Site icon Stotra Nidhi

Yuddha Kanda Sarga 87 – युद्धकाण्ड सप्ताशीतितमः सर्गः (८७)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

॥ विभीषणरावणिपरस्परनिन्दा ॥

एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः ।
धनुष्पाणिनमादाय त्वरमाणो जगाम ह ॥ १ ॥

अविदूरं ततो गत्वा प्रविश्य च महद्वनम् ।
दर्शयामास तत्कर्म लक्ष्मणाय विभीषणः ॥ २ ॥

नीलजीमूतसङ्काशं न्यग्रोधं भीमदर्शनम् ।
तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् ॥ ३ ॥

इहोपहारं भूतानां बलवान्रावणात्मजः ।
उपहृत्य ततः पश्चात्सङ्ग्राममभिवर्तते ॥ ४ ॥

अदृश्यः सर्वभूतानां ततो भवति राक्षसः ।
निहन्ति समरे शत्रून्बध्नाति च शरोत्तमैः ॥ ५ ॥

तमप्रविष्टन्यग्रोधं बलिनं रावणात्मजम् ।
विध्वंसय शरैस्तीक्ष्णैः सरथं साश्वसारथिम् ॥ ६ ॥

तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः ।
बभूवावस्थितस्तत्र चित्रं विस्फारयन्धनुः ॥ ७ ॥

स रथेनाग्निवर्णेन बलवान्रावणात्मजः ।
इन्द्रजित्कवची धन्वी सध्वजः प्रत्यदृश्यत ॥ ८ ॥

तमुवाच महातेजाः पौलस्त्यमपराजितम् ।
समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे ॥ ९ ॥

एवमुक्तो महातेजा मनस्वी रावणात्मजः ।
अब्रवीत्परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् ॥ १० ॥

इह त्वं जातसंवृद्धः साक्षाद्भ्राता पितुर्मम ।
कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस ॥ ११ ॥

न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते ।
प्रमाणं न च सौन्दर्यं न धर्मो धर्मदूषण ॥ १२ ॥

शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः ।
यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः ॥ १३ ॥

नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम् ।
क्व च स्वजनसंवासः क्व च नीचपराश्रयः ॥ १४ ॥

गुणवान्वा परजनः स्वजनो निर्गुणोऽपि वा ।
निर्गुणः स्वजनः श्रेयान्यः परः पर एव सः ॥ १५ ॥

यः स्वपक्षं परित्यज्य परपक्षं निषेवते ।
स स्वपक्षे क्षयं प्राप्ते पश्चात्तैरेव हन्यते ॥ १६ ॥

निरनुक्रोशता चेयं यादृशी ते निशाचर ।
स्वजनेन त्वया शक्यं परुषं रावणानुज ॥ १७ ॥

इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः ।
अजानन्निव मच्छीलं किं राक्षस विकत्थसे ॥ १८ ॥

राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् ।
कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम् ॥ १९ ॥

गुणोऽयं प्रथमो नृणां तन्मे शीलमराक्षसम् ।
न रमे दारुणेनाहं न चाधर्मेण वै रमे ॥ २० ॥

भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते ।
धर्मात्प्रच्युतशीलं हि पुरुषं पापनिश्चयम् ॥ २१ ॥

त्यक्त्वा सुखमवाप्नोति हस्तादाशीविषं यथा ।
हिंसापरस्वहरणे परदाराभिमर्शनम् ॥ २२ ॥

त्याज्यमाहुर्दुराचारं वेश्म प्रज्वलितं यथा ।
परस्वानां च हरणं परदाराभिमर्शनम् ॥ २३ ॥

सुहृदामतिशङ्का च त्रयो दोषाः क्षयावहाः ।
महर्षीणां वधो घोरः सर्वदेवैश्च विग्रहः ॥ २४ ॥

अभिमानश्च कोपश्च वैरित्वं प्रतिकूलता ।
एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः ॥ २५ ॥

गुणान्प्रच्छादयामासुः पर्वतानिव तोयदाः ।
दोषैरेतैः परित्यक्तो मया भ्राता पिता तव ॥ २६ ॥

नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता ।
अतिमानी च बालश्च दुर्विनीतश्च राक्षस ॥ २७ ॥

बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि ।
अद्य ते व्यसनं प्राप्तं किं मां त्वमिह वक्ष्यसि ॥ २८ ॥

प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम ।
धर्षयित्वा च काकुत्स्थौ न शक्यं जीवितुं त्वया ॥ २९ ॥

युध्यस्व नरदेवेन लक्ष्मणेन रणे सह ।
हतस्त्वं देवताकार्यं करिष्यसि यमक्षये ॥ ३० ॥

निदर्शय स्वात्मबलं समुद्यतं
कुरुष्व सर्वायुधसायकव्ययम् ।
न लक्ष्मणस्यैत्य हि बाणगोचरं
त्वमद्य जीवन्सबलो गमिष्यसि ॥ ३१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्ताशीतितमः सर्गः ॥ ८७ ॥

युद्धकाण्ड अष्टाशीतितमः सर्गः (८८) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments