त्वामन्यथा भावयति स्वदोषा-
-न्निर्दोषतायां तव वेदघोषः ॥ २० ॥

गृह्णासि नो कस्यचिदीश पुण्यं
गृह्णासि नो कस्यचिदप्यपुण्यम् ।
क्रियाफलं माऽस्य च कर्तृभावं
सृजस्यविद्वेत्ति न च स्वभावम् ॥ २१ ॥

मातुः शिशोर्दुर्गुणनाशनाय
न ताडने निर्दयता न दोषः ।
तथा नियन्तुर्गुणदोषयोस्ते
न दुष्टहत्याऽदयता न दोषः ॥ २२ ॥

दुर्गादिरूपैर्महिषासुराद्यान्
रामादिरूपैरपि रावणाद्यान् ।
अनेकहिंसादिकपापयुक्तान्
क्रूरान् सदाचारकथावियुक्तान् ॥ २३ ॥

स्वपापनाशार्थमनेककल्पा-
-न्यास्यन्त एतान्निरयानकल्पान् ।
स्वकीयमुक्तौ निजशस्त्रकृत्तान्
कृत्वा भवान् द्यामनयत् सुपूतान् ॥ २४ ॥

याऽपाययत् स्तन्यमिषाद्विषं सा
लेभे गतिं मात्रुचितां दयालुः ।
त्वत्तोपरः को निजकार्यसक्त-
-स्त्वमेव नित्यं ह्यभिमानमुक्तः ॥ २५ ॥

नो कार्यं करणं च ते परगते लिङ्गं कला नापि ते
विज्ञाता त्वदमेय नान्य इति ते तत्त्वं प्रसिद्धं श्रुतेः ।
नेशस्ते जनिताधिकः सम उतान्यः कश्चनास्ति प्रभु-
-र्दत्तात्रेय गुरो निजामरतरो त्वं सत्यमेको विभुः ॥ २६ ॥

भोगार्थं सृजसीति कोऽपि वदति क्रीडार्थमित्थं परे
ते केच्छास्ति समाप्तकाम महिमानं नो विदुर्हीतरे ।
केऽपीदं सदसद्वदन्त्वितरथा वामास्तु मेतत्कथा-
-पन्था मे श्रुतिदर्शितस्तव पदप्राप्त्यै सुखोऽन्ये वृथा ॥ २७ ॥

सोऽनन्यभक्तोऽस्य तु पर्युपासको
नित्याभियुक्तो यमुपैत्यभेदतः ।
तत्प्रीतयेऽसौ भवतात्समर्थना
तारावली तत्पदभक्तिभावना ॥ २८ ॥

इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वती विरचितं श्री दत्त प्रार्थना तारावली ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments