Site icon Stotra Nidhi

Ayodhya Kanda Sarga 64 – अयोध्याकाण्ड चतुःषष्ठितमः सर्गः (६४)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

॥ दशरथदिष्टान्तः ॥

वधमप्रतिरूपं तु महर्षेस्तस्य राघवः ।
विलपन्नेव धर्मात्मा कौसल्यां पुनरब्रवीत् ॥ १ ॥

तदज्ञानान्महत्पापं कृत्वाहं सङ्कुलेन्द्रियः ।
एकस्त्वचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत् ॥ २ ॥

ततस्तं घटमादय पूर्णं परमवारिणा ।
आश्रमं तमहं प्राप्य यथाख्यातपथं गतः ॥ ३ ॥

तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौ ।
अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ ॥ ४ ॥

तन्निमित्ताभिरासीनौ कथाभिरपरिक्रमौ ।
तामाशां मत्कृते हीनौ उदासीनावनाथवत् ॥ ५ ॥

शोकोपहतचित्तश्च भयसन्त्रस्तचेतनः ।
तच्चाश्रमपदं गत्वा भूयः शोकमहं गतः ॥ ६ ॥

पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत ।
किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय ॥ ७ ॥

यन्निमित्तमिदं तात सलिले क्रीडितं त्वया ।
उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम् ॥ ८ ॥

यद्व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया ।
न तन्मनसि कर्तव्यं त्वया तात तपस्विना ॥ ९ ॥

त्वं गतिस्त्वगतीनां च चक्षुस्त्वं हीनचक्षुषाम् ।
समासक्तास्त्वयि प्राणाः किं त्वं नो नाभिभाषसे ॥ १० ॥

मुनिमव्यक्तया वाचा तमहं सज्जमानया ।
हीनव्यञ्जनया प्रेक्ष्य भीतः भीतैवाब्रवम् ॥ ११ ॥

मनसः कर्म चेष्टाभिरभिसंस्तभ्य वाग्बलम् ।
आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम् ॥ १२ ॥

क्षत्रियोऽहं दशरथो नाहं पुत्रो महात्मनः ।
सज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम् ॥ १३ ॥

भगवंश्चापहस्तोऽहं सरयूतीरमागतः ।
जिघांसुः श्वापदं किञ्चित् निपाने चागतं गजम् ॥ १४ ॥

तत्र श्रुतः मया शब्दो जले कुम्भस्य पूर्यतः ।
द्विपोऽयमिति मत्वाऽयं बाणेनाभिहतः मया ॥ १५ ॥

गत्वा नद्यास्ततस्तीरमपश्यमिषुणा हृदि ।
विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम् ॥ १६ ॥

भगवन् शब्दमालक्ष्य मया गजजिघांसुना ।
विसृष्टोऽम्भसि नाराचस्तेन ते निहतस्सुतः ॥ १७ ॥ [ततस्ते]

ततस्तस्यैव वचनादुपेत्य परितप्यतः ।
स मया सहसा बणोद्धृतो मर्मतस्तदा ॥ १८ ॥

स चोद्धृतेन बाणेन तत्रैव स्वर्गमास्थितः ।
भवन्तौ पितरौ शोचन्नन्धाविति विलप्य च ॥ १९ ॥

अज्ञानाद्भवतः पुत्रः सहसाऽभिहतः मया ।
शेषमेवं गते यत्स्यात् तत्प्रसीदतु मे मुनिः ॥ २० ॥

स तच्छ्रुत्वा वचः क्रूरं मयोक्तमघशंसिना ।
नाशकत्तीव्रमायासमकर्तुं भगवानृषिः ॥ २१ ॥

स बाष्पपूर्णवदनो निःश्वसन् शोककर्शितः ।
मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् ॥ २२ ॥

यद्येतदशुभं कर्म न त्वं मे कथयेः स्वयम् ।
फलेन्मूर्धा स्म ते राजन् सद्यः शतसहस्रधा ॥ २३ ॥

क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः ।
ज्ञानपूर्वं कृतः स्थानात् च्यावयेदपि वज्रिणम् ॥ २४ ॥

सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति ।
ज्ञानाद्विसृजतः शस्त्रं तादृशे ब्रह्मवादिनि ॥ २५ ॥

अज्ञानाद्धि कृतं यस्मात् इदं तेनैव जीवसि ।
अपि ह्यद्य कुलं नस्यात् इक्ष्वाकूणां कुतः भवान् ॥ २६ ॥

नय नौ नृप तं देशमिति मां चाभ्यभाषत ।
अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम् ॥ २७ ॥

रुधिरेणावसिक्ताङ्गं प्रकीर्णाजिन वाससम् ।
शयानं भुवि निस्सञ्ज्ञं धर्म राजवशं गतम् ॥ २८ ॥

अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ ।
अस्पर्शयमहं पुत्रं तं मुनिं सह भार्यया ॥ २९ ॥

तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ ।
निपेततुः शरीरेऽस्य पिता तस्येदमब्रवीत् ॥ ३० ॥

नाभिवादयसे माऽद्य न च मामभिभाषसे ।
किं नु शेषे तु भूमौ त्वं वत्स किं कुपितो ह्यसि ॥ ३१ ॥

न त्वहं ते प्रियं पुत्र मातरं पस्य धार्मिक ।
किं नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥ ३२ ॥

कस्य वारात्रेऽहं श्रोष्यामि हृदयङ्गमम् ।
अधीयानस्य मधुरं शास्त्रं वान्यद्विशेषतः ॥ ३३ ॥

को मां सन्ध्यामुपास्यैव स्नात्वा हुतहुताशनः ।
श्लाघयिष्यत्युपासीनः पुत्र शोकभयार्दितम् ॥ ३४ ॥

कन्दमूलफलं हृत्वा को मां प्रियमिवातिथिम् ।
भोजयिष्यत्यकर्मण्यम् अप्रग्रहमनायकम् ॥ ३५ ॥

इमामन्धां च वृद्धां च मातरं ते तपस्विनीम् ।
कथं वत्स भरिष्यामि कृपणां पुत्र गर्धिनीम् ॥ ३६ ॥

तिष्ठ मां मागमः पुत्र यमस्य सदनं प्रति ।
श्वो मया सह गन्ताऽसि जनन्या च समेधितः ॥ ३७ ॥

उभावपि च शोकार्तौ अवनाथौ कृपणौ वने ।
क्षिप्रमेव गमिष्यावस्त्वयाऽहीनौ यमक्षयम् ॥ ३८ ॥

ततः वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम् ।
क्षमतां धर्मराजो मे बिभृयात्पितरावयम् ॥ ३९ ॥

दातुमर्हति धर्मात्मा लोकपालो महायशाः ।
ईदृशस्य ममाक्षय्या मेकामभयदक्षिणाम् ॥ ४० ॥

अपापोऽसि यदा पुत्र निहतः पापकर्मणा ।
तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम् ॥ ४१ ॥

यान्ति शूरा गतिं यां च सङ्ग्रामेष्वनिवर्तिनः ।
हतास्त्वभिमुखाः पुत्र गतिं तां परमां व्रज ॥ ४२ ॥

यां गतिं सगरः शैब्यो दिलीपो जनमेजयः ।
नहुषो धुन्धुमारश्च प्राप्तास्तां गच्छ पुत्रक ॥ ४३ ॥

या गतिः सर्वसाधूनां स्वाध्यायात्तपसाच या ।
या भूमिदस्याहिताग्नेः एकपत्नी व्रतस्य च ॥ ४४ ॥

गो सहस्रप्रदातॄणां या या गुरुभृतामपि ।
देहन्यासकृतां या च तां गतिं गच्छ पुत्रक ॥ ४५ ॥

न हि त्वस्मिन् कुले जातः गच्छत्यकुशलां गतिम् ।
स तु यास्यति येन त्वं निहतो मम बान्धवः ॥ ४६ ॥

एवं स कृपणं तत्र पर्यदेवयतासकृत् ।
ततोऽस्मै कर्तुमुदकं प्रवृत्तः सहभार्यया ॥ ४७ ॥

स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः ।
स्वर्गमाध्यारुहत् क्षिप्रं शक्रेण सह धर्मवित् ॥ ४८ ॥

आबभाषे च वृद्धौ तौ सह शक्रेण तापसः ।
आश्वास्य च मुहूर्तं तु पितरौ वाक्यमब्रवीत् ॥ ४९ ॥

स्थानमस्मि महत्प्राप्तः भवतोः परिचारणात् ।
भवन्तावपि च क्षिप्रं मम मूलमुपैष्यतः ॥ ५० ॥

एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता ।
आरुरोह दिवं क्षिप्रं मुनिपुत्रः जितेन्द्रियः ॥ ५१ ॥

स कृत्वा तूदकं तूर्णं तापसः सह भार्यया ।
मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् ॥ ५२ ॥

अद्यैव जहि मां राजन् मरणे नास्ति मे व्यथा ।
यच्छरेणैकपुत्रं मां त्वमकर्षीरपुत्रकम् ॥ ५३ ॥

त्वया तु यदविज्ञानात् निहतः मे सुतः शुचिः ।
तेन त्वामभिशप्स्यामि सुदुःखमतिदारुणम् ॥ ५४ ॥

पुत्रव्यसनजं दुःखं यदेतन्मम साम्प्रतम् ।
एवं त्वं पुत्रशोकेन राजन् कालं करिष्यसि ॥ ५५ ॥

अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः ।
तस्मात्त्वां नाविशत्याशु ब्रह्महत्या नराधिप ॥ ५६ ॥

त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति ।
जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥ ५७ ॥

एवं शापं मयि न्यस्य विलप्य करुणं बहु ।
चितामारोप्य देहं तन्मिथुनं स्वर्गमभ्ययात् ॥ ५८ ॥

तदेतच्छिन्तयानेन स्मृतं पापं मया स्वयम् ।
तदा बाल्यात्कृतं देवि शब्दवेध्यनुकर्षिणा ॥ ५९ ॥

तस्यायं कर्मणो देवि विपाकः समुपस्थितः ।
अपथ्यैः सह सम्भुक्तः व्याधिरन्नरसो यथा ॥ ६० ॥

तस्मान्मामागतं भद्रे तस्योदारस्य तद्वचः ।
यदहं पुत्रशोकेन सन्त्यक्ष्याम्यद्य जीवितम् ॥ ६१ ॥

चक्षुर्भ्यां त्वां न पश्यामि कौसल्ये साधु मा स्पृश ।
इत्युक्त्वा स रुदंस्त्रस्तो भार्यामाह च भूमिपः ॥ ६२ ॥

एतन्मे सदृशं देवि यन्मया राघवे कृतम् ।
सदृशं तत्तु तस्यैव यदनेन कृतं मयि ॥ ६३ ॥

दुर्वृत्तमपि कः पुत्रं त्यजेद्भुवि विचक्षणः ।
कश्च प्रव्राज्यमानो वा नासूयेत्पितरं सुतः ॥ ६४ ॥

यदि मां संस्पृशेद्रामः सकृदद्य लभेत वा ।
यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः ॥ ६५ ॥

चक्षुषा त्वां न पश्यामि स्मृतिर्मम विलुप्यते ।
दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम् ॥ ६६ ॥

अतस्तु किं दुःखतरं यदहं जीवितक्षये ।
न हि पश्यामि धर्मज्ञं रामं सत्यपराक्रमम् ॥ ६७ ॥

तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः ।
उच्छोषयति मे प्राणान्वारि स्तोकमिवातपः ॥ ६८ ॥

न ते मनुष्या देवास्ते ये चारुशुभकुण्डलम् ।
मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः ॥ ६९ ॥

पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम् ।
धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम् ॥ ७० ॥

सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य च ।
सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम् ॥ ७१ ॥

निवृत्तवनवासं तमयोध्यां पुनरागतम् ।
द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा ॥ ७२ ॥

कौसल्ये चित्तमोहेन हृदयं सीदतीव मे ।
वेदये न च सम्युक्तान् शब्दस्पर्शरसानहम् ॥ ७३ ॥

चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे ।
क्षिणस्नेहस्य दीपस्य संसक्ता रश्मयो यथा ॥ ७४ ॥

अयमात्म भवः शोको मामनाथमचेतनम् ।
संसादयति वेगेन यथा कूलं नदीरयः ॥ ७५ ॥

हा राघव महाबाहो हा ममाऽयासनाशन ।
हा पितृप्रिय मे नाथ हाऽद्य क्वाऽसि गतः सुत ॥ ७६ ॥

हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि ।
हा नृशंसे ममामित्रे कैकेयि कुलपांसनि ॥ ७७ ॥

इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ ।
राजा दशरथः शोचन् जीवितान्तमुपागमत् ॥ ७८ ॥

यथा तु दीनं कथयन्नराधिपः
प्रियस्य पुत्रस्य विवासनातुरः ।
गतेऽर्धरात्रे भृशदुःखपीडितः ।
तदा जहौ प्राणमुदारदर्शनः ॥ ७९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥ ६४ ॥

अयोध्याकाण्ड पञ्चषष्ठितमः सर्गः (६५) >>


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments