Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ इन्द्रजिन्मायायुद्धम् ॥
ततो हतान्राक्षसपुङ्गवांस्तान्
देवान्तकादित्रिशिरोतिकायान् ।
रक्षोगणास्तत्र हतावशिष्टा-
-स्ते रावणाय त्वरितं शशंसुः ॥ १ ॥
ततो हतांस्तान्सहसा निशम्य
राजा मुमोहाश्रुपरिप्लुताक्षः ।
पुत्रक्षयं भ्रातृवधं च घोरं
विचिन्त्य राजा विपुलं प्रदध्यौ ॥ २ ॥
ततस्तु राजानमुदीक्ष्य दीनं
शोकार्णवे सम्परिपुप्लुवानम् ।
रथर्षभो राक्षसराजसूनु-
-स्तमिन्द्रजिद्वाक्यमिदं बभाषे ॥ ३ ॥
न तात मोहं प्रतिगन्तुमर्हसि
यत्रेन्द्रजिज्जीवति राक्षसेन्द्र ।
नेन्द्रारिबाणाभिहतो हि कश्चित्
प्राणान्समर्थः समरेऽभिपातुम् ॥ ४ ॥
पश्याद्य रामं सह लक्ष्मणेन
मद्बाणनिर्भिन्नविकीर्णदेहम् ।
गतायुषं भूमितले शयानं
शितैः शरैराचितसर्वगात्रम् ॥ ५ ॥
इमां प्रतिज्ञां शृणु शक्रशत्रोः
सुनिश्चितां पौरुषदैवयुक्ताम् ।
अद्यैव रामं सह लक्ष्मणेन
सन्तर्पयिष्यामि शरैरमोघैः ॥ ६ ॥
अद्येन्द्रवैवस्वतविष्णुमित्र
साध्याश्विवैश्वानरचन्द्रसूर्याः ।
द्रक्ष्यन्तु मे विक्रममप्रमेयं
विष्णोरिवोग्रं बलियज्ञवाटे ॥ ७ ॥
स एवमुक्त्वा त्रिदशेन्द्रशत्रु-
-रापृच्छ्य राजानमदीनसत्त्वः ।
समारुरोहानिलतुल्यवेगं
रथं खरश्रेष्ठसमाधियुक्तम् ॥ ८ ॥
तमास्थाय महातेजा रथं हरिरथोपमम् ।
जगाम सहसा तत्र यत्र युद्धमरिन्दमः ॥ ९ ॥
तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः ।
संहर्षमाणा बहवो धनुष्प्रवरपाणयः ॥ १० ॥
गजस्कन्धगताः केचित्केचित्प्रवरवाजिभिः ।
प्रासमुद्गरनिस्त्रिंशपरश्वधगदाधराः ॥ ११ ॥
स शङ्खनिनदैः पूर्णैर्भेरीणां चापि निःस्वनैः ।
जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः ॥ १२ ॥
स शङ्खशशिवर्णेन छत्रेण रिपुसूदनः ।
रराज प्रतिपूर्णेन नभश्चान्द्रमसा यथा ॥ १३ ॥
अवीज्यत ततो वीरो हैमैर्हेमविभूषितैः ।
चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम् ॥ १४ ॥
ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा ।
रराजाप्रतिवीरेण द्यौरिवार्केण भास्वता ॥ १५ ॥
स सम्प्राप्य महातेजा युद्धभूमिमरिन्दमः ।
स्थापयामास रक्षांसि रथं प्रति समन्ततः ॥ १६ ॥
ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः ।
जुहाव राक्षसश्रेष्ठो मन्त्रवद्विधिवत्तदा ॥ १७ ॥
स हविर्लाजसंस्कारैर्माल्यगन्धपुरस्कृतैः ।
जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान् ॥ १८ ॥
शस्त्राणि शरपत्राणि समिधोऽथ विभीतकाः ।
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ॥ १९ ॥
स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः ।
छागस्य कृष्णवर्णस्य गलं जग्राह जीवतः ॥ २० ॥
सकृदेव समिद्धस्य विधूमस्य महार्चिषः ।
बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन् ॥ २१ ॥
प्रदक्षिणावर्तशिखस्तप्तकाञ्चनभूषणः ।
हविस्तत्प्रतिजग्राह पावकः स्वयमास्थितः ॥ २२ ॥
सोऽस्त्रमाहारयामास ब्राह्ममिन्द्ररिपुस्तदा ।
धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत् ॥ २३ ॥
तस्मिन्नाहूयमानेऽस्त्रे हूयमाने च पावके ।
सार्धं ग्रहेन्दुनक्षत्रैर्वितत्रास नभःस्थलम् ॥ २४ ॥
स पावकं पावकदीप्ततेजा
हुत्वा महेन्द्रप्रतिमप्रभावः ।
सचापबाणासिरथाश्वसूतः
खेऽन्तर्दधेत्मानमचिन्त्यरूपः ॥ २५ ॥
ततो हयरथाकीर्णं पताकाध्वजशोभितम् ।
निर्ययौ राक्षसबलं नर्दमानं युयुत्सया ॥ २६ ॥
ते शरैर्बहुभिश्चित्रैस्तीक्ष्णवेगैरलङ्कृतैः ।
तोमरैरङ्कुशैश्चापि वानरान्जघ्नुराहवे ॥ २७ ॥
रावणिस्तु ततः क्रुद्धस्तान्निरीक्ष्य निशाचरान् ।
हृष्टा भवन्तो युध्यन्तु वानराणां जिघांसया ॥ २८ ॥
ततस्ते राक्षसाः सर्वे नर्दन्तो जयकाङ्क्षिणः ।
अभ्यवर्षंस्ततो घोरान्वानरान् शरवृष्टिभिः ॥ २९ ॥
स तु नालीकनाराचैर्गदाभिर्मुसलैरपि ।
रक्षोभिः संवृतः सङ्ख्ये वानरान्विचकर्त ह ॥ ३० ॥
ते वध्यमानाः समरे वानराः पादपायुधाः ।
अभ्यद्रवन्त सहिता रावणिं रणकर्कशम् ॥ ३१ ॥
इन्द्रजित्तु ततः क्रुद्धो महातेजा महाबलः ।
वानराणां शरीराणि व्यधमद्रावणात्मजः ॥ ३२ ॥
शरेणैकेन च हरीन्नव पञ्च च सप्त च ।
चिच्छेद समरे क्रुद्धो राक्षसान्सम्प्रहर्षयन् ॥ ३३ ॥
स शरैः सूर्यसङ्काशैः शातकुम्भविभूषितैः ।
वानरान्समरे वीरः प्रममाथ सुदुर्जयः ॥ ३४ ॥
ते भिन्नगात्राः समरे वानराः शरपीडिताः ।
पेतुर्मथितसङ्कल्पाः सुरैरिव महासुराः ॥ ३५ ॥
तं तपन्तमिवादित्यं घोरैर्बाणगभस्तिभिः ।
अभ्यधावन्त सङ्क्रुद्धाः सम्युगे वानरर्षभाः ॥ ३६ ॥
ततस्तु वानराः सर्वे भिन्नदेहा विचेतसः ।
व्यथिता विद्रवन्ति स्म रुधिरेण समुक्षिताः ॥ ३७ ॥
रामस्यार्थे पराक्रम्य वानरास्त्यक्तजीविताः ।
नर्दन्तस्तेऽभिवृत्तास्तु समरे सशिलायुधाः ॥ ३८ ॥
ते द्रुमैः पर्वताग्रैश्च शिलाभिश्च प्लवङ्गमाः ।
अभ्यवर्षन्त समरे रावणिं पर्यवस्थिताः ॥ ३९ ॥
तद्द्रुमाणां शिलानां च वर्षं प्राणहरं महत् ।
व्यपोहत महातेजा रावणिः समितिञ्जयः ॥ ४० ॥
ततः पावकसङ्काशैः शरैराशीविषोपमैः ।
वानराणामनीकानि बिभेद समरे प्रभुः ॥ ४१ ॥
अष्टादशशरैस्तीक्ष्णैः स विद्ध्वा गन्धमादनम् ।
विव्याध नवभिश्चैव नलं दूरादवस्थितम् ॥ ४२ ॥
सप्तभिस्तु महावीर्यो मैन्दं मर्मविदारणैः ।
पञ्चभिर्विशिखैश्चैव गजं विव्याध सम्युगे ॥ ४३ ॥
जाम्बवन्तं तु दशभिर्नीलं त्रिंशद्भिरेव च ।
सुग्रीवमृषभं चैव सोऽङ्गदं द्विविदं तथा ॥ ४४ ॥
घोरैर्दत्तवरैस्तीक्ष्णैर्निष्प्राणानकरोत्तदा ।
अन्यानपि तदा मुख्यान्वानरान्बहुभिः शरैः ॥ ४५ ॥
अर्दयामास सङ्क्रुद्धः कालाग्निरिव मूर्छितः ।
स शरैः सूर्यसङ्काशैः सुमुक्तैः शीघ्रगामिभिः ॥ ४६ ॥
वानराणामनीकानि निर्ममन्थ महारणे ।
आकुलां वानरीं सेनां शरजालेन मोहिताम् ॥ ४७ ॥
हृष्टः स परया प्रीत्या ददर्श क्षतजोक्षिताम् ।
पुनरेव महातेजा राक्षसेन्द्रात्मजो बली ॥ ४८ ॥
संसृज्य बाणवर्षं च शस्त्रवर्षं च दारुणम् ।
ममर्द वानरानीकमिन्द्रजित्त्वरितो बली ॥ ४९ ॥
स्वसैन्यमुत्सृज्य समेत्य तूर्णं
महारणे वानरवाहिनीषु ।
अदृश्यमानः शरजालमुग्रं
ववर्ष नीलाम्बुधरो यथाऽम्बु ॥ ५० ॥
ते शक्रजिद्बाणविशीर्णदेहा
मायाहता विस्वरमुन्नदन्तः ।
रणे निपेतुर्हरयोऽद्रिकल्पा
यथेन्द्रवज्राभिहता नगेन्द्राः ॥ ५१ ॥
ते केवलं सन्ददृशुः शिताग्रान्
बाणान्रणे वानरवाहिनीषु ।
मायानिगूढं तु सुरेन्द्रशत्रुं
न चावृतं राक्षसमभ्यपश्यन् ॥ ५२ ॥
ततः स रक्षोधिपतिर्महात्मा
सर्वे दिशो बाणगणैः शिताग्रैः ।
प्रच्छादयामास रविप्रकाशैः
विषादयामास च वानरेन्द्रान् ॥ ५३ ॥
स शूलनिस्त्रिंशपरश्वधानि
व्याविध्य दीप्तानलसन्निभानि ।
सविस्फुलिङ्गोज्ज्वलपावकानि
ववर्ष तीव्रं प्लवगेन्द्रसैन्ये ॥ ५४ ॥
ततो ज्वलनसङ्काशैः शरैर्वानरयूथपाः ।
ताडिताः शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः ॥ ५५ ॥
तेऽन्योन्यमभिसर्पन्तो निनदन्तश्च विस्वरम् ।
राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः ॥ ५६ ॥
उदीक्षमाणा गगनं केचिन्नेत्रेषु ताडिताः ।
शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले ॥ ५७ ॥
हनुमन्तं च सुग्रीवमङ्गदं गन्धमादनम् ।
जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च ॥ ५८ ॥
मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ ।
केसरिं हरिलोमानं विद्युद्दंष्ट्रं च वानरम् ॥ ५९ ॥
सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम् ।
पावकाक्षं नलं चैव कुमुदं चैव वानरम् ॥ ६० ॥
प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः ।
विव्याध हरिशार्दूलान्सर्वांस्तान्राक्षसोत्तमः ॥ ६१ ॥
स वै गदाभिर्हरियूथमुख्यान्
निर्भिद्य बाणैस्तपनीयपुङ्खैः ।
ववर्ष रामं शरवृष्टिजालैः
सलक्ष्मणं भास्कररश्मिकल्पैः ॥ ६२ ॥
स बाणवर्षैरभिवर्ष्यमाणो
धारानिपातानिव तानचिन्त्य ।
समीक्षमाणः परमाद्भुतश्री
रामस्तदा लक्ष्मणमित्युवाच ॥ ६३ ॥
असौ पुनर्लक्ष्मण राक्षसेन्द्रो
ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः ।
निपातयित्वा हरिसैन्यमुग्र-
-मस्मान् शरैरर्दयति प्रसक्तः ॥ ६४ ॥
स्वयम्भुवा दत्तवरो महात्मा
खमास्थितोऽन्तर्हितभीमकायः ।
कथं नु शक्यो युधि नष्टदेहो
निहन्तुमद्येन्द्रजिदुद्यतास्त्रः ॥ ६५ ॥
मन्ये स्वयम्भूर्भगवानचिन्त्यो
यस्यैतदस्त्रं प्रभवश्च योऽस्य ।
बाणावपातांस्त्वमिहाद्य धीमन्
मया सहाव्यग्रमनाः सहस्व ॥ ६६ ॥
प्रच्छादयत्येष हि राक्षसेन्द्रः
सर्वा दिशः सायकवृष्टिजालैः ।
एतच्च सर्वं पतिताग्र्यशूरं
न भ्राजते वानरराजसैन्यम् ॥ ६७ ॥
आवां तु दृष्ट्वा पतितौ विसञ्ज्ञौ
निवृत्तयुद्धौ गतरोषहर्षौ ।
ध्रुवं प्रवेक्ष्यत्यमरारिवास-
-मसौ समादाय रणाग्रलक्ष्मीम् ॥ ६८ ॥
ततस्तु ताविन्द्रजिदस्त्रजालैः
बभूवतुस्तत्र तथा विशस्तौ ।
स चापि तौ तत्र विदर्शयित्वा
ननाद हर्षाद्युधि राक्षसेन्द्रः ॥ ६९ ॥
स तत्तदा वानरसैन्यमेवं
रामं च सङ्ख्ये सह लक्ष्मणेन ।
विषादयित्वा सहसा विवेश
पुरीं दशग्रीवभुजाभिगुप्ताम् ॥ ७० ॥
[* अधिकपाठः –
संस्तूयमानः स तु यातुधानैः ।
पित्रे च सर्वं हृषितोऽभ्युवाच ॥
*]
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिसप्ततितमः सर्गः ॥ ७३ ॥
युद्धकाण्ड चतुःसप्ततितमः सर्गः (७४) >>
सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.