Site icon Stotra Nidhi

Sri Vikhanasa Ashtottara Shatanama Stotram – श्री विखनसाष्टोत्तरशतनाम स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

अस्य श्रीविखनसाष्टोत्तरशतनाम स्तोत्रमहामन्त्रस्य भगवान् भृगुमहर्षिः, अनुष्टुप्छन्दः, श्रीमन्नारायणो देवता, आत्मयोनिः स्वयञ्जात इति बीजं, गर्भवैष्णव इति शक्तिः, शङ्खचक्रगदापद्मेति कीलकं, शार्ङ्गभृन्नन्दकीत्यस्त्रं, निगमागम इति कवचं, परमात्म साधनौ इति नेत्रं, परञ्ज्योतिस्वरूपे विनियोगः, सनकादि योगीन्द्र मुक्तिप्रदमिति ध्यानम्, अष्टचक्रमिति दिग्भन्धः, श्रीविखनसब्रह्मप्रीत्यर्थे जपे विनियोगः ॥

ध्यानम् –
शङ्खारिन्निजलाञ्छनैः परिगतन् चाम्बोधितल्पेस्थितं
प्रेम्नोद्देश्य समन्त्रतन्त्रविदुषां तत्पूजने श्रेष्ठितम् ।
तं कृत्वोत्कृपया मनःसरसिजे सम्भूतवन्तं हृदि
ध्यायाम्यार्तजनावनं विखनसं योगप्रभावल्लभम् ॥

स्तोत्रम् –
श्रीमन्योगप्रभासीनः मन्त्रवेत्तात्रिलोकधृत् ।
श्रवणेश्रावणेशुक्लसम्भवो गर्भवैष्णवाः ॥ १ ॥

भृग्वादिमुनयः पुत्राः त्रिलोकात्मा परात्परः ।
परञ्ज्योतिस्वरूपात्मा सर्वात्मा सर्वशास्त्रभृत् ॥ २ ॥

योगिपुङ्गवसंस्तुत्यस्फुटपादसरोरूहः ।
वेदान्तवेदपुरुषां वेदाङ्गो वेदसारवित् ॥ ३ ॥

सूर्येन्दुनयनद्वन्द्वः स्वयम्भूरादिवैष्णवः ।
आर्तलोकमनःपद्मरञ्जितभ्रमराह्वयः ॥ ४ ॥

राजीवलोचनः शौरिः सुन्दरः पुरुषोत्तमः ।
समाराधनदीक्षो वा स्थापकः स्थानिकार्चकः ॥ ५ ॥

आचार्यस्त्रिजगज्जेता जगन्नाथो जनार्दनः ।
शतकोटिसहस्रांशुतेजोवद्दिव्यविग्रहः ॥ ६ ॥

भोक्ता गोप्ताऽमरेन्द्रो वा सुमेधा धर्मवर्धनः ।
क्षेत्रज्ञः पुण्डरीकाक्षः श्रेष्ठां गम्भीरसद्गुणः ॥ ७ ॥

जितेन्द्रियः सुप्रसादः अप्रमेयप्रकाशनः ।
धृक्कराब्जो रमापुत्रो मृगचर्माम्बरोऽच्युतः ॥ ८ ॥

पद्मोद्भवाग्रजो मुख्यः धृतदण्डकमण्डलुः ।
वैखानसागमनिधिर्नैकरूपो निरञ्जनः ॥ ९ ॥

गर्भचक्राङ्कनधरः शुचिः साधुः प्रतापनः ।
योगब्रह्मा परब्रह्मा निरामयतपोनिधिः ॥ १० ॥

माधवाङ्घ्रिसरोजातपूजार्हश्रीचतुर्भुजः ।
अनघो भगवान्विष्णुः विजयो नित्यसद्गुणः ॥ ११ ॥

विराण्मानसपुत्रो वा चक्रशङ्खधरः परः ।
क्रोधहा शत्रुहा दृश्यः ब्रह्मरूपार्तवत्सलः ॥ १२ ॥

कामहा धर्मभृद्धर्मी विशिष्टः शाश्वतः शिवः ।
अव्ययः सर्वदेवेशः अचिन्त्यो भयनाशनः ॥ १३ ॥

योगीन्द्रो योगपुरुषरादिदेवो महामनाः ।
वैखानसमुनिश्रेष्ठः निधिभृत्काञ्चनाम्बरः ॥ १४ ॥

नियमः सात्त्विकश्रीदस्तारकः शोकनाशनः ।
अर्चनाक्षमयोगीशः श्रीधरार्चिः शुभो महान् ॥ १५ ॥

मुक्तिदः परमैकान्तः श्रीनिधिः श्रीकरो रुचिः ।
चन्द्रिकाचन्द्रधवलमन्दहासयुताननः ॥ १६ ॥

सुखव्याप्तो विखनसो विखनोमुनिपुङ्गवः ।
दयालुः सत्यभाषो वा सुमूर्तिर्दिव्यमूर्तिमान् ॥ १७ ॥

इत्येवं श्रीविखनसो नाम्नामष्टोत्तरं शतम् ।
यात्राकाले विशेषे च ज्ञानाऽज्ञानकृतेऽपि च ॥ १८ ॥

स्नानेषु सर्वकालेषु सूर्यचन्द्रोपरागके ।
प्रयाणे भोजने तल्पे विद्यारम्भे महोत्सवे ॥ १९ ॥

त्रिसन्ध्यायां पठेन्नित्यं सर्वत्र विजयी भवेत् ।
सर्वकामार्थवृद्धेश्च सिद्धिदं फलदं भवेत् ॥ २० ॥

भव्याय मौनिवर्याय परिपुताय वाग्मिने ।
योगप्रभासमेताय श्रीमद्विखनसे नमः ॥ २१ ॥

इति श्री विखनसाष्टोत्तरशतनाम स्तोत्रम् ॥


इतर श्री विखनस स्तोत्राणि पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments