Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ईश्वर उवाच ।
अथ वक्ष्ये महेशानि कवचं सर्वकामदम् ।
यस्य विज्ञानमात्रेण भवेत्साक्षात्सदाशिवः ॥ १ ॥
नार्चनं तस्य देवेशि मन्त्रमात्रं जपेन्नरः ।
स भवेत्पार्वतीपुत्रः सर्वशास्त्रेषु पारगः ।
विद्यार्थिना सदा सेव्या विशेषे विष्णुवल्लभा ॥ २ ॥
अस्याश्चतुरक्षरिविष्णुवनितारूपायाः कवचस्य श्रीभगवान् शिव ऋषिरनुष्टुप्छन्दो, वाग्भवी देवता, वाग्भवं बीजं, लज्जा शक्तिः, रमा कीलकं, कामबीजात्मकं कवचं, मम सुपाण्डित्य कवित्व सर्वसिद्धिसमृद्धये जपे विनियोगः ॥
अथ कवचम् ।
ऐङ्कारी मस्तके पातु वाग्भवी सर्वसिद्धिदा ।
ह्रीं पातु चक्षुषोर्मध्ये चक्षुर्युग्मे च शाङ्करी ॥ १ ॥
जिह्वायां मुखवृत्ते च कर्णयोर्गण्डयोर्नसि ।
ओष्ठाधरे दन्तपङ्क्तौ तालुमूले हनौ पुनः ॥ २ ॥
पातु मां विष्णुवनिता लक्ष्मीः श्रीवर्णरूपिणी ।
कर्णयुग्मे भुजद्वन्द्वे स्तनद्वन्द्वे च पार्वती ॥ ३ ॥
हृदये मणिबन्धे च ग्रीवायां पार्श्वयोः पुनः ।
सर्वाङ्गे पातु कामेशी महादेवी समुन्नतिः ॥ ४ ॥
व्युष्टिः पातु महामाया उत्कृष्टिः सर्वदाऽवतु ।
सन्धिं पातु सदा देवी सर्वत्र शम्भुवल्लभा ॥ ५ ॥
वाग्भवी सर्वदा पातु पातु मां हरिगेहिनी ।
रमा पातु सदा देवी पातु माया स्वराट् स्वयम् ॥ ६ ॥
सर्वाङ्गे पातु मां लक्ष्मीर्विष्णुमाया सुरेश्वरी ।
विजया पातु भवने जया पातु सदा मम ॥ ७ ॥
शिवदूती सदा पातु सुन्दरी पातु सर्वदा ।
भैरवी पातु सर्वत्र भैरुण्डा सर्वदाऽवतु ॥ ८ ॥
त्वरिता पातु मां नित्यमुग्रतारा सदाऽवतु ।
पातु मां कालिका नित्यं कालरात्रिः सदाऽवतु ॥ ९ ॥
नवदुर्गा सदा पातु कामाख्या सर्वदाऽवतु ।
योगिन्यः सर्वदा पान्तु मुद्राः पान्तु सदा मम ॥ १० ॥
मातरः पान्तु देव्यश्च चक्रस्था योगिनीगणाः ।
सर्वत्र सर्वकार्येषु सर्वकर्मसु सर्वदा ॥ ११ ॥
पातु मां देवदेवी च लक्ष्मीः सर्वसमृद्धिदा ।
इति ते कथितं दिव्यं कवचं सर्वसिद्धये ॥ १२ ॥
यत्र तत्र न वक्तव्यं यदीच्छेदात्मनो हितम् ।
शठाय भक्तिहीनाय निन्दकाय महेश्वरि ॥ १३ ॥
न्यूनाङ्गे अतिरिक्ताङ्गे दर्शयेन्न कदाचन ।
न स्तवं दर्शयेद्दिव्यं सन्दर्श्य शिवहा भवेत् ॥ १४ ॥
कुलीनाय महोच्छ्राय दुर्गाभक्तिपराय च ।
वैष्णवाय विशुद्धाय दद्यात्कवचमुत्तमम् ॥ १५ ॥
निजशिष्याय शान्ताय धनिने ज्ञानिने तथा ।
दद्यात्कवचमित्युक्तं सर्वतन्त्रसमन्वितम् ॥ १६ ॥
विलिख्य कवचं दिव्यं स्वयम्भुकुसुमैः शुभैः ।
स्वशुक्रैः परशुक्रैश्च नानागन्धसमन्वितैः ॥ १७ ॥
गोरोचनाकुङ्कुमेन रक्तचन्दनकेन वा ।
सुतिथौ शुभयोगे वा श्रवणायां रवेर्दिने ॥ १८ ॥
अश्विन्यां कृत्तिकायां वा फल्गुन्यां वा मघासु च ।
पूर्वभाद्रपदायोगे स्वात्यां मङ्गलवासरे ॥ १९ ॥
विलिखेत् प्रपठेत् स्तोत्रं शुभयोगे सुरालये ।
आयुष्मत्प्रीतियोगे च ब्रह्मयोगे विशेषतः ॥ २० ॥
इन्द्रयोगे शुभयोगे शुक्रयोगे तथैव च ।
कौलवे बालवे चैव वणिजे चैव सत्तमः ॥ २१ ॥
शून्यागारे श्मशाने वा विजने च विशेषतः ।
कुमारीं पूजयित्वादौ यजेद्देवीं सनातनीम् ॥ २२ ॥
मत्स्यमांसैः शाकसूपैः पूजयेत्परदेवताम् ।
घृताद्यैः सोपकरणैः पूपसूपैर्विशेषतः ॥ २३ ॥
ब्राह्मणान्भोजायित्वादौ प्रीणयेत्परमेश्वरीम् ।
बहुना किमिहोक्तेन कृते त्वेवं दिनत्रयम् ॥ २४ ॥
तदाधरेन्महारक्षां शङ्करेणाभिभाषितम् ।
मारणद्वेषणादीनि लभते नात्र संशयः ॥ २५ ॥
स भवेत्पार्वतीपुत्रः सर्वशास्त्रविशारदः ।
गुरुर्देवो हरः साक्षात्पत्नी तस्य हरप्रिया ॥ २६ ॥
अभेदेन भजेद्यस्तु तस्य सिद्धिरदूरतः ।
सर्वदेवमयीं देवीं सर्वमन्त्रमयीं तथा ॥ २७ ॥
सुभक्त्या पूजयेद्यस्तु स भवेत्कमलाप्रियः ।
रक्तपुष्पैस्तथा गन्धैर्वस्त्रालङ्करणैस्तथा ॥ २८ ॥
भक्त्या यः पूजयेद्देवीं लभते परमां गतिम् ।
नारी वा पुरुषो वापि यः पठेत्कवचं शुभम् ।
मन्त्रसिद्धिः कार्यसिद्धिर्लभते नात्र संशयः ॥ २९ ॥
पठति य इह मर्त्यो नित्यमार्द्रान्तरात्मा
जपफलमनुमेयं लप्स्यते यद्विधेयम् ।
स भवति पदमुच्चैः सम्पदां पादनम्रः
क्षितिपमुकुटलक्ष्मीर्लक्षणानां चिराय ॥ ३० ॥
इति श्रीविश्वसारतन्त्रोक्तं चतुरक्षरी विष्णुवनिता कवचं नाम श्री कमला कवचम् ।
इतर दशमहाविद्या स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.