Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पुष्णन् देवानमृतविसरैरिन्दुमास्राव्य सम्यग्
भाभिः स्वाभी रसयति रसं यः परं नित्यमेव ।
क्षीणं क्षीणं पुनरपि च तं पूरयत्येवमीदृग्
दोलालीलोल्लसितहृदयं नौमि चिद्भानुमेकम् ॥
शब्दार्थत्वविवर्तमानपरमज्योतीरुचो गोपते-
-रुद्गीथोऽभ्युदितः पुरोऽरुणतया यस्य त्रयीमण्डलम् ।
भास्यद्वर्णपदक्रमेरिततमः सप्तस्वराश्वैर्विय-
-द्विद्यास्यन्दनमुन्नयन्निव नमस्तस्मै परब्रह्मणे ॥ १ ॥
ओमित्यन्तर्नदति नियतं यः प्रतिप्राणि शब्दो
वाणी यस्मात्प्रसरति परा शब्दतन्मात्रगर्भा ।
प्राणापानौ वहति च समौ यो मिथो ग्राससक्तौ
देहस्थं तं सपदि परमादित्यमाद्यं प्रपद्ये ॥ २ ॥
यस्त्वक्चक्षुःश्रवणरसनाघ्राणपाण्यङ्घ्रिवाणी-
-पायूपस्थस्थितिरपि मनोबुद्ध्यहङ्कारमूर्तिः ।
तिष्ठत्यन्तर्बहिरपि जगद्भासयन्द्वादशात्मा
मार्तण्डं तं सकलकरणाधारमेकं प्रपद्ये ॥ ३ ॥
या सा मित्रावरुणसदनादुच्चरन्तो त्रिषष्टिं
वर्णानत्र प्रकटकरणैः प्राणसङ्गात्प्रसूतान् ।
तां पश्यन्तीं प्रथममुदितां मध्यमां बुद्धिसंस्थां
वाचं वक्त्रे करणविशदां वैखरीं च प्रपद्ये ॥ ४ ॥
ऊर्ध्वाधःस्थान्यतनुभुवनान्यन्तरा संनिविष्टा
नानानाडिप्रसवगहना सर्वभूतान्तरस्था ।
प्राणापानग्रसननिरतैः प्राप्यते ब्रह्मनाडी
सा नः श्वेता भवतु परमादित्यमूर्तिः प्रसन्ना ॥ ५ ॥
न ब्रह्माण्डव्यवहितपथा नातिशीतोष्णरूपा
नो वा नक्तंदिवगममिताऽतापनीयापराहुः ।
वैकुण्ठीया तनुरिव रवे राजते मण्डलस्था
सा नः श्वेता भवतु परमादित्यमूर्तिः प्रसन्ना ॥ ६ ॥
यत्रारूढं त्रिगुणवपुषि ब्रह्म तद्बिन्दुरूपं
योगीन्द्राणां यदपि परमं भाति निर्वाणमार्गः ।
त्रय्याधारः प्रणव इति यन्मण्डलं चण्डरश्मे-
-रन्तः सूक्ष्मं बहिरपि बृहन्मुक्तयेऽहं प्रपन्नः ॥ ७ ॥
यस्मिन्सोमः सुरपितृनरैरन्वहं पीयमानः
क्षीणः क्षीणः प्रविशति यतो वर्धते चापि भूयः ।
यस्मिन्वेदा मधुनि सरघाकारवद्भान्ति चाग्रे
तच्चण्डांशोरमितममृतं मण्डलस्थं प्रपद्ये ॥ ८ ॥
ऐन्द्रीमाशां पृथुकवपुषा पूरयित्वा क्रमेण
क्रान्ताः सप्त प्रकटहरिणा येन पादेन लोकाः ।
कृत्वा ध्वान्तं विगलितबलिव्यक्ति पाताललीनं
विश्वालोकः स जयति रविः सत्त्वमेवोर्ध्वरश्मिः ॥ ९ ॥
ध्यात्वा ब्रह्म प्रथममतनु प्राणमूले नदन्तं
दृष्ट्वा चान्तः प्रणवमुखरं व्याहृतीः सम्यगुक्त्वा ।
यत्तद्वेदे तदिति सवितुर्ब्रह्मणोक्तं वरेण्यं
तद्भर्गाख्यं किमपि परमं धामगर्भं प्रपद्ये ॥ १० ॥
त्वां स्तोष्यामि स्तुतिभिरिति मे यस्तु भेदग्रहोऽयं
सैवाविद्या तदपि सुतरां तद्विनाशाय युक्तः ।
स्तौम्येवाहं त्रिविधमुदितं स्थूलसूक्ष्मं परं वा
विद्योपायः पर इति बुधैर्गीयते खल्वविद्या ॥ ११ ॥
योऽनाद्यन्तोऽप्यतनुरगुणोऽणोरणीयान्महीया-
-न्विश्वाकारः सगुण इति वा कल्पनाकल्पिताङ्गः ।
नानाभूतप्रकृतिविकृतीर्दर्शयन्भाति यो वा
तस्मै तस्मै भवतु परमादित्य नित्यं नमस्ते ॥ १२ ॥
तत्त्वाख्याने त्वयि मुनिजनाः नेति नेति ब्रुवन्तः
श्रान्ताः सम्यक्त्वमिति न च तैरीदृशो वेति चोक्तः ।
तस्मात्तुभ्यं नम इति वचोमात्रमेवास्मि वच्मि
प्रायो यस्मात्प्रसरति तरां भारती ज्ञानगर्भा ॥ १३ ॥
सर्वाङ्गीणः सकलवपुषामन्तरे योऽन्तरात्मा
तिष्ठन्काष्ठे दहन इव नो दृश्यसे युक्तिशून्यैः ।
यश्च प्राणारणिषु नियतैर्मथ्यमानासु सद्भि-
-र्दृश्यं ज्योतिर्भवसि परमादित्य तस्मै नमस्ते ॥ १४ ॥
स्तोता स्तुत्यः स्तुतिरिति भवान्कर्तृकर्मक्रियात्मा
क्रीडत्येकस्तव नुतिविधावस्वतन्त्रस्ततोऽहम् ।
यद्वा वच्मि प्रणयसुभगं गोपते तच्च तथ्यं
त्वत्तो ह्यन्यत्किमिव जगतां विद्यते तन्मृषा स्यात् ॥ १५ ॥
ज्ञानं नान्तःकरणरहितं विद्यतेऽस्मद्विधानां
त्वं चात्यन्तं सकलकरणागोचरत्वादचिन्त्यः ।
ध्यानातीतस्त्वमिति न विना भक्तियोगेन लभ्य-
-स्तस्माद्भक्तिं शरणममृतप्राप्तयेऽहं प्रपन्नः ॥ १६ ॥
हार्दं हन्ति प्रथममुदिता या तमः संश्रितानां
सत्त्वोद्रेकात्तदनु च रजः कर्मयोगक्रमेण ।
स्वभ्यस्ता च प्रथयतितरां सत्त्वमेव प्रपन्ना
निर्वाणाय व्रजति शमिनां तेऽर्क भक्तिस्त्रयीव ॥ १७ ॥
तामासाद्य श्रियमिव गृहे कामधेनुं प्रवासे
ध्वान्ते भातिं धृतिमिव वने योजने ब्रह्मनाडिम् ।
नावं चास्मिन्विषमविषयग्राहसंसारसिन्धौ
गच्छेयं ते परमममृतं यन्न शीतं न चोष्णम् ॥ १८ ॥
अग्नीषोमावखिलजगतः कारणं तौ मयूखैः
सर्गादाने सृजसि भगवन्ह्रासवृद्धिक्रमेण ।
तावेवान्तर्विषुवति समौ जुह्वतामात्मवह्नौ
द्वावप्यस्तं नयसि युगपन्मुक्तये भक्तिभाजाम् ॥ १९ ॥
स्थूलत्वं ते प्रकृतिगहनं नैव लक्ष्यं ह्यनन्तं
सूक्ष्मत्वं वा तदपि सदसद्व्यक्त्यभावादचिन्त्यम् ।
ध्यायामीत्थं कथमविदितं त्वामनाद्यन्तमन्त-
-स्तस्मादर्क प्रणयिनि मयि स्वात्मनैव प्रसीद ॥ २० ॥
यत्तद्वेद्यं किमपि परमं शब्दतत्त्वं त्वमन्त-
-स्तत्सद्व्यक्तिं जिगमिषु शनैर्लाति मात्रा कलाः खे ।
अव्यक्तेन प्रणववपुषा बिन्दुनादोदितं स-
-च्छब्दब्रह्मोच्चरति करणव्यञ्जितं वाचकं ते ॥ २१ ॥
प्रातःसन्ध्यारुणकिरणभागृङ्मयं राजसं य-
-न्मध्ये चापि ज्वलदिव यजुः शुक्लभाः सात्त्विकं वा ।
सायं सामास्तमितकिरणं यत्तमोल्लासि रूपं
साह्नः सर्गस्थितिलयविधावाकृतिस्ते त्रयीव ॥ २२ ॥
ये पातालोदधिमुनिनगद्वीपलोकाधिबीज-
-च्छन्दोभूतस्वरमुखनदत्सप्तसप्तिं प्रपन्नाः ।
ये चैकाश्वं निरवयववाग्भावमात्राधिरूढं
ते त्वामेव स्वरगुणकलावर्जितं यान्त्यनश्वम् ॥ २३ ॥
दिव्यं ज्योतिः सलिलपवनैः पूरयित्वा त्रिलोकी-
-मेकीभूतं पुनरपि च तत्सारमादाय गोभिः ।
अन्तर्लीनो विशसि वसुधां तद्गतः सूयसेऽन्नं
तच्च प्राणांस्त्वमिति जगतां प्राणभृत्सूर्य आत्मा ॥ २४ ॥
अग्नीषोमौ प्रकृतिपुरुषौ बिन्दुनादौ च नित्यौ
प्राणापानावपि दिननिशे ये च सत्यानृते द्वे ।
धर्माधर्मौ सदसदुभयं योऽन्तरावेश्य योगी
वर्तेतात्मन्युपरतमतिर्निर्गुणं त्वां विशेत्सः ॥ २५ ॥
गर्भाधानप्रसवविधये सुप्तयोरिन्दुभासा
सापत्न्येनाभिमुखमिव खे कान्तयोर्मध्यसंस्थः ।
द्यावापृथ्व्योर्वदनकमले गोमुखैर्बोधयित्वा
पर्यायेणापिबसि भगवन् षड्रसास्वादलोलः ॥ २६ ॥
सोमं पूर्णामृतमिव चरुं तेजसा साधयित्वा
कृत्वा तेनानलमुखजगत्तर्पर्णं वैश्वदेवम् ।
आमावस्यं विघसमिव खे तत्कलाशेषमश्नन्
ब्रह्माण्डान्तर्गृहपतिरिव स्वात्मयागं करोषि ॥ २७ ॥
कृत्वा नक्तंदिनमिव जगद्बीजमाव्यक्तिकं य-
-त्तत्रैवान्तर्दिनकर तथा ब्राह्ममन्यत्ततोऽल्पम् ।
दैवं पित्र्यं क्रमपरिगतं मानुषं चाल्पमल्पं
कुर्वन्ककुर्वन्कलयसि जगत्पञ्चधावर्तनाभिः ॥ २८ ॥
तत्त्वालोके तपन सुदिने ये परं सम्प्रबुद्धाः
ये वा चित्तोपशमरजनीयोगनिद्रामुपेताः ।
तेऽहोरात्रोपरमपरमानन्दसन्ध्यासु सौरं
भित्त्वा ज्योतिः परमपरमं यान्ति निर्वाणसञ्ज्ञम् ॥ २९ ॥
आब्रह्मेदं नवमिव जगज्जङ्गमस्थावरान्तं
सर्गे सर्गे विसृजसि रवे गोभिरुद्रिक्तसोमैः ।
दीप्तैः प्रत्याहरसि च लये तद्यथायोनि भूयः
सर्गान्तादौ प्रकटविभवां दर्शयन्रश्मिलीलाम् ॥ ३० ॥
श्रित्वा नित्योपचितमुचितं ब्रह्मतेजः प्रकाशं
रूपं सर्गस्थितिलयमुचा सर्वभूतेषु मध्ये ।
अन्तेवासिष्विव सुगुरुणा यः परोक्षः प्रकृत्या
प्रत्यक्षोऽसौ जगति भवता दर्शितः स्वात्मनात्मा ॥ ३१ ॥
लोकाः सर्वे वपुषि नियतं ते स्थितास्त्वं च तेषा-
-मेकैकस्मिन्युगपदगुणो विश्वहेतोर्गुणीव ।
इत्थम्भूते भवति भगवन्न त्वदन्योऽस्मि सत्यं
किं तु ज्ञस्त्वं परमपुरुषोऽहं प्रकृत्यैव चाज्ञः ॥ ३२ ॥
सङ्कल्पेच्छाद्यखिलकरणप्राणवाण्यो वरेण्याः
सम्पन्ना मे त्वदभिनवनाज्जन्म चेदं शरण्यम् ।
मन्ये चास्तं जिगमिषु शनैः पुण्यपापद्वयं त-
-द्भक्तिश्रद्धे तव चरणयोरन्यथा नो भवेताम् ॥ ३३ ॥
सत्यं भूयो जननमरणे त्वत्प्रपन्नेषु न स्त-
-स्तत्राप्येकं तव नुतिफलं जन्म याचे तदित्थम् ।
त्रैलोक्येशः शम इव परः पुण्यकायोऽप्ययोनिः
संसाराब्धौ प्लव इव जगत्तारणाय स्थिरः स्याम् ॥ ३४ ॥
सौषुम्णेन त्वममृतपथेनैत्य शीतांशुभावं
पुष्णास्यग्रे सुरनरपितॄन् शान्तभाभिः कलाभिः ।
पश्चादम्भो विशसि विविधाश्चौषधीस्तद्गतोऽपि
प्रीणास्येवं त्रिभुवनमतस्ते जगन्मित्रतार्क ॥ ३५ ॥
मन्दाक्रान्ते तमसि भवता नाथ दोषावसाने
नान्तर्लीना मम मतिरियं गाढनिद्रां जहाति ।
तस्मादस्तङ्गमिततमसा पद्मिनीवात्मभासा
सौरीत्येषा दिनकर परं नीयतामाशु बोधम् ॥ ३६ ॥
येन ग्रासीकृतमिव जगत्सर्वमासीत्तदस्तं
ध्वान्तं नीत्वा पुनरपि विभो तद्दयाघ्रातचित्तः ।
धत्से नक्तंदिनमपि गती शुक्लकृष्णे विभज्य
त्राता तस्माद्भव परिभवे दुष्कृते मेऽपि भानो ॥ ३७ ॥
आसंसारोपचितसदसत्कर्मबन्धाश्रिताना-
-माधिव्याधिप्रजनमरणक्षुत्पिपासार्दितानाम् ।
मिथ्याज्ञानप्रबलतमसा नाथ चान्धीकृतानां
त्वं नस्त्राता भव करुणया यत्र तत्र स्थितानाम् ॥ ३८ ॥
सत्यासत्यस्खलितवचसां शौचलज्जोज्झिताना-
-मज्ञानानामफलसफलप्रार्थनाकातराणाम् ।
सर्वावस्थास्वखिलविषयाभ्यस्तकौतूहलानां
त्वं नस्त्राता भव पितृतया भोगलोलार्भकाणाम् ॥ ३९ ॥
यावद्देहं जरयति जरा नान्तकादेत्य दूती
नो वा भीमस्त्रिफणभुजगाकारदुर्वारपाशः ।
गाढं कण्ठे लगति सहसा जीवितं लेलिहान-
-स्तावद्भक्ताभयद सदयं श्रेयसे नः प्रसीद ॥ ४० ॥
विश्वप्राणग्रसनरसनाटोपकोपप्रगल्भं
मृत्योर्वक्त्रं दहननयनोद्दामदंष्ट्राकरालम् ।
यावदृष्ट्वा व्रजति न भिया पञ्चतामेष काय-
-स्तावन्नित्यामृतमय रवे पाहि नः कान्दिशीकान् ॥ ४१ ॥
शब्दाकारं वियदिव वपुस्ते यजुःसामधाम्नः
सप्तच्छन्दांस्यपि च तुरगा ऋङ्मयं मण्डलं च ।
एवं सर्वश्रुतिमयतया मद्दयानुग्रहाद्वा
क्षिप्रं मत्तः कृपणकरुणाक्रन्दमाकर्णयेमम् ॥ ४२ ॥
नाशं नास्मच्चरणशरणा यान्त्यपि ग्रस्यमाना
देवैरित्थं सितमिव यशो दर्शयन्स्वं त्रिलोक्याम् ।
मन्ये सोमं क्षततनुममागर्भवृद्ध्या विवस्वन्
शुक्लच्छायां नयसि शनकैः स्वां सुषुम्णांशुभासा ॥ ४३ ॥
आस्तां जन्मप्रभृति भवतः सेवनं तद्धि लोके
वाच्यं केनापरिमितफलं भुक्तिमुक्तिप्रकारम् ।
ज्योतिर्मात्रं स्मृतिपथमितो जीवितान्तेऽपि भास्व-
-न्निर्वाणाय प्रभवसि सतां तेन ते कः समोऽन्यः ॥ ४४ ॥
अप्रत्यक्षत्रिदशभजनाद्यत्परोक्षं फलं त-
-त्पुंसां युक्तं भवति हि समं कारणेनैव कार्यम् ।
प्रत्यक्षस्त्वं सकलजगतां यत्समक्षं फलं मे
युष्मद्भक्तेः समुचितमतस्तत्तु याचे यथा त्वाम् ॥ ४५ ॥
ये चारोग्यं दिशति भगवान्सेवितोऽप्येवमाहु-
-स्ते तत्त्वज्ञा जगति सुभगा भोगयोगप्रधानाः ।
भुक्तेर्मुक्तेरपि च जगतां यच्च पूर्णं सुखानां
तस्यान्योऽर्कादमृतवपुषः को हि नामास्तु दाता ॥ ४६ ॥
हित्वा हित्वा गुरुचपलतामप्यनेकान्निजार्था-
-न्यैरेकार्थीकृतमिव भवत्सेवनं मत्प्रियार्थम् ।
तेषामिच्छाम्युपकृतिमहं स्वेन्द्रियाणां प्रियाणा-
-मादौ तस्मान्मम दिनपते देहि तेभ्यः प्रसादम् ॥ ४७ ॥
किं तन्नामोच्चरति वचनं यस्य नोच्चारकस्त्वं
किं तद्वाच्यं सकलवचसां विश्वमूर्ते न यत्त्वम् ।
तस्मादुक्तं यदपि तदपि त्वन्नुतौ भक्तियोगा-
-दस्माभिस्तद्भवतु भगवंस्त्वत्प्रसादेन धन्यम् ॥ ४८ ॥
या पन्थानं दिशति शिशिराद्युत्तरं देवयानं
या वा कृष्णं पितृपथमथो दक्षिणं प्रावृडाद्यम् ।
ताभ्यामन्या विषुवदभिजिन्मध्यमा कृत्यशून्या
धन्या काश्चित्प्रकृतिपुरुषावन्तरा मेऽस्तु वृत्तिः ॥ ४९ ॥
स्थित्वा किञ्चिन्मन इव पिबन्सेतुबन्धस्य मध्ये
प्राप्योपेयं धृवपदमथो व्यक्तमुद्दाल्य तालु ।
सत्यादूर्ध्वं किमपि परमं व्योम सोमाग्निशून्यं
गच्छेयं त्वां सुरपितृगती चान्तरा ब्रह्मभूतः ॥ ५० ॥
सर्वात्मत्वं सवितुरिति यो वाङ्मनःकायबुद्ध्या
रागद्वेषोपशमसमतायोगमेवारुरुक्षुः ।
धर्माधर्मग्रसनरशनामुक्तये युक्तियुक्तां
स श्रीसाम्बः स्तुतिमिति रवेः स्वप्रशान्तां चकार ॥ ५१ ॥
भक्तिश्रद्धाद्यखिलतरुणीवल्लभेनेदमुक्तं
श्रीसाम्बेन प्रकटगहनं स्तोत्रमध्यात्मगर्भम् ।
यः सावित्रं पठति नियतं स्वात्मवत्सर्वलोका-
-न्पश्यन्सोऽन्ते व्रजति शुकवन्मण्डलं चण्डरश्मेः ॥ ५२ ॥
इति परमरहस्यश्लोकपञ्चाशदेषा
तपननवनपुण्या सागमब्रह्मचर्चा ।
हरतु दुरितमस्मद्वर्णिताकर्णिता वो
दिशतु च शुभसिद्धिं मातृवद्भक्तिभाजाम् ॥ ५३ ॥
श्रीस्वात्मसंविदभिन्नरूपशिवार्पणमस्तु ।
समाप्तं चेदं साम्बपञ्चाशिकाशास्त्रम् ॥
इति साम्बप्रणीता साम्बपञ्चाशिका सम्पूर्णा ॥
इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.