Site icon Stotra Nidhi

Sri Venkateshwara Ashtottara Shatanama Stotram 2 – श्री वेङ्कटेश्वर अष्टोत्तरशतनाम स्तोत्रम् २

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

श्री वेङ्कटेशः श्रीनिवासो लक्ष्मीपतिरनामयः ।
अमृतांशो जगद्वन्द्यो गोविन्दश्शाश्वतः प्रभुः ॥ १ ॥

शेषाद्रिनिलयो देवः केशवो मधुसूदनः ।
अमृतो माधवः कृष्णः श्रीहरिर्ज्ञानपञ्जरः ॥ २ ॥

श्रीवत्सवक्षा-स्सर्वेशो गोपालः पुरुषोत्तमः ।
गोपीश्वरः परञ्ज्योति-र्वैकुण्ठपति-रव्ययः ॥ ३ ॥

सुधातनु-र्यादवेन्द्रो नित्ययौवनरूपवान् ।
चतुर्वेदात्मको विष्णुरच्युतः पद्मिनीप्रियः ॥ ४ ॥

धरापति-स्सुरपति-र्निर्मलो देवपूजितः ।
चतुर्भुज-श्चक्रधर-स्त्रिधामा त्रिगुणाश्रयः ॥ ५ ॥

निर्विकल्पो निष्कलङ्को निरन्तरो निरञ्जनः ।
निराभासो नित्यतृप्तो निर्गुणो निरुपद्रवः ॥ ६ ॥

गदाधर शार्‍ङ्गपाणिर्नन्दकीशङ्खधारकः ।
अनेकमूर्तिरव्यक्तः कटिहस्तो वरप्रदः ॥ ७ ॥

अनेकात्मा दीनबन्धु-रार्तलोकाऽभयप्रदः ।
आकाशराजवरदो योगिहृत्पद्ममन्दिरः ॥ ८ ॥

दामोदरो जगत्पालः पापघ्नो भक्तवत्सलः ।
त्रिविक्रमश्शिंशुमारो जटामकुटशोभितः ॥ ९ ॥

शङ्खमध्योल्लसन्मञ्जुकिङ्किण्याढ्यकरण्डकः ।
नीलमेघश्यामतनु-र्बिल्वपत्रार्चनप्रियः ॥ १० ॥

जगद्व्यापी जगत्कर्ता जगत्साक्षी जगत्पतिः ।
चिन्तितार्थप्रदो जिष्णुर्दाशार्हो दशरूपवान् ॥ ११ ॥

देवकीनन्दन-श्शौरि-र्हयग्रीवो जनार्दनः ।
कन्याश्रवणतारेज्यः पीताम्बरधरोऽनघः ॥ १२ ॥

वनमाली पद्मनाभो मृगयासक्तमानसः ।
अश्वारूढः खड्गधारी धनार्जनसमुत्सुकः ॥ १३ ॥

घनसारलसन्मध्यकस्तूरीतिलकोज्ज्वलः ।
सच्चिदानन्दरूपश्च जगन्मङ्गलदायकः ॥ १४ ॥

यज्ञरूपो यज्ञभोक्ता चिन्मयः परमेश्वरः ।
परमार्थप्रद-श्शान्त-श्श्रीमान् दोर्दण्ड विक्रमः ॥ १५ ॥

परात्परः परब्रह्मा श्रीविभुर्जगदीश्वरः ।
एवं श्री वेङ्कटेशस्य नाम्नां अष्टोत्तरं शतम् ॥ १६ ॥

पठतां शृण्वतां भक्त्या सर्वाभीष्टप्रदं शुभम् ।
त्रिसन्ध्यं यः पठेन्नित्यं सर्वान् कामानवाप्नुयात् ॥ १७ ॥

इति श्री ब्रह्माण्डपुराणे श्री वेङ्कटेश्वराष्टोत्तरशतनाम स्तोत्रम् ।


इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।


స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments