Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ निकुम्भिलाभियानम् ॥
तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः ।
नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ॥ १ ॥
ततो धैर्यमवष्टभ्य रामः परपुरञ्जयः ।
विभीषणमुपासीनमुवाच कपिसन्निधौ ॥ २ ॥
नैरृताधिपते वाक्यं यदुक्तं ते विभीषण ।
भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ॥ ३ ॥
राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः ।
यत्तत्पुनरिदं वाक्यं बभाषे स विभीषणः ॥ ४ ॥
यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम् ।
तत्तथाऽनुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ॥ ५ ॥
तान्यनीकानि सर्वाणि विभक्तानि समन्ततः ।
विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः ॥ ६ ॥
भूयस्तु मम विज्ञाप्यं तच्छृणुष्व महायशः ।
त्वय्यकारणसन्तप्ते सन्तप्तहृदया वयम् ॥ ७ ॥
त्यज राजन्निमं शोकं मिथ्या सन्तापमागतम् ।
तदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी ॥ ८ ॥
उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् ।
प्राप्तव्या यदि ते सीता हन्तव्याश्च निशाचराः ॥ ९ ॥
रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः ।
साध्वयं यातु सौमित्रिर्बलेन महता वृतः ॥ १० ॥
निकुम्भिलायां सम्प्राप्य हन्तुं रावणिमाहवे ।
धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः ॥ ११ ॥
शरैर्हन्तुं महेष्वासो रावणिं समितिञ्जयः ।
तेन वीर्येण तपसा वरदानात्स्वयम्भुवः ॥ १२ ॥
अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरङ्गमाः ।
स एष सह सैन्येन प्राप्तः किल निकुम्भिलाम् ॥ १३ ॥
यद्युत्तिष्ठेत्कृतं कर्म हतान्सर्वांश्च विद्धि नः ।
निकुम्भिलामसम्प्राप्तमहुताग्निं च यो रिपुः ॥ १४ ॥
त्वामाततायिनं हन्यादिन्द्रशत्रोः स ते वधः ।
वरो दत्तो महाबाहो सर्वलोकेश्वरेण वै ॥ १५ ॥
इत्येवं विहितो राजन् वधस्तस्यैष धीमतः ।
वधायेन्द्रजितो राम सन्दिशस्व महाबल ॥ १६ ॥
हते तस्मिन्हतं विद्धि रावणं ससुहृज्जनम् ।
विभीषणवचः श्रुत्वा राघवो वाक्यमब्रवीत् ॥ १७ ॥
जानामि तस्य रौद्रस्य मायां सत्यपराक्रम ।
स हि ब्रह्मास्त्रवित्प्राज्ञो महामायो महाबलः ॥ १८ ॥
करोत्यसञ्ज्ञान्सङ्ग्रामे देवान्सवरुणानपि ।
तस्यान्तरिक्षे चरतो रथस्थस्य महायशः ॥ १९ ॥
न गतिर्ज्ञायते तस्य सूर्यस्येवाभ्रसम्प्लवे ।
राघवस्तु रिपोर्ज्ञात्वा मायावीर्यं दुरात्मनः ॥ २० ॥
लक्ष्मणं कीर्तिसम्पन्नमिदं वचनमब्रवीत् ।
यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः ॥ २१ ॥
हनुमत्प्रमुखैश्चैव यूथपैः सह लक्ष्मण ।
जाम्बवेनर्क्षपतिना सहसैन्येन संवृतः ॥ २२ ॥
जहि तं राक्षससुतं मायाबलविशारदम् ।
अयं त्वां सचिवैः सार्धं महात्मा रजनीचरः ॥ २३ ॥
अभिज्ञस्तस्य देशस्य पृष्ठतोऽनुगमिष्यति ।
राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः ॥ २४ ॥
जाग्राह कार्मुकश्रेष्ठमत्यद्भुतपराक्रमः ।
सन्नद्धः कवची खड्गी सशरो हेमचापधृत् ॥ २५ ॥
रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् ।
अद्य मत्कार्मुकोन्मुक्ताः शरा निर्भिद्य रावणिम् ॥ २६ ॥
लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव ।
अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः ॥ २७ ॥
विधमिष्यन्ति भित्त्वा तं महाचापगुणच्युताः ।
स एवमुक्त्वा द्युतिमान्वचनं भ्रातुरग्रतः ॥ २८ ॥
स रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितो ययौ ।
सोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम् ॥ २९ ॥
निकुम्भिलामभिययौ चैत्यं रावणिपालितम् ।
विभीषणेन सहितो राजपुत्रः प्रतापवान् ॥ ३० ॥
कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ ।
वानराणां सहस्रैस्तु हनुमान्बहुभिर्वृतः ॥ ३१ ॥
विभीषणश्च सामात्यस्तदा लक्ष्मणमन्वगात् ।
महता हरिसैन्येन सवेगमभिसंवृतः ॥ ३२ ॥
ऋक्षराजबलं चैव ददर्श पथि विष्ठितम् ।
स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः ॥ ३३ ॥
राक्षसेन्द्रबलं दूरादपश्यद्व्यूहमास्थितम् ।
स तं प्राप्य धनुष्पाणिर्मायायोगमरिन्दमः ॥ ३४ ॥
तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः ।
विभीषणेन सहितो राजपुत्रः प्रतापवान् ।
अङ्गदेन च वीरेण तथाऽनिलसुतेन च ॥ ३५ ॥
विविधममलशस्त्रभास्वरं त-
-द्ध्वजगहनं विपुलं महारथैश्च ।
प्रतिभयतममप्रमेयवेगं
तिमिरमिव द्विषतां बलं विवेश ॥ ३६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चाशीतितमः सर्गः ॥ ८५ ॥
युद्धकाण्ड षडशीतितमः सर्गः (८६) >>
सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.