Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पुरा धरा दुर्जनभारदीना
समं सुरभ्या विबुधैश्च देवि ।
विधिं समेत्य स्वदशामुवाच
स चानयत्क्षीरपयोनिधिं तान् ॥ १९-१ ॥
स्तुतो हरिः पद्मभवेन सर्वं
ज्ञात्वाऽखिलान् साञ्जलिबन्धमाह ।
ब्रह्मन् सुरा नैव वयं स्वतन्त्रा
दैवं बलीयः किमहं करोमि ॥ १९-२ ॥
दैवेन नीतः खलु मत्स्यकूर्म-
-कोलादिजन्मान्यवशोऽहमाप्तः ।
नृसिंहभावादतिभीकरत्वं
हयाननत्वात्परिहास्यतां च ॥ १९-३ ॥
जातः पुनर्दाशरथिश्च दुःखा-
-द्दुःखं गतोऽहं विपिनान्तचारी ।
राज्यं च नष्टं दयिता हृता मे
पिता मृतो हा प्लवगाः सहायाः ॥ १९-४ ॥
कृत्वा रणं भीममरिं निहत्य
पत्नीं च राज्यं च पुनर्गृहीत्वा ।
दुष्टापवादेन पतिव्रतां तां
विहाय हा दुर्यशसाऽभिषिक्तः ॥ १९-५ ॥
यदि स्वतन्त्रोऽस्मि ममैवमार्ति-
-र्न स्याद्वयं कर्मकलापबद्धाः ।
सदाऽपि मायवशगास्ततोऽत्र
मायाधिनाथां शरणं व्रजामः ॥ १९-६ ॥
इतीरितैर्भक्तिविनम्रशीर्षै-
-र्निमीलिताक्षैर्विबुधैः स्मृता त्वम् ।
प्रभातसन्ध्येव जपासुमाङ्गी
तमोनिहन्त्री च पुरः स्थिताऽऽत्थ ॥ १९-७ ॥
जाने दशां वो वसुदेवपुत्रो
भूत्वा हरिर्दुष्टजनान् निहन्ता ।
तदर्थशक्तीरहमस्य दद्या-
-मंशेन जायेय च नन्दपुत्री ॥ १९-८ ॥
यूयं च साहाय्यममुष्य कर्तु-
-मंशेन देवा दयितासमेताः ।
जायेध्वमुर्व्यां जगतोऽस्तु भद्र-
-मेवं विनिर्दिश्य तिरोदधाथ ॥ १९-९ ॥
विचित्रदुष्टासुरभावभार-
-निपीडितं मे हृदयं महेशि ।
अत्रावतीर्येदमपाकुरु त्वं
माता हि मे ते वरदे नमोऽस्तु ॥ १९-१० ॥
विंश दशकम् (२०) – देवकीपुत्रवधम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.