Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अथ हैनं ब्रह्मरन्ध्रे ब्रह्मस्वरूपिणीमाप्नोति । सुभगां त्रिगुणितां मुक्तासुभगां कामरेफेन्दिरां समस्तरूपिणीमेतानि त्रिगुणितानि तदनु कूर्चबीजं व्योमषष्ठस्वरां बिन्दुमेलनरूपां तद्द्वयं मायाद्वयं दक्षिणे कालिके चेत्यभिमुखगतां तदनु बीजसप्तकमुच्चार्य बृहद्भानुजायामुच्चरेत् । स तु शिवमयो भवेत् । सर्वसिद्धीश्वरो भवेत् । गतिस्तस्यास्तीति । नान्यस्य गतिरस्ताति । स तु वागीश्वरः । स तु नारीश्वरः । स तु देवेश्वरः । स तु सर्वेश्वरः । अभिनवजलदसङ्काशा घनस्तनी कुटिलदंष्ट्रा शवासना कालिका ध्येया । त्रिकोणं पञ्चकोणं नवकोणं पद्मम् । तस्मिन् देवी सर्वाङ्गेऽभ्यर्च्य तदिदं सर्वाङ्गं ओं काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी विप्रचित्ता उग्रा उग्रप्रभा दीप्ता नीला घना बलाका मात्रा मुद्राऽमिता चैव पञ्चदशकोणगाः । ब्राह्मी नारायणी माहेश्वरी कौमारी अपराजिता वाराही नारसिंहिका चेत्यष्टपत्रगाः । षोडशस्वरभेदेन प्रथमेन मन्त्रविभागः । तन्मूलेनावाहनं तेनैव पूजनम् । य एवं मन्त्रराजं नियमेन वा लक्षमावर्तयति स पाप्मानं हन्ति । स ब्रह्मत्वं भजति । सः अमृतत्वं भजति । स आयुरारोग्यमैश्वर्यं भजति । सदा पञ्चमकारेण पूजयेत् । सदा गुरुभक्तो भवेत् । सदा देवभक्तो भवेत् । धर्मिष्ठतां पुष्टिमहतवाचं विप्रा लभन्ते । मन्त्रजापिनो ह्यात्मा विद्याप्रपूरितो भवति । स जीवन्मुक्तो भवति । स सर्वशास्त्रं जानाति । स सर्वपुण्यकारी भवति । स सर्वयज्ञयाजी भवति । राजानो दासतां यान्ति । जप्त्वा स सर्वमेतं मन्त्रराजं स्वयं शिव एवाहमित्यणिमादिविभूतीनामीश्वरः कालिकां लभेत् ॥
आवयोः पात्रभूतः सन् सुकृती त्यक्तकल्मषः ।
जीवन्मुक्तः स विज्ञेयो यस्मै लब्धा हि दक्षिणा ॥
दशांशं होमयेत्तदनु तर्पयेत् । अथ हैके यज्ञान् कामानद्वैतज्ञानादीननिरुद्धसरस्वतीति । अथ हैषः कालिकामनुजापी यः सदा शुद्धात्मा ज्ञानवैराग्ययुक्तः शाम्भवीदीक्षासु रक्तः शाक्तासु । यदि वा ब्रह्मचारी रात्रौ नग्नः सर्वदा मधुनाऽशक्तो मनसा जपपूजादिनियमवान् । योषित्प्रियकरो भगोदकेन तर्पणं तेनैव पूजनं कुर्यात् । सर्वदा कालिकारूपमात्मानं विभावयेत् । स सर्वदा योषिदासक्तो भवेत् । स सर्वहत्यां तरति तेन मधुदानेन । अथ पञ्चमकारेण सर्वमायादिविद्यां पशुधनधान्यं सर्वेशत्वं च कवित्वं च । नान्यः परमः पन्था विद्यते मोक्षाय ज्ञानाय धर्माधर्माय । तत्सर्वं भूतं भव्यं यत्किञ्चिद्दृश्यमानं स्थावरजङ्गमं तत्सर्वं कालिकातन्त्रे ओतं प्रोतं वेद । य एवं मनुजापी स पाप्मानं तरति । स भ्रूणहत्यां तरति । सोऽगम्यागमनं तरति । स सर्वसुखमाप्नोति । स सर्वं जानाति । स सर्वसंन्यासी भवति । स विरक्तो भवति । स सर्ववेदाध्यायी भवति । स सर्वमन्त्रजापी भवति । स सर्वशास्रवेत्ता भवति । स सर्वज्ञानकारी भवति । स आवयोर्मित्रभूतो भवति । इत्याह भगवान् शिवः । निर्विकल्पेन मनसा स वन्द्यो भवति ॥
अथ हैनाम् ।
मूलाधारे स्मरेद्दिव्यं त्रिकोणं तेजसां निधिम् ।
शिखा आनीय तस्याग्नेरथ तूर्ध्वं व्यवस्थिता ॥
नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा ।
नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ॥
तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः ।
स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ॥
स एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः ।
इति कुण्डलिनीं ध्यात्वा सर्वपापैः प्रमुच्यते ॥
महापातकेभ्यः पूतो भूत्वा सर्वमन्त्रसिद्धिं कृत्वा भैरवो भवेत् । महाकालभैरवोऽस्य ऋषिः । उष्णिक् छन्दः कालिका देवता । ह्रीं बीजं ह्रूं शक्तिः क्रीं कीलकं अनिरुद्धसरस्वती देवता । कवित्वे पाण्डित्यार्थे जपे विनियोगः । इत्येवमृषिच्छन्दोदैवतं ज्ञात्वा मन्त्र साफल्यमश्नुते । अथर्वविद्यां प्रथममेकं द्वयं त्रयं वा नामद्वयसम्पुटितं कृत्वा योजयेत् । गतिस्तस्यास्तीति । नान्यस्य गतिरस्तीति । ओं सत्यम् । ओं तत्सत् ॥
अथ हैनं गुरुं परितोष्यैनं मन्त्रराजं गृह्णीयात् । मन्त्रराजं गुरुस्तमपि शिष्याय सत्कुलीनाय विद्याभक्ताय सुवेषां स्त्रियं स्पृष्ट्वा स्वयं निशायां निरुपद्रवः परिपूज्य एकाकी शिवगेहे लक्षं तदर्धं वा जपित्वा दद्यात् । ओं ओं ओं सत्यं सत्यं सत्यम् । नान्यप्रकारेण सिद्धिर्भवति । अथाह वै कालिकामनोस्तारामनोस्त्रिपुरामनोः सर्वदुर्गामनोर्वा स्वरूपसिद्धिरेवमिति शिवम् ॥
इत्याथर्वणे सौभाग्यकाण्डे कालिकोपनिषत् समाप्ता ।
इतर श्री कालिका स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.