Site icon Stotra Nidhi

Sri Surya Shodasopachara Puja – श्री सूर्यनारायण षोडशोपचार पूजा

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुणविशेषण विशिष्टायां शुभ तिथौ, मम शरीरे वर्तमान वर्तिष्यमान वात पित्त कफोद्भव नाना कारण जनित ज्वर क्षय पाण्डु कुष्ठ शूलाऽतिसार धातुक्षय व्रण मेह भगन्दरादि समस्त रोग निवारणार्थं, भूत ब्रह्म हत्यादि समस्त पाप निवृत्त्यर्थं, क्षिप्रमेव शरीरारोग्य सिद्ध्यर्थं, हरिहरब्रह्मात्मकस्य, मित्रादि द्वादशनामाधिपस्य, अरुणादि द्वादश मासाधिपस्य, द्वादशावरण सहितस्य, त्रयीमूर्तेर्भगवतः श्री उषापद्मिनीछाया समेत श्री सूर्यनारायण स्वामि परब्रह्मणः प्रसाद सिद्ध्यर्थं, श्री सूर्यनारायण स्वामि देवतां उद्दिश्य, सम्भवद्भिः द्रव्यैः, सम्भवित नियमेन, सम्भवित प्रकारेण पुरुषसूक्त विधानेन यावच्छक्ति ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ॥

अस्मिन् बिम्बे सपरिवार समेत पद्मिनी उषा छाया समेत श्री सवितृ सूर्यनारायण स्वामिनं आवाहयामि स्थापयामि पूजयामि ॥

प्राणप्रतिष्ठ –
ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:
पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ।
अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥
आवाहितो भव स्थापितो भव ।
सुप्रसन्नो भव वरदो भव ।

ध्यानम् –
ध्येयःसदा सवितृमण्डलमध्यवर्ती
नारायणस्सरसिजासन सन्निविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥ १ ॥
अरुणोऽरुणपङ्कजे निषण्णः
कमलेऽभीतिवरौ करैर्दधानः ।
स्वरुचाहित मण्डलस्त्रिनेत्रो
रविराकल्प शताकुलोऽवतान्नः ॥ २ ॥
पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ।
सप्ताश्वः सप्तरज्जुश्च द्विभुजः स्यात् सदा रविः ॥ ३ ॥
ओं श्री सूर्यनारायणाय नमः ध्यायामि ।

आवाहनम् –
स॒हस्र॑शीर्षा॒ पुरु॑षः ।
स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा ।
अत्य॑तिष्ठद्दशाङ्गु॒लम् ।
आगच्छ भगवन् सूर्य मण्डपे च स्थिरो भव ।
यावत्पूजा समाप्येत तावत्त्वं सन्निधौ भव ॥
ओं श्री सूर्यनारायणाय नमः आवाहयामि ।

आसनम् –
पुरु॑ष ए॒वेदग्ं सर्वम्᳚ ।
यद्भू॒तं यच्च॒ भव्यम्᳚ ।
उ॒तामृ॑त॒त्वस्येशा॑नः ।
य॒दन्ने॑नाति॒रोह॑ति ॥
हेमासन महद्दिव्यं नानारत्नविभूषितम् ।
दत्तं मे गृह्यतां देव दिवाकर नमोऽस्तु ते ॥
ओं श्री सूर्यनारायणाय नमः नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि ।

पाद्यम् –
ए॒तावा॑नस्य महि॒मा ।
अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः ।
पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ ।
त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥
गङ्गाजल समानीतं परमं पावनं महत् ।
पाद्यं गृहाण देवेश धामरूप नमोऽस्तु ते ॥
ओं श्री सूर्यनारायणाय नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यम् –
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः ।
पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुन॑: ।
ततो॒ विष्व॒ङ्व्य॑क्रामत् ।
सा॒श॒ना॒न॒श॒ने अ॒भि ॥
भो सूर्य महाद्भुत ब्रह्मविष्णुस्वरूपदृक् ।
अर्घ्यं अञ्जलिना दत्तं गृहाण परमेश्वर ॥
ओं श्री सूर्यनारायणाय नमः हस्तयोः अर्घ्यं समर्पयामि ।

आचमनीयम् –
तस्मा᳚द्वि॒राड॑जायत ।
वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत ।
प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥
गङ्गादितीर्थजं तोयं जातीपुष्पैश्च वासितम् ।
ताम्रपात्रे स्थितं दिव्यं गृहाणाचमनीयकम् ॥
ओं श्री सूर्यनारायणाय नमः मुखे आचमनीयं समर्पयामि ।

पञ्चामृत स्नानम् –
क्षीरं दधि घृतं चैव मधुशर्करयान्वितम् ।
पञ्चामृतं गृहाणेदं जगन्नाथ नमोऽस्तु ते ॥
गोक्षीरेण समर्पयामि दधिना क्षौद्रेण गो सर्पिषा
स्नानं शर्करया तवाह मधुना श्री नारिकेलोदकैः ।
स्वच्छैश्चेक्षुरसैश्च कल्पितमिदं तत्त्वं गृहाणार्क भो
अज्ञानान्ध तमिस्रहन् हृदि भजे श्री सूर्यनारायणम् ॥
ओं श्री सूर्यनारायणाय नमः पञ्चामृत स्नानं समर्पयामि ।

शुद्धोदक स्नानम् –
यत्पुरु॑षेण ह॒विषा᳚ ।
दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ ।
ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः ॥
गङ्गा गोदावरी चैव यमुना च सरस्वती ।
नर्मदा सिन्धुः कावेरी ताभ्यं स्नानार्थमाहृतम् ॥
ओं श्री सूर्यनारायणाय नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं शुद्ध आचमनीयं समर्पयामि ।

वस्त्रम् –
स॒प्तास्या॑सन्परि॒धय॑: ।
त्रिः स॒प्त स॒मिध॑: कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः ।
अब॑ध्न॒न्पुरु॑षं प॒शुम् ॥
रक्तपट्टयुगं देव सूक्ष्मतन्तुविनिर्मितम् ।
शुद्धं चैव मया दत्तं गृहाण कमलाकर ॥
ओं श्री सूर्यनारायणाय नमः वस्त्रयुग्मं समर्पयामि ।

यज्ञोपवीतम् –
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ ।
पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जन्त ।
सा॒ध्या ऋष॑यश्च॒ ये ॥
नमः कमलहस्ताय विश्वरूपाय ते नमः ।
उपवीतं मया दत्तं तद्गृहाण दिवाकर ॥
ओं श्री सूर्यनारायणाय नमः यज्ञोपवीतं समर्पयामि ।

गन्धम् –
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: ।
सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूग्‍स्ताग्‍श्च॑क्रे वाय॒व्यान्॑ ।
आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ॥
कुङ्कुमागुरुकस्तूरी सुगन्धोश्चन्दनादिभिः ।
रक्तचन्दनसम्युक्तं गन्धं गृह्णीष्व भास्कर ॥
ओं श्री सूर्यनारायणाय नमः दिव्य श्री चन्दनं समर्पयामि ।

अक्षतान् –
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: ।
ऋच॒: सामा॑नि जज्ञिरे ।
छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् ।
यजु॒स्तस्मा॑दजायत ॥
रक्तचन्दनसंमिश्राः अक्षताश्च सुशोभनाः ।
मया दत्तं गृहाण त्वं वरदो भव भास्कर ॥
ओं श्री सूर्यनारायणाय नमः अक्षतान् समर्पयामि ।

पुष्पाणि –
तस्मा॒दश्वा॑ अजायन्त ।
ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त् ।
तस्मा᳚ज्जा॒ता अ॑जा॒वय॑: ॥
जपाकदम्बकुसुमरक्तोत्पलयुतानि च ।
पुष्पाणि गृह्यतां देव सर्वकामप्रदो भवः ॥
ओं श्री सूर्यनारायणाय नमः नानाविध परिमल पुष्पाणि समर्पयामि ।

अङ्गपूजा –
ओं मित्राय नमः – पादौ पूजयामि ।
ओं रवये नमः – जङ्घे पूजयामि ।
ओं सूर्याय नमः – जानुनी पूजयामि ।
ओं खगाय नमः – ऊरू पूजयामि ।
ओं हिरण्यगर्भाय नमः – कटिं पूजयामि ।
ओं पूष्णे नमः – गुह्यं पूजयामि ।
ओं मरीचये नमः – नाभिं पूजयामि ।
ओं आदित्याय नमः – जठरं पूजयामि ।
ओं सवित्रे नमः – हृदयं पूजयामि ।
ओं अर्काय नमः – स्तनौ पूजयामि ।
ओं भास्कराय नमः – कण्ठं पूजयामि ।
ओं अर्यम्णे नमः – स्कन्धौ पूजयामि ।
ओं हंसाय नमः – हस्तौ पूजयामि ।
ओं अहस्कराय नमः – मुखौ पूजयामि ।
ओं ब्रध्ने नमः – नासिकां पूजयामि ।
ओं जगदेकचक्षुषे नमः – नेत्राणि पूजयामि ।
ओं भानवे नमः – कर्णौ पूजयामि ।
ओं त्रिगुणात्मधारिणे नमः – ललाटं पूजयामि ।
ओं विरिञ्चिनारायणाय नमः – शिरः पूजयामि ।
ओं तिमिरनाशिने नमः – सर्वाण्यङ्गानि पूजयामि ।
ओं श्रीसूर्यनारायणाय नमः अङ्गपूजां समर्पयामि ।

द्वादश नामपूजा –
ओं आदित्याय नमः ।
ओं दिवाकराय नमः ।
ओं भास्कराय नमः ।
ओं प्रभाकराय नमः ।
ओं सहस्रांशवे नमः ।
ओं त्रिलोचनाय नमः ।
ओं हरिदश्वाय नमः ।
ओं विभावसवे नमः ।
ओं दिनकराय नमः ।
ओं द्वादशात्मकाय नमः ।
ओं त्रिमूर्तये नमः ।
ओं सूर्याय नमः ॥ १२

अथ अष्टोत्तरशतनाम पूजा –

श्री सूर्य अष्टोत्तरशतनामावली पश्यतु ॥

धूपम् –
यत्पुरु॑षं॒ व्य॑दधुः ।
क॒ति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू ।
कावू॒रू पादा॑वुच्येते ॥
दशाङ्गोगुग्गुलोद्भूतः कालागरुसमन्वितः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
ओं श्री सूर्यनारायणाय नमः धूपं आघ्रापयामि ।

दीपम् –
ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् ।
बा॒हू रा॑ज॒न्य॑: कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्य॑: ।
प॒द्भ्याग्ं शू॒द्रो अ॑जायत ॥
कार्पासवर्तिकायुक्तं गोघृतेन समन्वितम् ।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापह ॥
ओं श्री सूर्यनारायणाय नमः दीपं दर्शयामि ।

नैवेद्यम् –
च॒न्द्रमा॒ मन॑सो जा॒तः ।
चक्षो॒: सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ ।
प्रा॒णाद्वा॒युर॑जायत ॥
पायसं घृतसम्युक्तं नाना पक्वान्नसम्युतम् ।
नैवेद्यं च मया दत्तं शान्तिं कुरु जगत्पते ॥
ओं श्री सूर्यनारायणाय नमः नैवेद्यं समर्पयामि ।

ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।
ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।
ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि ।
अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।

ऋतुफलम् –
इदं फलं मया दत्तं मृदुलं मधुरं शुचिम् ।
देवार्हं स्वीकुरु स्वामिन् सम्पूर्णफलदो भव ॥
ओं श्री सूर्यनारायणाय नमः ऋतुफलं समर्पयामि ।

ताम्बूलम् –
नाभ्या॑ आसीद॒न्तरि॑क्षम् ।
शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिश॒: श्रोत्रा᳚त् ।
तथा॑ लो॒काग्ं अ॑कल्पयन् ॥
एलालवङ्गकर्पूरखदिरैश्च सपूगकैः ।
नागवल्लीदलैर्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ओं श्री सूर्यनारायणाय नमः ताम्बूलं समर्पयामि ।

नीराजनम् –
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ ।
आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीर॑: ।
नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚ ॥
पञ्चवर्तिसमायुक्तं सर्वमङ्गलदायकम् ।
नीराजनं गृहाणेदं सर्वसौख्यकरो भवः ॥
ओं श्री सूर्यनारायणाय नमः कर्पूर नीराजनं समर्पयामि ।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि ।

मन्त्रपुष्पम् –

[ विशेष मन्त्रपुष्पं पश्यतु ॥ ]

धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ ।
श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॒ अय॑नाय विद्यते ॥
ओं भा॒स्क॒राय॑ वि॒द्महे॑ महद्द्युतिक॒राय॑ धीमहि ।
तन्नो॑ आदित्यः प्रचो॒दया᳚त् ॥
चम्पकैः शतपत्रैश्च कल्हारैः करवीरकैः ।
पाटलैर्बकुलैर्युक्तं गृहाण कुसुमाञ्जलिम् ॥
ओं श्री सूर्यनारायणाय नमः सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि ।

प्रदक्षिण नमस्कारम् –
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि विनश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहि मां कृपया देव शरणागतवत्सला ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष जनार्दन ॥
ओं श्री सूर्यनारायणाय नमः प्रदक्षिण नमस्कारान् समर्पयामि ।

साष्टाङ्ग नमस्कारम् –
उद्यन्नद्यविवस्वानारोहन्नुत्तरां दिवं देवः ।
हृद्रोगं मम सूर्यो हरिमाणं चाऽऽशु नाशयतु ॥
ओं श्री सूर्यनारायणाय नमः साष्टाङ्ग नमस्कारान् समर्पयामि ।

द्वादशार्घ्याणि –
दिवाकर नमस्तुभ्यं पापं नाशय भास्कर ।
त्रयीमयाय विश्वात्मन् गृहाणार्घ्यं नमोऽस्तु ते ॥
सिन्दूरवर्णाय सुमण्डलाय
नमोऽस्तु वज्राभरणाय तुभ्यम् ।
पद्माभनेत्राय सुपङ्कजाय
ब्रह्मेन्द्रनारायणकारणाय ॥
सरक्तवर्णं ससुवर्णतोयं
सकुङ्कुमाद्यं सकुशं सपुष्पम् ।
प्रदत्तमादाय सहेमपात्रं
प्रशस्तमर्घ्यं भगवन् प्रसीद ॥

ओं मित्राय नमः इदमर्घ्यं समर्पयामि । १
ओं रवये नमः इदमर्घ्यं समर्पयामि । २
ओं सूर्याय नमः इदमर्घ्यं समर्पयामि । ३
ओं भानवे नमः इदमर्घ्यं समर्पयामि । ४
ओं खगाय नमः इदमर्घ्यं समर्पयामि । ५
ओं पूष्णे नमः इदमर्घ्यं समर्पयामि । ६
ओं हिरण्यगर्भाय नमः इदमर्घ्यं समर्पयामि । ७
ओं मरीचये नमः इदमर्घ्यं समर्पयामि । ८
ओं आदित्याय नमः इदमर्घ्यं समर्पयामि । ९
ओं सवित्रे नमः इदमर्घ्यं समर्पयामि । १०
ओं अर्काय नमः इदमर्घ्यं समर्पयामि । ११
ओं भास्कराय नमः इदमर्घ्यं समर्पयामि ॥ १२

प्रार्थन –
विनतातनयो देवः सर्वसाक्षी जगत्पतिः ।
सप्ताश्वः सप्तरज्जुश्च अरुणो मे प्रसीदतु ॥
नमः पङ्कजहस्ताय नमः पङ्कजमालिने
नमः पङ्कजनेत्राय भास्कराय नमो नमः ।
नमस्ते पद्महस्ताय नमस्ते वेदमूर्तये
नमस्ते देवदेवेश नमस्ते सर्वकामद ॥

क्षमा प्रार्थन –
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥
अज्ञानाद्वा प्रमादाद्वा वैकल्यात्साधनस्य वा ।
यन्न्यूनमतिरिक्तं च तत्सर्वं क्षन्तुमर्हसि ॥
यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥

समर्पण –
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामि ॥

अनेन मया कृत पुरुषसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजनेन सपरिवार समेत पद्मिनी उषा छाया समेत श्री सवितृ सूर्यनारायण स्वामि सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥

तीर्थप्रसाद ग्रहणम् –
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्री सूर्यनारायण पादोदकं पावनं शुभम् ॥
ओं श्री सूर्यनारायणाय नमः प्रसादं शिरसा गृह्णामि ।

ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments