Site icon Stotra Nidhi

Sri Dakshina Kali Kavacham 2 – श्री दक्षिणकाली कवचम् २

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

कैलासशिखरारूढं भैरवं चन्द्रशेखरम् ।
वक्षःस्थले समासीना भैरवी परिपृच्छति ॥ १ ॥

श्रीभैरव्युवाच ।
देवेश परमेशान लोकानुग्रहकारकः ।
कवचं सूचितं पूर्वं किमर्थं न प्रकाशितम् ॥ २ ॥

यदि मे महती प्रीतिस्तवास्ति कुल भैरव ।
कवचं कालिका देव्याः कथयस्वानुकम्पया ॥ ३ ॥

श्रीभैरव उवाच ।
अप्रकाश्य मिदं देवि नरलोके विशेषतः ।
लक्षवारं वारितासि स्त्री स्वभावाद्धि पृच्छसि ॥ ४ ॥

श्रीभैरव्युवाच ।
सेवका बहवो नाथ कुलधर्म परायणाः ।
यतस्ते त्यक्तजीवाशा शवोपरि चितोपरि ॥ ५ ॥

तेषां प्रयोग सिद्ध्यर्थं स्वरक्षार्थं विशेषतः ।
पृच्छामि बहुशो देव कथयस्व दयानिधे ॥ ६ ॥

श्रीभैरव उवाच ।
कथयामि शृणु प्राज्ञे कालिका कवचं परम् ।
गोपनीयं पशोरग्रे स्वयोनिमपरे यथा ॥ ७ ॥

अस्य श्री दक्षिणकालिका कवचस्य भैरव ऋषिः उष्णिक् छन्दः अद्वैतरूपिणी श्री दक्षिणकालिका देवता ह्रीं बीजं हूं शाक्तिः क्रीं कीलकं सर्वार्थ साधन पुरःसर मन्त्र सिद्ध्यर्थे पाठे विनियोगः ।

अथ कवचम् ।
सहस्रारे महापद्मे कर्पूरधवलो गुरुः ।
वामोरुस्थिततच्छक्तिः सदा सर्वत्र रक्षतु ॥ ८ ॥

परमेशः पुरः पातु परापरगुरुस्तथा ।
परमेष्ठी गुरुः पातु दिव्य सिद्धिश्च मानवः ॥ ९ ॥

महादेवी सदा पातु महादेवः सदाऽवतु ।
त्रिपुरो भैरवः पातु दिव्यरूपधरः सदा ॥ १० ॥

ब्रह्मानन्दः सदा पातु पूर्णदेवः सदाऽवतु ।
चलश्चित्तः सदा पातु चेलाञ्चलश्च पातु माम् ॥ ११ ॥

कुमारः क्रोधनश्चैव वरदः स्मरदीपनः ।
मायामायावती चैव सिद्धौघाः पातु सर्वदा ॥ १२ ॥

विमलो कुशलश्चैव भीमसेनः सुधाकरः ।
मीनो गोरक्षकश्चैव भोजदेवः प्रजापतिः ॥ १३ ॥

मूलदेवो रन्तिदेवो विघ्नेश्वर हुताशानः ।
सन्तोषः समयानन्दः पातु मां मनवा सदा ॥ १४ ॥

सर्वेऽप्यानन्दनाथान्तः अम्बां तां मातरः क्रमात् ।
गणनाथः सदा पातु भैरवः पातु मां सदा ॥ १५ ॥

वटुको नः सदा पातु दुर्गा मां परिरक्षतु ।
शिरसः पादपर्यन्तं पातु मां घोरदक्षिणा ॥ १६ ॥

तथा शिरसि मां काली हृदि मूले च रक्षतु ।
सम्पूर्ण विद्यया देवी सदा सर्वत्र रक्षतु ॥ १७ ॥

क्रीं क्रीं क्रीं वदने पातु हृदि हूं हूं सदाऽवतु ।
ह्रीं ह्रीं पातु सदाधारे दक्षिणे कालिके हृदि ॥ १८ ॥

क्रीं क्रीं क्रीं पातु मे पूर्वे हूं हूं दक्षे सदाऽवतु ।
ह्रीं ह्रीं मां पश्चिमे पातु हूं हूं पातु सदोत्तरे ॥ १९ ॥

पृष्ठे पातु सदा स्वाहा मूला सर्वत्र रक्षतु ।
षडङ्गे युवती पातु षडङ्गेषु सदैव माम् ॥ २० ॥

मन्त्रराजः सदा पातु ऊर्ध्वाधो दिग्विदिक् स्थितः ।
चक्रराजे स्थिताश्चापि देवताः परिपान्तु माम् ॥ २१ ॥

उग्रा उग्रप्रभा दीप्ता पातु पूर्वे त्रिकोणके ।
नीला घना बलाका च तथा परत्रिकोणके ॥ २२ ॥

मात्रा मुद्रा मिता चैव तथा मध्य त्रिकोणके ।
काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ॥ २३ ॥

बहिः षट्कोणके पान्तु विप्रचित्ता तथा प्रिये ।
सर्वाः श्यामाः खड्गधरा वामहस्तेन तर्जनीः ॥ २४ ॥

ब्राह्मी पूर्वदले पातु नारायणी तथाग्निके ।
माहेश्वरी दक्षदले चामुण्डा रक्षसेऽवतु ॥ २५ ॥

कौमारी पश्चिमे पातु वायव्ये चापराजिता ।
वाराही चोत्तरे पातु नारसिंही शिवेऽवतु ॥ २६ ॥

ऐं ह्रीं असिताङ्गः पूर्वे भैरवः परिरक्षतु ।
ऐं ह्रीं रुरुश्चाजिनकोणे ऐं ह्रीं चण्डस्तु दक्षिणे ॥ २७ ॥

ऐं ह्रीं क्रोधो नैरृतेऽव्यात् ऐं ह्रीं उन्मत्तकस्तथा ।
पश्चिमे पातु ऐं ह्रीं मां कपाली वायु कोणके ॥ २८ ॥

ऐं ह्रीं भीषणाख्यश्च उत्तरेऽवतु भैरवः ।
ऐं ह्रीं संहार ऐशान्यां मातृणामङ्कगा शिवाः ॥ २९ ॥

ऐं हेतुको वटुकः पूर्वदले पातु सदैव माम् ।
ऐं त्रिपुरान्तको वटुकः आग्नेय्यां सर्वदाऽवतु ॥ ३० ॥

ऐं वह्नि वेतालो वटुको दक्षिणे मां सदाऽवतु ।
ऐं अग्निजिह्ववटुकोऽव्यात् नैरृत्यां पश्चिमे तथा ॥ ३१ ॥

ऐं कालवटुकः पातु ऐं करालवटुकस्तथा ।
वायव्यां ऐं एकः पातु उत्तरे वटुकोऽवतु ॥ ३२ ॥

ऐं भीमवटुकः पातु ऐशान्यां दिशि मां सदा ।
ऐं ह्रीं ह्रीं हूं फट् स्वाहान्ताश्चतुः षष्टि मातरः ॥ ३३ ॥

ऊर्ध्वाधो दक्षवामार्गे पृष्ठदेशे तु पातु माम् ।
ऐं हूं सिंहव्याघ्रमुखी पूर्वे मां परिरक्षतु ॥ ३४ ॥

ऐं कां कीं सर्पमुखी अग्निकोणे सदाऽवतु ।
ऐं मां मां मृगमेषमुखी दक्षिणे मां सदाऽवतु ॥ ३५ ॥

ऐं चौं चौं गजराजमुखी नैरृत्यां मां सदाऽवतु ।
ऐं में में विडालमुखी पश्चिमे पातु मां सदा ॥ ३६ ॥

ऐं खौं खौं क्रोष्टुमुखी वायुकोणे सदाऽवतु ।
ऐं हां हां ह्रस्वदीर्घमुखी लम्बोदर महोदरी ॥ ३७ ॥

पातुमामुत्तरे कोणे ऐं ह्रीं ह्रीं शिवकोणके ।
ह्रस्वजङ्घतालजङ्घः प्रलम्बौष्ठी सदाऽवतु ॥ ३८ ॥

एताः श्मशानवासिन्यो भीषणा विकृताननाः ।
पान्तु मा सर्वदा देव्यः साधकाभीष्टपूरिकाः ॥ ३९ ॥

इन्द्रो मां पूर्वतो रक्षेदाग्नेय्यामग्निदेवता ।
दक्षे यमः सदा पातु नैरृत्यां नैरृतिश्च माम् ॥ ४० ॥

वरुणोऽवतु मां पश्चात् वायुर्मां वायवेऽवतु ।
कुबेरश्चोत्तरे पायात् ऐशान्यां तु सदाशिवः ॥ ४१ ॥

ऊर्ध्वं ब्रह्मा सदा पातु अधश्चानन्तदेवता ।
पूर्वादिदिक् स्थिताः पान्तु वज्राद्याश्चायुधाश्च माम् ॥ ४२ ॥

कालिकाऽवातु शिरसि हृदये कालिकाऽवतु ।
आधारे कालिका पातु पादयोः कालिकाऽवतु ॥ ४३ ॥

दिक्षु मां कालिका पातु विदिक्षु कालिकाऽवतु ।
ऊर्ध्वं मे कालिका पातु अधश्च कालिकाऽवतु ॥ ४४ ॥

चर्मासृङ्मांसमेदाऽस्थि मज्जा शुक्राणि मेऽवतु ।
इन्द्रियाणि मनश्चैव देहं सिद्धिं च मेऽवतु ॥ ४५ ॥

आकेशात् पादपर्यन्तं कालिका मे सदाऽवतु ।
वियति कालिका पातु पथि मां कालिकाऽवतु ॥ ४६ ॥

शयने कालिका पातु सर्वकार्येषु कालिका ।
पुत्रान् मे कालिका पातु धनं मे पातु कालिका ॥ ४७ ॥

यत्र मे संशयाविष्टास्ता नश्यन्तु शिवाज्ञया ।
इतीदं कवचं देवि ब्रह्मलोकेऽपि दुर्लभम् ॥ ४८ ॥

तव प्रीत्या मायाख्यातं गोपनीयं स्वयोनिवत् ।
तव नाम्नि स्मृते देवि सर्वज्ञं च फलं लभेत् ॥ ४९ ॥

सर्वपापक्षयं यान्ति वाञ्छा सर्वत्र सिद्ध्यति ।
नाम्नाः शतगुणं स्तोत्रं ध्यानम् तस्माच्छताधिकम् ॥ ५० ॥

तस्मात् शताधिको मन्त्रः कवचं तच्छताधिकम् ।
शुचिः समाहितो भूत्वा भक्ति श्रद्धा समन्वितः ॥ ५१ ॥

संस्थाप्य वामभागे तु शक्तिं स्वामि परायणाम् ।
रक्तवस्त्रपरिधानां शिवमन्त्रधरां शुभाम् ॥ ५२ ॥

या शक्तिः सा महादेवी हररूपश्च साधकः ।
अन्योऽन्य चिन्तयेद्देवीं देवत्वमुपजायते ॥ ५३ ॥

शक्तियुक्तो यजेद्देवीं चक्रे वा मनसापि वा ।
भोगैश्च मधुपर्काद्यैस्ताम्बूलैश्च सुवासितैः ॥ ५४ ॥

ततस्तु कवचं दिव्यं पठदेकमनाः प्रिये ।
तस्य सर्वार्थ सिद्धिस्यान्नात्र कार्याविचारणा ॥ ५५ ॥

इदं रहस्यं परमं परं स्वस्त्ययनं महत् ।
या सकृत्तु पठेद्देवि कवचं देवदुर्लभम् ॥ ५६ ॥

सर्वयज्ञफलं तस्य भवेदेव न संशयः ।
सङ्ग्रामे च जयेत् शत्रून् मातङ्गानिव केशरी ॥ ५७ ॥

नास्त्राणि तस्य शस्त्राणि शरीरे प्रभवन्ति च ।
तस्य व्याधि कदाचिन्न दुःखं नास्ति कदाचन ॥ ५८ ॥

गतिस्तस्यैव सर्वत्र वायुतुल्यः सदा भवेत् ।
दीर्घायुः कामभोगीशो गुरुभक्तः सदा भवेत् ॥ ५९ ॥

अहो कवच माहात्म्यं पठ्यमानस्य नित्यशः ।
विनापि नययोगेन योगीश समतां व्रजेत् ॥ ६० ॥

सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः ।
न शक्नोमि प्रभावं तु कवचस्यास्य वर्णितम् ॥ ६१ ॥

इति श्री दक्षिणकालिका कवचम् ।


इतर श्री कालिका स्तोत्राणि पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments