Site icon Stotra Nidhi

Ayodhya Kanda Sarga 72 – अयोध्याकाण्ड द्विसप्ततितमः सर्गः (७२)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

॥ भरतसन्तापः ॥

अपश्यंस्तु ततस्तत्र पितरं पितुरालये ।
जगाम भरतो द्रष्टुं मातरं मातुरालये ॥ १ ॥

अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् ।
उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमानसम् ॥ २ ॥

स प्रविश्यैव धर्मात्मा स्व गृहं श्रीविवर्जितम् ।
भरतः प्रतिजग्राह जनन्याश्चरणौ शुभौ ॥ ३ ॥

सा तं मूर्धन्युपाघ्राय परिष्वज्य यशस्विनम् ।
अङ्के भरतमारोप्य प्रष्टुं समुपचक्रमे ॥ ४ ॥

अद्य ते कतिचिद्रात्र्यश्च्युतस्याऽर्यक वेश्मनः ।
अपि नाध्वश्रमः शीघ्रं रथेनापततस्तव ॥ ५ ॥

आर्यकस्ते सुकुशली युधाजिन्मातुलस्तव ।
प्रवासाच्च सुखं पुत्र सर्वं मे वक्तुमर्हसि ॥ ६ ॥

एवं पृष्ठस्तु कैकेय्या प्रियं पार्थिव नन्दनः ।
आचष्ट भरतः सर्वं मात्रे राजीवलोचनः ॥ ७ ॥

अद्य मे सप्तमी रात्रिश्च्युतस्यार्यक वेश्मनः ।
अम्बायाः कुशली तातः युधाजिन्मातुलश्च मे ॥ ८ ॥

यन्मे धनं च रत्नं च ददौ राजा परन्तपः ।
परिश्रान्तं पथ्यभवत्ततोऽहं पूर्वमागतः ॥ ९ ॥

राजवाक्यहरैर्दूतैः त्वर्यमाणोऽहमागतः ।
यदहं प्रष्टुमिच्छामि तदम्बा वक्तुमर्हसि ॥ १० ॥

शून्योऽयं शयनीयस्ते पर्यङ्को हेमभूषितः ।
न चायमिक्ष्वाकु जनः प्रहृष्टः प्रतिभाति मे ॥ ११ ॥

राजा भवति भूयिष्ठमिहाम्बाया निवेशने ।
तमहं नाद्य पश्यामि द्रष्टुमिच्छन्निहागतः ॥ १२ ॥

पितुर्ग्रहीष्ये चरणौ तं ममाख्याहि पृच्छतः ।
आहोस्विदम्ब ज्येष्ठायाः कौसल्याया निवेशने ॥ १३ ॥

तं प्रत्युवाच कैकेयी प्रियवद्घोरमप्रियम् ।
अजानन्तं प्रजानन्ती राज्य लोभेन मोहिता ॥ १४ ॥

या गतिः सर्वभूतानां तां गतिं ते पिता गतः ।
राजा महात्मा तेजस्वी यायजूकः सतां गतिः ॥ १५ ॥

तच्छ्रुत्वा भरतः वाक्यं धर्माभिजनवान् शुचिः ।
पपात सहसा भूमौ पितृशोकबलार्दितः ॥ १६ ॥

हा हतोऽस्मीति कृपणां दीनां वाचमुदीरयन् ।
निपपात महाबाहुर्बाहु विक्षिप्य वीर्यवान् ॥ १७ ॥

ततः शोकेन संवीतः पितुर्मरण दुःखितः ।
विललाप महातेजाः भ्रान्ताकुलित चेतनः ॥ १८ ॥

एतत्सुरुचिरं भाति पितुर्मे शयनं पुरा ।
शशिनेवामलं रात्रौ गगनं तोयदात्यये ॥ १९ ॥

तदिदं न विभात्यद्य विहीनं तेन धीमता ।
व्योमेव शशिना हीनमप्छुष्क इव सागरः ॥ २० ॥

बाष्पमुत्सृज्य कण्ठेन स्वार्तः परिपीडितः ।
प्रच्छाद्य वदनं श्रीमद्वस्त्रेण जयतां वरः ॥ २१ ॥

तमार्तं देवसङ्काशं समीक्ष्य पतितं भुवि ।
निकृत्तमिव सालस्य स्कन्धं परशुना वने ॥ २२ ॥

मत्तमातङ्गसङ्काशं चन्द्रार्कसदृशं भुवः ।
उत्थापयित्वा शोकार्तं वचनं चेदमब्रवीत् ॥ २३ ॥

उत्तिष्ठोत्तिष्ठ किं शेषे राजपुत्र महायशः ।
त्वद्विधा न हि शोचन्ति सन्तः सदसि सम्मताः ॥ २४ ॥

दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा ।
बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे ॥ २५ ॥

स रुदित्वा चिरं कालं भूमौ विपरिवृत्य च ।
जननीं प्रत्युवाचेदं शोकैः बहुभिरावृतः ॥ २६ ॥

अभिषेक्ष्यति रामं नु राजा यज्ञं नु यक्ष्यते ।
इत्यहं कृतसङ्कल्पो हृष्टः यात्रामयासिषम् ॥ २७ ॥

तदिदं ह्यन्यथाभूतं व्यवदीर्णं मनो मम ।
पितरं यो न पश्यामि नित्यं प्रियहिते रतम् ॥ २८ ॥

अम्ब केनात्यगाद्राजा व्याधिना मय्यनागते ।
धन्या रामादयः सर्वे यैः पिता संस्कृतस्स्वयम् ॥ २९ ॥

न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान् ।
उपजिघ्रेद्धि मां मूर्ध्नि तात सन्नम्य सत्वरम् ॥ ३० ॥

क्व स पाणिः सुख स्पर्शस्तातस्याक्लिष्ट कर्मणः ।
येन मां रजसा ध्वस्तमभीक्ष्णं परिमार्जति ॥ ३१ ॥

यो मे भ्राता पिता बन्धुर्यस्य दासोऽस्मि धीमतः ।
तस्य मां शीघ्रमाख्याहि रामस्याक्लिष्ट कर्मणः ॥ ३२ ॥

पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः ।
तस्य पादौ ग्रहीष्यामि स हीदानीं गतिर्मम ॥ ३३ ॥

धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः ।
आर्यः किमब्रवीद्राजा पिता मे सत्यविक्रमः ॥ ३४ ॥

पश्चिमं साधु सन्देशमिच्छामि श्रोतुमात्मनः ।
इति पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत् ॥ ३५ ॥

रामेति राजा विलपन् हा सीते लक्ष्मणेति च ।
स महात्मा परं लोकं गतः गतिमतां वरः ॥ ३६ ॥

इमां तु पश्चिमां वाचं व्याजहार पिता तव ।
कालधर्मपरिक्षिप्तः पाशैरिव महागजः ॥ ३७ ॥

सिद्धार्थास्ते नरा राममागतं सीतया सह ।
लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनरागतम् ॥ ३८ ॥

तच्छ्रुत्वा विषसादैव द्वितीया प्रियशंसनात् ।
विषण्ण वदनो भूत्वा भूयः पप्रच्छ मातरम् ॥ ३९ ॥

क्व चेदानीं स धर्मात्मा कौसल्याऽऽनन्दवर्धनः ।
लक्ष्मणेन सह भ्रात्रा सीतया च समं गतः ॥ ४० ॥

तथा पृष्टा यथा तत्त्वमाख्यातुमुपचक्रमे ।
मातास्य युगपद्वाक्यं विप्रियं प्रिय शङ्कया ॥ ४१ ॥ [सुमहद्वाक्यं]

स हि राजसुतः पुत्र चीरवासा महावनम् ।
दण्डकान् सह वैदेह्या लक्ष्मणानुचरः गतः ॥ ४२ ॥

तच्छ्रुत्वा भरतस्त्रस्तः भ्रातुश्चारित्रशङ्कया ।
स्वस्य वंशस्य माहात्म्यात् प्रष्टुं समुपचक्रमे ॥ ४३ ॥

कच्चिन्न ब्राह्मणधनं हृतं रामेण कस्यचित् ।
कच्चिन्नाढ्यो दरिद्रः वा तेनापापो विहिंसितः ॥ ४४ ॥

कच्चिन्न परदारान्वा राजपुत्रोऽभिमन्यते ।
कस्मात्स दण्डकारण्ये भ्रूणहेव विवासितः ॥ ४५ ॥

अथास्य चपला माता तत्स्वकर्म यथातथम् ।
तेनैव स्त्रीस्वभावेन व्याहर्तुमुपचक्रमे ॥ ४६ ॥

एवमुक्ता तु कैकेयी भरतेन महात्मना ।
उवाच वचनं हृष्टा मूढा पण्डितमानिनी ॥ ४७ ॥

न ब्राह्मणधनं किञ्चिद्धृतं रामेण कस्यचित् ।
कश्चिन्नाढ्यो दरिद्रः वा तेनापापो विहिंसितः ॥ ४८ ॥

न रामः परदारांश्च चक्षुर्भ्यामपि पश्यति ।
मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम् ॥ ४९ ॥

याचितस्ते पिता राज्यं रामस्य च विवासनम् ।
स स्ववृत्तिं समास्थाय पिता ते तत्तथाऽकरोत् ॥ ५० ॥

रामश्च सह सौमित्रिः प्रेषितः सह सीतया ।
तमपश्यन् प्रियम्पुत्रं महीपालो महायशाः ॥ ५१ ॥

पुत्रशोकपरिद्यूनः पञ्चत्वमुपपेदिवान् ।
त्वयात्विदानीं धर्मज्ञ राजत्वमवलम्ब्यताम् ॥ ५२ ॥

त्वत्कृते हि मया सर्वमिदमेवं विधं कृतम् ।
मा शोकं मा च सन्तापं धैर्यमाश्रय पुत्रक ।
त्वदधीना हि नगरी राज्यं चैतदनामयम् ॥ ५३ ॥

तत्पुत्र शीघ्रं विधिना विधिज्ञैः
वसिष्ठमुख्यैः सहितो द्विजेन्द्रैः ।
सङ्काल्य राजानमदीन सत्त्वम्
आत्मानमुर्व्यामभिषेचयस्व ॥ ५४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥ ७२ ॥

अयोध्याकाण्ड त्रिसप्ततितमः सर्गः (७३) >>


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments