Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ रावणैकशतशिरश्छेदनम् ॥
तौ तदा युध्यमानौ तु समरे रामरावणौ ।
ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना ॥ १ ॥
अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ ।
परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ ॥ २ ॥
परस्परवधे युक्तौ घोररूपौ बभूवतुः ।
मण्डलानि च वीथीश्च गतप्रत्यागतानि च ॥ ३ ॥
दर्शयन्तौ बहुविधां सूतसारथ्यजां गतिम् ।
अर्दयन्रावणं रामो राघवं चापि रावणः ॥ ४ ॥
गतिवेगं समापन्नौ प्रवर्तननिवर्तने ।
क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ ॥ ५ ॥
चेरतुः सम्युगमहीं सासारौ जलदौ यथा ।
दर्शयित्वा तथा तौ तु गतिं बहुविधां रणे ॥ ६ ॥
परस्परस्याभिमुखौ पुनरेवावतस्थतुः ।
धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम् ॥ ७ ॥
पताकाश्च पताकाभिः समेयुः स्थितयोस्तदा ।
रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः ॥ ८ ॥
चतुर्भिश्चतुरो दीप्तैर्हयान्प्रत्यपसर्पयत् ।
स क्रोधवशमापन्नो हयानामपसर्पणे ॥ ९ ॥
मुमोच निशितान्बाणान्राघवाय निशाचरः ।
सोऽतिविद्धो बलवता दशग्रीवेण राघवः ॥ १० ॥
जगाम न विकारं च न चापि व्यथितोऽभवत् ।
चिक्षेप च पुनर्बाणान्वज्रपातसमस्वनान् ॥ ११ ॥
सारथिं वज्रहस्तस्य समुद्दिश्य निशाचरः ।
मातलेस्तु महावेगाः शरीरे पतिताः शराः ॥ १२ ॥
न सूक्ष्ममपि सम्मोहं व्यथां वा प्रददुर्युधि ।
तया धर्षणया क्रुद्धो मातलेर्न तथाऽऽत्मनः ॥ १३ ॥
चकार शरजालेन राघवो विमुखं रिपुम् ।
विंशतं त्रिंशतं षष्टिं शतशोऽथ सहस्रशः ॥ १४ ॥
मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः ।
रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ॥ १५ ॥
गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ।
तत्प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् ॥ १६ ॥
गदानां मुसलानां च परिघाणां च निःस्वनैः ।
शराणां पुङ्खपातैश्च क्षुभिताः सप्त सागराः ॥ १७ ॥
क्षुब्धानां सागराणां च पातालतलवासिनः ।
व्यथिताः पन्नगाः सर्वे दानवाश्च सहस्रशः ॥ १८ ॥
चकम्पे मेदिनी कृत्स्ना सशैलवनकानना ।
भास्करो निष्प्रभश्चासीन्न ववौ चापि मारुतः ॥ १९ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
चिन्तामापेदिरे सर्वे सकिन्नरमहोरगाः ॥ २० ॥
स्वस्ति गोब्राह्मणेभ्यस्तु लोकास्तिष्ठन्तु शाश्वताः ।
जयतां राघवः सङ्ख्ये रावणं राक्षसेश्वरम् ॥ २१ ॥
एवं जपन्तोऽपश्यंस्ते देवाः सर्षिगणास्तदा ।
रामरावणयोर्युद्धं सुघोरं रोमहर्षणम् ॥ २२ ॥
गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्धमनूपमम् ।
गगनं गगनाकारं सागरः सागरोपमः ॥ २३ ॥
रामरावणयोर्युद्धं रामरावणयोरिव ।
एवं ब्रुवन्तो ददृशुस्तद्युद्धं रामरावणम् ॥ २४ ॥
ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनः ।
सन्धाय धनुषा रामः क्षुरमाशीविषोपमम् ॥ २५ ॥
रावणस्य शिरोच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम् ।
तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिस्तदा ॥ २६ ॥
तस्यैव सदृशं चान्यद्रावणस्योत्थितं शिरः ।
तत्क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा ॥ २७ ॥
द्वितीयं रावणशिरश्छिन्नं सम्यति सायकैः ।
छिन्नमात्रं तु तच्छीर्षं पुनरन्यत्स्म दृश्यते ॥ २८ ॥
तदप्यशनिसङ्काशैश्छिन्नं रामेण सायकैः ।
एवमेकशतं छिन्नं शिरसां तुल्यवर्चसाम् ॥ २९ ॥
न चैव रावणस्यान्तो दृश्यते जीवितक्षये ।
ततः सर्वास्त्रविद्वीरः कौसल्यानन्दवर्धनः ॥ ३० ॥
मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः ।
मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः ॥ ३१ ॥
क्रौञ्चावने विराधस्तु कबन्धो दण्डकावने ।
यैः साला गिरयो भग्ना वाली च क्षुभितोऽम्बुधिः ॥ ३२ ॥
त इमे सायकाः सर्वे युद्धे प्रात्ययिका मम ।
किंनु तत्कारणं येन रावणे मन्दतेजसः ॥ ३३ ॥
इति चिन्तापरश्चासीदप्रमत्तश्च सम्युगे ।
ववर्ष शरवर्षाणि राघवो रावणोरसि ॥ ३४ ॥
रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ।
गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ॥ ३५ ॥
तत्प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् ।
अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि ॥ ३६ ॥
देवदानवयक्षाणां पिशाचोरगरक्षसाम् ।
पश्यतां तन्महद्युद्धं सर्वरात्रमवर्तत ॥ ३७ ॥
नैव रात्रं न दिवसं न मुहूर्तं न च क्षणम् ।
रामरावणयोर्युद्धं विराममुपगच्छति ॥ ३८ ॥
दशरथसुतराक्षसेन्द्रयोः
जयमनवेक्ष्य रणे स राघवस्य ।
सुरवररथसारथिर्महान्
रणगतमेनमुवाच वाक्यमाशु ॥ ३९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे दशोत्तरशततमः सर्गः ॥ ११० ॥
युद्धकाण्ड एकादशोत्तरशततमः सर्गः (१११) >>
सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.