Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्रीबालादेव्या हृदयमहामन्त्रस्य, सदाशिवः ऋषिः, अनुष्टुप्छन्दः, बालात्रिपुरसुन्दरी देवता, मम बालात्रिपुरसुन्दरी देवता प्रीत्यर्थे जपे विनियोगः ।
ध्यानम् ।
वन्दे देवीं शिवां बालां भास्वन्मण्डलमध्यगाम् ।
चञ्चच्चन्द्राननां तप्तचामीकरसमप्रभाम् ॥ १ ॥
नृत्यत्खञ्जननेत्रस्य लोचनात्यन्तवल्लभाम् ।
मध्यभागे लसत्काञ्ची मणिमुक्ताविनिर्मिताम् ॥ २ ॥
पदविन्यस्तहंसालीं शुकनासाविराजिताम् ।
करिशुण्डोरुयुगलां मत्तकोकिलनिःस्वनाम् ॥ ३ ॥
पुस्तकं जपमालां च वरदाऽभयपाणिनीम् ।
कुमारीवेशशोभाढ्यां कुमारीवृन्दमण्डिताम् ॥ ४ ॥
विद्रुमाधरशोभाढ्यां विद्रुमालिनखालिकाम् ।
क्वणत्काञ्चीं कलानाथसमानरुचिराननाम् ॥ ५ ॥
मृणालबाहुलतिकां नानारत्नविराजिताम् ।
करपद्मसमानाभां पादपद्मविराजिताम् ॥ ६ ॥
चारुचाम्पेयवसनां देवदेवनमस्कृताम् ।
चन्दनेन्दुविलिप्ताङ्गीं रोमराजीविचित्रिताम् ॥ ७ ॥
तिलपुष्पसमानाभां नासारत्नसमन्विताम् ।
गजगण्डनितम्बाभां रम्भाजङ्घाविराजिताम् ॥ ८ ॥
हरविष्णुमहेन्द्राद्यैः पूज्यश्रीपादपङ्कजाम् ।
कल्याणीं कमलां कालीं कुञ्चिकां कमलेश्वरीम् ॥ ९ ॥
पावनीं परमां शक्तिं पवित्रां पावनीं शिवाम् ।
भवानीं भवपाशघ्नीं भीतिहां भुवनेश्वरीम् ॥ १० ॥
भवानीं भवशक्तिं च भेरुण्डां मुण्डमालिनीम् ।
जलन्धरगिर्युत्सङ्गां पूर्णगिर्यनुरागिणीम् ॥ ११ ॥
कामरूपां च कामाख्यां देवीकोटकृतालयाम् ।
ओङ्कारपीठनिलयां महामायां महेश्वरीम् ॥ १२ ॥
विश्वेश्वरीं च मधुरां नानारूपाकृतापुरीम् ।
ऐं क्लीं सौः त्र्यक्षरां बालां तद्विलोमां कुमारिकाम् ॥ १३ ॥
हौः ऐं हंसः नमो देवि त्रिपुरां जीवभैरवीम् ।
नारदो यस्य देवर्षिः महाशान्तिफलप्रदाम् ॥ १४ ॥
ओं नमो श्रीमहालक्ष्म्यै लक्ष्मीं त्रिपुरभैरवीम् ।
ओं ह्रीं जूं सः प्राणग्रन्थिः द्विधार्गकवचद्वयम् ॥ १५ ॥
इयं सञ्जीविनी देवी मृतान् जीवत्वदायिनी ।
फ्रेः फ्रं न फ ल व र यूं श्रों श्रों अमृतमावदेत् ॥ १६ ॥
स्रावय स्रावय तथा व्रीं व्रीं मृत्युञ्जयाभिधा ।
ओं नमो प्रथमाभाष्य कालीबीजं द्विधा पठेत् ॥ १७ ॥
कूर्चद्वयं तथा माया आगामिपदमावदेत् ।
मृत्युं छिन्दि तथा भिन्दि महामृत्युञ्जयो भवेत् ॥ १८ ॥
तव शब्दं ममाभाष्य खड्गेन च विदारय ।
द्विधा भाष्य महेशानि तदन्ते वह्निसुन्दरी ॥ १९ ॥
इयं देवी महाविद्या आगामि कालवञ्चिनी ।
प्रातर्दीपदलाकारं वाग्भवं रसनातले ॥ २० ॥
विचिन्त्य प्रजपेत्तच्च महाकविर्भवेद्ध्रुवम् ।
मध्याह्ने कामराजाख्यं जपाकुसुमसन्निभम् ॥ २१ ॥
विचिन्त्य हृदि मध्ये तु तच्च मन्त्रं जपेत्प्रिये ।
धर्मार्थकाममोक्षाणां भाजनो जायते ध्रुवम् ॥ २२ ॥
तार्तीयं चन्द्रसङ्काशं सायङ्काले विचिन्त्य च ।
प्रजपेत्तत्र देवेशि जायते मदनोपमः ॥ २३ ॥
वाग्भवं कामराजं तु तार्तीयं वह्निवल्लभाम् ।
अयुतं प्रजपेन्नित्यं आगामी कालो वञ्च्यते ॥ २४ ॥
त्रिकोणं चक्रमालिख्य मायायुक्तं महेश्वरि ।
तस्योपरि लिखेत्पद्मं मातृका मन्त्रगर्भितम् ॥ २५ ॥
तस्योपरि समास्तीर्य चासनं रक्तवर्णकम् ।
तस्योपरि विशेद्देवि साधकः प्राङ्मुखो निशि ॥ २६ ॥
क्रमेण प्रजपेद्वर्णान् वागादि नियतः शुचिः ।
मण्डलत्रितये देवि प्राप्यते सिद्धिरुत्तमा ॥ २७ ॥
नवयोन्यात्मकं चक्रं पूजयेच्छास्त्रवर्त्मना ।
प्रजपेद्द्व्यक्षरीं बालां सर्वसिद्धीश्वरो भवेत् ॥ २८ ॥
यं यं चिन्तयते कामं तं तं प्राप्नोति सर्वशः ।
इदं तु हृदयं देवि तवाग्रे कथितं मया ॥ २९ ॥
मम भाग्यं च सर्वस्वं ब्रह्मादीनां च दुर्लभम् ।
गोपनीयं त्वया भद्रे स्वयोनिरिव पार्वति ॥ ३० ॥
शतावर्तेन देवेशि मानुषी वशमाप्नुयात् ।
सहस्रावर्तनाद्देवि देवा वै वशमाप्नुयुः ॥ ३१ ॥
लक्षमावर्तनाद्देवि शुनासीरः स्वकासनात् ।
क्षणाच्च्यवति तत्र वै किं पुनः क्षुद्रजन्तवः ॥ ३२ ॥
तस्मात्सर्वप्रयत्नेन ज्ञात्वा देवि जपेन्मनुम् ।
सर्वसिद्धिमवाप्नोति सर्वदा सुखवान्भवेत् ॥ ३३ ॥
इति जालशम्बरमहातन्त्रे श्री बाला हृदयम् ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.