Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं श्रीबालायै नमः ।
ओं श्रीमहादेव्यै नमः ।
ओं श्रीमत्पञ्चासनेश्वर्यै नमः ।
ओं शिववामाङ्गसम्भूतायै नमः ।
ओं शिवमानसहंसिन्यै नमः ।
ओं त्रिस्थायै नमः ।
ओं त्रिनेत्रायै नमः ।
ओं त्रिगुणायै नमः ।
ओं त्रिमूर्तिवशवर्तिन्यै नमः । ९
ओं त्रिजन्मपापसंहर्त्र्यै नमः ।
ओं त्रियम्बककुटम्बिन्यै नमः ।
ओं बालार्ककोटिसङ्काशायै नमः ।
ओं नीलालकलसत्कचायै नमः ।
ओं फालस्थहेमतिलकायै नमः ।
ओं लोलमौक्तिकनासिकायै नमः ।
ओं पूर्णचन्द्राननायै नमः ।
ओं स्वर्णताटङ्कशोभितायै नमः ।
ओं हरिणीनेत्रसाकारकरुणापूर्णलोचनायै नमः । १८
ओं दाडिमीबीजरदनायै नमः ।
ओं बिम्बोष्ठ्यै नमः ।
ओं मन्दहासिन्यै नमः ।
ओं शङ्खग्रीवायै नमः ।
ओं चतुर्हस्तायै नमः ।
ओं कुचपङ्कजकुड्मलायै नमः ।
ओं ग्रैवेयाङ्गदमाङ्गल्यसूत्रशोभितकन्धरायै नमः ।
ओं वटपत्रोदरायै नमः ।
ओं निर्मलायै नमः । २७
ओं घनमण्डितायै नमः ।
ओं मन्दावलोकिन्यै नमः ।
ओं मध्यायै नमः ।
ओं कुसुम्भवदनोज्ज्वलायै नमः ।
ओं तप्तकाञ्चनकान्त्याढ्यायै नमः ।
ओं हेमभूषितविग्रहायै नमः ।
ओं माणिक्यमुकुरादर्शजानुद्वयविराजितायै नमः ।
ओं कामतूणीरजघनायै नमः ।
ओं कामप्रेष्ठगतल्पगायै नमः । ३६
ओं रक्ताब्जपादयुगलायै नमः ।
ओं क्वणन्माणिक्यनूपुरायै नमः ।
ओं वासवादिदिशानाथपूजिताङ्घ्रिसरोरुहायै नमः ।
ओं वराभयस्फाटिकाक्षमालापुस्तकधारिण्यै नमः ।
ओं स्वर्णकङ्कणज्वालाभकराङ्गुष्ठविराजितायै नमः ।
ओं सर्वाभरणभूषाढ्यायै नमः ।
ओं सर्वावयवसुन्दर्यै नमः ।
ओं ऐङ्काररूपायै नमः ।
ओं ऐङ्कार्यै नमः । ४५
ओं ऐश्वर्यफलदायिन्यै नमः ।
ओं क्लीङ्काररूपायै नमः ।
ओं क्लीङ्कार्यै नमः ।
ओं क्लुप्तब्रह्माण्डमण्डलायै नमः ।
ओं सौःकाररूपायै नमः ।
ओं सौःकार्यै नमः ।
ओं सौन्दर्यगुणसम्युतायै नमः ।
ओं सचामररतीन्द्राणीसव्यदक्षिणसेवितायै नमः ।
ओं बिन्दुत्रिकोणषट्कोणवृत्ताष्टदलसम्युतायै नमः । ५४
ओं सत्यादिलोकपालान्तदेव्यावरणसंवृतायै नमः ।
ओं ओड्याणपीठनिलयायै नमः ।
ओं ओजस्तेजःस्वरूपिण्यै नमः ।
ओं अनङ्गपीठनिलयायै नमः ।
ओं कामितार्थफलप्रदायै नमः ।
ओं जालन्धरमहापीठायै नमः ।
ओं जानकीनाथसोदर्यै नमः ।
ओं पूर्णागिरिपीठगतायै नमः ।
ओं पूर्णायुः सुप्रदायिन्यै नमः । ६३
ओं मन्त्रमूर्त्यै नमः ।
ओं महायोगायै नमः ।
ओं महावेगायै नमः ।
ओं महाबलायै नमः ।
ओं महाबुद्ध्यै नमः ।
ओं महासिद्ध्यै नमः ।
ओं महादेवमनोहर्यै नमः ।
ओं कीर्तियुक्तायै नमः ।
ओं कीर्तिधरायै नमः । ७२
ओं कीर्तिदायै नमः ।
ओं कीर्तिवैभवायै नमः ।
ओं व्याधिशैलव्यूहवज्रायै नमः ।
ओं यमवृक्षकुठारिकायै नमः ।
ओं वरमूर्तिगृहावासायै नमः ।
ओं परमार्थस्वरूपिण्यै नमः ।
ओं कृपानिधये नमः ।
ओं कृपापूरायै नमः ।
ओं कृतार्थफलदायिन्यै नमः । ८१
ओं अष्टत्रिंशत्कलामूर्त्यै नमः ।
ओं चतुःषष्टिकलात्मिकायै नमः ।
ओं चतुरङ्गबलादात्र्यै नमः ।
ओं बिन्दुनादस्वरूपिण्यै नमः ।
ओं दशाब्दवयसोपेतायै नमः ।
ओं दिविपूज्यायै नमः ।
ओं शिवाभिधायै नमः ।
ओं आगमारण्यमायूर्यै नमः ।
ओं आदिमध्यान्तवर्जितायै नमः । ९०
ओं कदम्बवनसम्पन्नायै नमः ।
ओं सर्वदोषविनाशिन्यै नमः ।
ओं सामगानप्रियायै नमः ।
ओं ध्येयायै नमः ।
ओं ध्यानसिद्धाभिवन्दितायै नमः ।
ओं ज्ञानमूर्त्यै नमः ।
ओं ज्ञानरूपायै नमः ।
ओं ज्ञानदायै नमः ।
ओं भयसंहरायै नमः । ९९
ओं तत्त्वज्ञानायै नमः ।
ओं तत्त्वरूपायै नमः ।
ओं तत्त्वमय्यै नमः ।
ओं आश्रितावन्यै नमः ।
ओं दीर्घायुर्विजयारोग्यपुत्रपौत्रप्रदायिन्यै नमः ।
ओं मन्दस्मितमुखाम्भोजायै नमः ।
ओं मङ्गलप्रदमङ्गलायै नमः ।
ओं वरदाभयमुद्राढ्यायै नमः ।
ओं बालात्रिपुरसुन्दर्यै नमः । १०८
इतर श्री बाला स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.