Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ध्यानम् ।
शतमखमणि नीला चारुकल्हारहस्ता
स्तनभरनमिताङ्गी सान्द्रवात्सल्यसिन्धुः ।
अलकविनिहिताभिः स्रग्भिराकृष्टनाथा
विलसतु हृदि गोदा विष्णुचित्तात्मजा नः ॥
अथ स्तोत्रम् ।
श्रीरङ्गनायकी गोदा विष्णुचित्तात्मजा सती ।
गोपीवेषधरा देवी भूसुता भोगशालिनी ॥ १ ॥
तुलसीकाननोद्भूता श्रीधन्विपुरवासिनी ।
भट्टनाथप्रियकरी श्रीकृष्णहितभोगिनी ॥ २ ॥
आमुक्तमाल्यदा बाला रङ्गनाथप्रिया परा ।
विश्वम्भरा कलालापा यतिराजसहोदरी ॥ ३ ॥
कृष्णानुरक्ता सुभगा सुलभश्रीः सुलक्षणा ।
लक्ष्मीप्रियसखी श्यामा दयाञ्चितदृगञ्चला ॥ ४ ॥
फल्गुन्याविर्भवा रम्या धनुर्मासकृतव्रता ।
चम्पकाशोकपुन्नागमालतीविलसत्कचा ॥ ५ ॥
आकारत्रयसम्पन्ना नारायणपदाश्रिता ।
श्रीमदष्टाक्षरीमन्त्रराजस्थितमनोरथा ॥ ६ ॥
मोक्षप्रदाननिपुणा मनुरत्नाधिदेवता ।
ब्रह्मण्या लोकजननी लीलामानुषरूपिणी ॥ ७ ॥
ब्रह्मज्ञानप्रदा माया सच्चिदानन्दविग्रहा ।
महापतिव्रता विष्णुगुणकीर्तनलोलुपा ॥ ८ ॥
प्रपन्नार्तिहरा नित्या वेदसौधविहारिणी ।
श्रीरङ्गनाथमाणिक्यमञ्जरी मञ्जुभाषिणी ॥ ९ ॥
पद्मप्रिया पद्महस्ता वेदान्तद्वयबोधिनी ।
सुप्रसन्ना भगवती श्रीजनार्दनदीपिका ॥ १० ॥
सुगन्धावयवा चारुरङ्गमङ्गलदीपिका ।
ध्वजवज्राङ्कुशाब्जाङ्कमृदुपादलताञ्चिता ॥ ११ ॥
तारकाकारनखरा प्रवालमृदुलाङ्गुली ।
कूर्मोपमेयपादोर्ध्वभागा शोभनपार्ष्णिका ॥ १२ ॥
वेदार्थभावतत्त्वज्ञा लोकाराध्याङ्घ्रिपङ्कजा ।
आनन्दबुद्बुदाकारसुगुल्फा परमाणुका ॥ १३ ॥
तेजःश्रियोज्ज्वलधृतपादाङ्गुलिसुभूषिता ।
मीनकेतनतूणीरचारुजङ्घाविराजिता ॥ १४ ॥
ककुद्वज्जानुयुग्माढ्या स्वर्णरम्भाभसक्थिका ।
विशालजघना पीनसुश्रोणी मणिमेखला ॥ १५ ॥
आनन्दसागरावर्तगम्भीराम्भोजनाभिका ।
भास्वद्वलित्रिका चारुजगत्पूर्णमहोदरी ॥ १६ ॥
नववल्लीरोमराजी सुधाकुम्भायितस्तनी ।
कल्पमालानिभभुजा चन्द्रखण्डनखाञ्चिता ॥ १७ ॥
सुप्रवाशाङ्गुलीन्यस्तमहारत्नाङ्गुलीयका ।
नवारुणप्रवालाभपाणिदेशसमञ्चिता ॥ १८ ॥
कम्बुकण्ठी सुचुबुका बिम्बोष्ठी कुन्ददन्तयुक् ।
कारुण्यरसनिष्यन्दनेत्रद्वयसुशोभिता ॥ १९ ॥
मुक्ताशुचिस्मिता चारुचाम्पेयनिभनासिका ।
दर्पणाकारविपुलकपोलद्वितयाञ्चिता ॥ २० ॥
अनन्तार्कप्रकाशोद्यन्मणिताटङ्कशोभिता ।
कोटिसूर्याग्निसङ्काशनानाभूषणभूषिता ॥ २१ ॥
सुगन्धवदना सुभ्रू अर्धचन्द्रललाटिका ।
पूर्णचन्द्रानना नीलकुटिलालकशोभिता ॥ २२ ॥
सौन्दर्यसीमा विलसत्कस्तूरीतिलकोज्ज्वला ।
धगद्धगायमानोद्यन्मणिसीमन्तभूषणा ॥ २३ ॥
जाज्वल्यमानसद्रत्नदिव्यचूडावतंसका ।
सूर्यार्धचन्द्रविलसत् भूषणाञ्चितवेणिका ॥ २४ ॥
अत्यर्कानलतेजोधिमणिकञ्चुकधारिणी ।
सद्रत्नाञ्चितविद्योतविद्युत्कुञ्जाभशाटिका ॥ २५ ॥
नानामणिगणाकीर्णहेमाङ्गदसुभूषिता ।
कुङ्कुमागरुकस्तूरीदिव्यचन्दनचर्चिता ॥ २६ ॥
स्वोचितौज्ज्वल्यविविधविचित्रमणिहारिणी ।
असङ्ख्येयसुखस्पर्शसर्वातिशयभूषणा ॥ २७ ॥
मल्लिकापारिजातादिदिव्यपुष्पस्रगञ्चिता ।
श्रीरङ्गनिलया पूज्या दिव्यदेशसुशोभिता ॥ २८ ॥
इति श्रीगोदाष्टोत्तरशतनामस्तोत्रम् ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.