Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ भरतशत्रुघ्नविलापः ॥
ततर्दशाहेऽतिगते कृतशौचो नृपात्मजः ।
द्वादशेऽहनि सम्प्राप्ते श्राद्धकर्माण्यकारयत् ॥ १ ॥
ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं च पुष्कलम् ।
वासांसि च महार्हाणि रत्नानि विविधानि च ॥ २ ॥
बास्तिकं बहु शुक्लं च गाश्चापि शतशस्तथा ।
दासीदासं च यानं च वेश्मानि सुमहान्ति च ॥ ३ ॥
ब्राह्मणेभ्यो ददौ पुत्रः राज्ञस्तस्यौर्ध्वदैहिकम् ।
ततः प्रभातसमये दिवसेऽथ त्रयोदशे ॥ ४ ॥
विललाप महा बाहुर्भरतः शोकमूर्छितः ।
शब्दापिहितकण्ठश्च शोधनार्थमुपागतः ॥ ५ ॥
चितामूले पितुर्वाक्यमिदमाह सुदुःखितः ।
तात यस्मिन्निसृष्टोऽहं त्वया भ्रातरि राघवे ॥ ६ ॥
तस्मिन्वनं प्रव्रजिते शून्ये त्यक्तोऽस्म्यहं त्वया ।
यथा गतिरनाथायाः पुत्रः प्रव्राजितः वनम् ॥ ७ ॥
तामम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतर्नृप ।
दृष्ट्वा भस्मारुणं तच्च दग्धास्थिस्थानमण्डलम् ॥ ८ ॥
पितुः शरीरनिर्वाणं निष्टनन् विषसाद सः ।
स तु दृष्ट्वा रुदन् दीनः पपात धरणीतले ॥ ९ ॥
उत्थाप्यमानः शक्रस्य यन्त्र ध्वजैवच्युतः ।
अभिपेतुस्ततः सर्वे तस्यामात्याः शुचिव्रतम् ॥ १० ॥
अन्तकाले निपतितं ययातिमृषयो यथा ।
शत्रुघ्नश्चापि भरतं दृष्ट्वा शोकपरिप्लुतम् ॥ ११ ॥
विसञ्ज्ञो न्यपतद्भूमौ भूमि पालमनुस्मरन् ।
उन्मत्तैव निश्चेता विललाप सुदुःखितः ॥ १२ ॥
स्मृत्वा पितुर्गुणाङ्गानि तनि तानि तदा तदा ।
मन्थराप्रभवस्तीव्रः कैकेयीग्राहसङ्कुलः ॥ १३ ॥
वरदानमयोऽक्षोभ्यो अमज्जयच्छोकसागरः ।
सुकुमारं च बालं च सततं लालितं त्वया ॥ १४ ॥
क्व तात भरतं हित्वा विलपन्तं गतः भवान् ।
ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च ॥ १५ ॥
प्रवारयसि नः सर्वान् तन्नः कोऽन्य करिष्यति ।
अवदारण काले तु पृथिवी नावदीर्यते ॥ १६ ॥
या विहीना त्वया राज्ञा धर्मज्ञेन महात्मना ।
पितरि स्वर्गमापन्ने रामे चारण्यमाश्रिते ॥ १७ ॥
किं मे जीवितसामर्थ्यं प्रवेक्ष्यामि हुताशनम् ।
हीनो भ्रात्रा च पित्रा च शून्यामिक्ष्वाकु पालिताम् ॥ १८ ॥
अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् ।
तयोर्विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत् ॥ १९ ॥
भृशमार्ततरा भूयः सर्व एवानुगामिनः ।
ततः विषण्णौ श्रान्तौ च शत्रुघ्नभरतावुभौ ॥ २० ॥ [विश्रान्तौ]
धरण्यां संव्यचेष्टेतां भग्नशृङ्गाविवर्षभौ ।
ततः प्रकृतिमान् वैद्यः पितुरेषां पुरोहितः ॥ २१ ॥
वसिष्ठो भरतं वाक्यमुत्थाप्य तमुवाच ह ।
त्रयोदशोऽयं दिवसः पितुर्वृत्तस्य ते विभो ॥ २२ ॥
सावशेषास्थिनिचये किमिह त्वं विलम्बसे ।
त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः ॥ २३ ॥
तेषु चापरिहार्येषु नैवं भवितुमर्हति ।
सुमन्त्रश्चापि शत्रुघ्नमुत्थाप्याभिप्रसाद्य च ॥ २४ ॥
श्रावयामास तत्त्वज्ञः सर्वभूतभवाभवौ ।
उत्थितौ तौ नरव्याघ्रौ प्रकाशेते यशस्विनौ ॥ २५ ॥
वर्षातप परिक्लिन्नौ पृथगिन्द्रध्वजाविव ।
अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौ ।
अमात्यास्त्वरयन्ति स्म तनयौ चापराः क्रियाः ॥ २६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥ ७७ ॥
अयोध्याकाण्ड अष्टसप्ततितमः सर्गः (७८) >>
सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.