Site icon Stotra Nidhi

Narayaneeyam Dasakam 3 – नारायणीयम् तृतीयदशकम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

नारायणीयम् तृतीयदशकम् (३) – उत्तमभक्तस्य गुणाः (भक्तस्वरूप वर्णनम्)

पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः
स्मरन्तो रूपं ते वरद कथयन्तो गुणकथाः ।
चरन्तो ये भक्तास्त्वयि खलु रमन्ते परममू-
-नहं धन्यान् मन्ये समधिगतसर्वाभिलषितान् ॥ ३-१ ॥

गदक्लिष्टं कष्टं तव चरणसेवारसभरे-
-ऽप्यनासक्तं चित्तं भवति बत विष्णो कुरु दयाम् ।
भवत्पादाम्भोजस्मरणरसिको नामनिवहा-
-नहं गायं गायं कुहचन विवत्स्यामि विजने ॥ ३-२ ॥

कृपा ते जाता चेत् किमिव न हि लभ्यं तनुभृतां
मदीयक्लेशौघप्रशमनदशा नाम कियती ।
न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता
भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते ॥ ३-३ ॥

मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो
भवत् पादाम्भोजस्मरणविरुजो नारदमुखाः ।
चरन्तीश स्वैरं सततपरिनिर्भातपरचि-
-त्सदानन्दाद्वैतप्रसरपरिमग्नाः किमपरम् ॥ ३-४ ॥

भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये-
-दशेषक्लेशौघं न खलु हृदि सन्देहकणिका ।
न चेद्व्यासस्योक्तिस्तव च वचनं नैगमवचो
भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ॥ ३-५ ॥

भवद्भक्तिस्तावत् प्रमुखमधुरा त्वद्गुणरसात्
किमप्यारूढा चेदखिलपरितापप्रशमनी ।
पुनश्चान्ते स्वान्ते विमलपरिबोधोदयमिल-
-न्महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरम् ॥ ३-६ ॥

विधूय क्लेशान् मे कुरु चरणयुग्मं धृतरसं
भवत् क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ ।
भवन्मूर्त्यालोके नयनमथ ते पादतुलसी-
-परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥ ३-७ ॥

प्रभूताधिव्याधिप्रसभचलिते मामकहृदि
त्वदीयं तद्रूपं परमरसचिद्रूपमुदियात् ।
उदञ्चद्रोमाञ्चो गलितबहुहर्षाश्रुनिवहो
यथा विस्मर्यासं दुरुपशमपीडापरिभवान् ॥ ३-८ ॥

मरुद्गेहाधीश त्वयि खलु पराञ्चोऽपि सुखिनो
भवत् स्नेही सोऽहं सुबहु परितप्ये च किमिदम् ।
अकीर्तिस्ते मा भूद्वरद गदभारं प्रशमयन्
भवद्भक्तोत्तंसं झटिति कुरु मां कंसदमन ॥ ३-९ ॥

किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदिया-
-दहं तावद्देव प्रहितविविधार्तप्रलपितः ।
पुरः क्लुप्ते पादे वरद तव नेष्यामि दिवसान्
यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ॥ ३-१० ॥

इति तृतीयदशकं समाप्तम् ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments