Site icon Stotra Nidhi

Sri Taramba (Tara) Hrudayam – श्री ताराम्बा हृदयम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

श्री शिव उवाच ।
शृणु पार्वति भद्रं ते लोकानां हितकारकं ।
कथ्यते सर्वदा गोप्यं ताराहृदयमुत्तमम् ॥ १ ॥

श्री पार्वत्युवाच ।
स्तोत्रं कथं समुत्पन्नं कृतं केन पुरा प्रभो ।
कथ्यतां सर्ववृत्तान्तं कृपां कृत्वा ममोपरि ॥ २ ॥

श्री शिव उवाच ।
रणेदेवासुरे पूर्वं कृतमिन्द्रेण सुप्रिये ।
दुष्टशत्रुविनाशार्थं बल वृद्धि यशस्करम् ॥ ३ ॥

ओं अस्य श्रीमदुग्रतारा हृदय स्तोत्र मन्त्रस्य – श्री भैरव ऋषिः – अनुष्टुप्छन्दः – श्रीमदुग्रतारादेवता – स्त्रीं बीजं – हूम्शक्तिः – नमः कीलकं – सकलशत्रुविनाशार्थे जपे विनियोगः ।

करन्यासः –
ओं स्त्रीं अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं तर्जनीभ्यां नमः ।
ओं हूं मध्यमाभ्य़ां नमः ।
ओं त्रीं अनामिकाभ्यां नमः ।
ओं ऐं कनिष्ठकाभ्य़ां नमः ।
ओं हंसः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
ओं स्त्रीं हृदयाय नमः ।
ओं ह्रीं शिरसे स्वाहा ।
ओं हूं शिखायै वषट् ।
ओं त्रीं कवचाय हुं ।
ओं ऐं नेत्रत्रयाय वौषट् ।
ओं हंसः अस्त्रायफट् ।

ध्यानम् ।
ध्यायेत्कोटिदिवाकरद्युतिनिभां बालेन्दुयुक्छेखरां
रक्ताङ्गीं विकटां सुरक्तवसनां पूर्णेन्दुबिम्बाननां ।
पाशङ्खड्गमहाङ्कुशादि दधतीं दोर्भिश्चतुर्भिर्युतां
नानाभूषणभूषितां भगवतीं तारां जगत्तारिणीं ॥ ४ ॥

एवं ध्यात्वा शुभां तारां ततस्तु हृदयं पठेत् ।
तारिणी तत्त्वनिष्ठानां सर्वतत्त्वप्रकाशिका ॥ ५ ॥

रामाभिन्नापदाशक्तिश्शत्रुनाशं करोतु मे ।
सर्वदाशत्रुसंरंभे तारा मे कुरुतां जयम् ॥ ६ ॥

स्त्रीं त्रीं स्वरूपिणी देवी त्रिषु लोकेषु विश्रुता ।
तव स्नेहान्मयाख्यातं न पशूनां प्रकाशयेत् ॥ ७ ॥

शृणु देवि तवस्नेहात्तारानामानि तत्वतः ।
वर्णयिष्यामि गुप्तानि दुर्लभानि जगत्त्रये ॥ ८ ॥

तारिणी तरला तारा त्रिरूपा तरणीप्रभा ।
तत्त्वरूपा महासाध्वी सर्वसज्जनपालिका ॥ ९ ॥

रमणीया रजोरूपा जगत्सृष्टिकरी परा ।
तमोरूपा महामाया घोरारावा भयानका ॥ १० ॥

कालरूपा कालिकाख्या जगद्विध्वंसकारिणी ।
तत्त्वज्ञाना परानन्ता तत्त्वज्ञानप्रदाऽनघा ॥ ११ ॥

रक्ताङ्गी रक्तवस्त्रा च रक्तमालासुशोभिता ।
सिद्धिलक्ष्मीश्च ब्रह्माणि महाकाली महालया ॥ १२ ॥

नामान्येतानि ये मर्त्यास्सर्वदैकाग्रमानसाः ।
प्रपठन्ति प्रिये तेषां किङ्करत्वं करोम्यहम् ॥ १३ ॥

तारां तारपरान्देवीं तारकेश्वरपूजितां ।
तारिणीं भवपाथोधेरुग्रतारां भजाम्यहम् ॥ १४ ॥

स्त्रीं ह्रीं हूं त्रीं फण्मन्त्रेण जलं जप्त्वाऽभिषेचयेत् ।
सर्वरोगाः प्रणश्यन्ति सत्यं सत्यं वदाम्यहम् ॥ १५ ॥

त्रीं स्वाहान्तैर्महामन्त्रैश्चन्दनं साधयेत्ततः ।
तिलकं कुरुते प्राज्ञो लोकोवश्योभवेत्प्रिये ॥ १६ ॥

स्त्रीं ह्रीं त्रीं स्वाहा मन्त्रेण श्मशानं भस्म मन्त्रयेत् ।
शत्रोर्गृहे प्रतिक्षिप्ते शत्रोर्मृत्युर्भविष्यति ॥ १७ ॥

ह्रीं हूं स्त्रीं फडन्तमन्त्रैः पुष्पं सम्शोध्यसप्तधा ।
उच्चाटनं करोत्याशु रिपूणां नैव सम्शयः ॥ १८ ॥

स्त्रीं त्रीं ह्रीं मन्त्रवर्येण अक्षताश्चाभि मन्त्रिताः ।
तत्प्रतिक्षेपमात्रेण शीघ्रमायाति मानिनी ॥ १९ ॥

हंसः ओं ह्रीं स्त्रीं हूं हंसः ।

इति मन्त्रेण जप्तेन शोधितं कज्जलं प्रिये ।
तस्यैव तिलकं कृत्वा जगन्मोहं स वशं नयेत् ॥ २० ॥

ताराया हृदयं देवि सर्वपापप्रणाशनं ।
राजपेयादि यज्ञानां कोटि कोटि गुणोत्तरम् ॥ २१ ॥

गङ्गादि सर्वतीर्थानां फलं कोटिगुणं स्मृतं ।
महादुःखे महारोगे सङ्कटे प्राणसम्शये ॥ २२ ॥

महाभये महाघोरे पठेत् स्तोत्रं महोत्तमं ।
सत्यं सत्यं मयोक्तन्ते पार्वति प्राणवल्लभे ॥ २३ ॥

गोपनीयं प्रयत्नेन न प्रकाश्यमिदं क्वचित् ॥ २४ ॥

इति श्री भैरवीतन्त्रे शिवपार्वती संवादे श्रीमदुग्रताराहृदयं ।


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments