Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं ।
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥ १ ॥
त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।
तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ २ ॥
कोटि कन्या महादानं तिलपर्वत कोटयः ।
काञ्चनं शैलदानेन एकबिल्वं शिवार्पणम् ॥ ३ ॥
काशीक्षेत्र निवासं च कालभैरव दर्शनं ।
प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥ ४ ॥
इन्दुवारे व्रतं स्थित्वा निराहारो महेश्वराः ।
नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणम् ॥ ५ ॥
रामलिङ्ग प्रतिष्ठा च वैवाहिक कृतं तधा ।
तटाकानिच सन्तानं एकबिल्वं शिवार्पणम् ॥ ६ ॥
अखण्ड बिल्वपत्रं च आयुतं शिवपूजनं ।
कृतं नाम सहस्रेण एकबिल्वं शिवार्पणम् ॥ ७ ॥
उमया सहदेवेश नन्दि वाहनमेव च ।
भस्मलेपन सर्वाङ्गं एकबिल्वं शिवार्पणम् ॥ ८ ॥
सालग्रामेषु विप्राणां तटाकं दशकूपयोः ।
यज्ञकोटि सहस्रस्य एकबिल्वं शिवार्पणम् ॥ ९ ॥
दन्ति कोटि सहस्रेषु अश्वमेध शतक्रतौ ।
कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥ १० ॥
बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापानाशनं ।
अघोर पापसंहारं एकबिल्वं शिवार्पणम् ॥ ११ ॥
सहस्रवेद पाठेषु ब्रह्मस्तापन मुच्यते ।
अनेक व्रतकोटीनां एकबिल्वं शिवार्पणम् ॥ १२ ॥
अन्नदान सहस्रेषु सहस्रोपनयनं तधा ।
अनेक जन्मपापानि एकबिल्वं शिवार्पणम् ॥ १३ ॥
बिल्वष्टकमिदं पुण्यं यः पठेच्छिव सन्निधौ ।
शिवलोकमवाप्नोति एकबिल्वं शिवार्पणम् ॥ १४ ॥
इतर श्री शिव स्तोत्राणि पश्यतु । इतर विविध स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.