Site icon Stotra Nidhi

Yuddha Kanda Sarga 130 – युद्धकाण्ड त्रिंशदुत्तरशततमः सर्गः (१३०)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

॥ भरतसमागमः ॥

श्रुत्वा तु परमानंदं भरतः सत्यविक्रमः ।
हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा ॥ १ ॥

दैवतानि च सर्वाणि चैत्यानि नगरस्य च ।
सुगंधमाल्यैर्वादित्रैरर्चंतु शुचयॊ नराः ॥ २ ॥

सूताः स्तुतिपुराणज्ञाः सर्वॆ वैतालिकास्तथा ।
सर्वॆ वादित्रकुशला गणकाश्चापि संघशः ॥ ३ ॥

अभिनिर्यांतु रामस्य द्रष्टुं शशिनिभं मुखम् ।
भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा ॥ ४ ॥

विष्टीरनॆकसाहस्राश्चॊदयामास वीर्यवान् ।
समीकुरुत निम्नानि विषमाणि समानि च ॥ ५ ॥

स्थलानि च निरस्यंतां नंदिग्रामादितः परम् ।
सिंचंतु पृथिवीं कृत्स्नां हिमशीतॆन वारिणा ॥ ६ ॥

ततॊऽभ्यवकिरंत्वन्यॆ लाजैः पुष्पैश्च सर्वशः ।
समुच्छ्रितपताकास्तु रथ्याः पुरवरॊत्तमॆ ॥ ७ ॥

शॊभयंतु च वॆश्मानि सूर्यस्यॊदयनं प्रति ।
स्रग्दामभिर्मुक्तपुष्पैः सुगंधैः पंचवर्णकैः ॥ ८ ॥

राजमार्गमसंबाधं किरंतु शतशॊ नराः ।
राजदारास्तथाऽमात्याः सैन्याः सॆनागणांगनाः ॥ ९ ॥

ब्राह्मणाश्च सराजन्याः श्रॆणीमुख्य़ास्तथा गणाः ।
धृष्टिर्जयंतॊ विजयः सिद्धार्थॊ ह्यर्थसाधकः ॥ १० ॥

अशॊकॊ मंत्रपालश्च सुमंत्रश्चापि निर्ययुः ।
मत्तैर्नागसहस्रैश्च शातकुंभविभूषितैः ॥ ११ ॥

अपरॆ हॆमकक्ष्याभिः सगजाभिः करॆणुभिः ।
निर्ययुस्तुरगाक्रांतै रथैश्च सुमहारथाः ॥ १२ ॥

शक्त्युष्टिप्रासहस्तानां सध्वजानां पताकिनाम् ।
तुरगाणां सहस्रैश्च मुख्यैर्मुख्यनरान्वितैः ॥ १३ ॥

पदातीनां सहस्रैश्च वीराः परिवृता ययुः ।
ततॊ यानान्युपारूढाः सर्वा दशरथस्त्रियः ॥ १४ ॥

कौसल्यां प्रमुखॆ कृत्वा सुमित्रां चापि निर्ययुः ।
कैकॆय्या सहिताः सर्वा नंदिग्राममुपागमन् ॥ १५ ॥

कृत्स्नं च नगरं तत्तु नंदिग्राममुपागमत् ।
अश्वानां खुरशब्दॆन रथनॆमिस्वनॆन च ॥ १६ ॥

शंखदुंदुभिनादॆन संचचालॆव मॆदिनी ।
द्विजातिमुख्यैर्धर्मात्मा श्रॆणीमुख्यैः सनैगमैः ॥ १७ ॥

माल्यमॊदकहस्तैश्च मंत्रिभिर्भरतॊ वृतः ।
शंखभॆरीनिनादैश्च वंदिभिश्चाभिवंदितः ॥ १८ ॥

आर्यपादौ गृहीत्वा तु शिरसा धर्मकॊविदः ।
पांडुरं छत्रमादाय शुक्लमाल्यॊपशॊभितम् ॥ १९ ॥

शुक्लॆ च वालव्यजनॆ राजार्हॆ हॆमभूषितॆ ।
उपवासकृशॊ दीनश्चीरकृष्णाजिनांबरः ॥ २० ॥

भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः ।
प्रत्युद्ययौ ततॊ रामं महात्मा सचिवैः सह ॥ २१ ॥

समीक्ष्य भरतॊ वाक्यमुवाच पवनात्मजम् ।
कच्चिन्न खलु कापॆयी सॆव्यतॆ चलचित्तता ॥ २२ ॥

न हि पश्यामि काकुत्स्थं राममार्यं परंतपम् ।
कच्चिन्न खलु दृश्यंतॆ वानराः कामरूपिणः ॥ २३ ॥

अथैवमुक्तॆ वचनॆ हनुमानिदमब्रवीत् ।
अर्थं विज्ञापयन्नॆव भरतं सत्यविक्रमम् ॥ २४ ॥

सदाफलान्कुसुमितान्वृक्षान्प्राप्य मधुस्रवान् ।
भरद्वाजप्रसादॆन मत्तभ्रमरनादितान् ॥ २५ ॥

तस्य चैष वरॊ दत्तॊ वासवॆन परंतप ।
ससैन्यस्य तदाऽऽतिथ्यं कृतं सर्वगुणान्वितम् ॥ २६ ॥

निस्वनः श्रूयतॆ भीमः प्रहृष्टानां वनौकसाम् ।
मन्यॆ वानरसॆना सा नदीं तरति गॊमतीम् ॥ २७ ॥

रजॊवर्षं समुद्धूतं पश्य वालुकिनीं प्रति ।
मन्यॆ सालवनं रम्यं लॊलयंति प्लवंगमाः ॥ २८ ॥

तदॆतद्दृश्यतॆ दूराद्विमलं चंद्रसन्निभम् ।
विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम् ॥ २९ ॥

रावणं बांधवैः सार्धं हत्वा लब्धं महात्मना ।
तरुणादित्यसंकाशं विमानं रामवाहनम् ॥ ३० ॥

धनदस्य प्रसादॆन दिव्यमॆतन्मनॊजवम् ।
ऎतस्मिन्भ्रातरौ वीरौ वैदॆह्या सह राघवौ ॥ ३१ ॥

सुग्रीवश्च महातॆजा राक्षसॆंद्रॊ विभीषणः ।
ततॊ हर्षसमुद्भूतॊ निस्वनॊ दिवमस्पृशत् ॥ ३२ ॥

स्त्रीबालयुववृद्धानां रामॊऽयमिति कीर्तितॆ ।
रथकुंजरवाजिभ्यस्तॆऽवतीर्य महीं गताः ॥ ३३ ॥

ददृशुस्तं विमानस्थं नराः सॊममिवांबरॆ ।
प्रांजलिर्भरतॊ भूत्वा प्रहृष्टॊ राघवॊन्मुखः ॥ ३४ ॥

स्वागतॆन यथार्थॆन ततॊ राममपूजयत् ।
मनसा ब्रह्मणा सृष्टॆ विमानॆ भरताग्रजः ॥ ३५ ॥

रराज पृथुदीर्घाक्षॊ वज्रपाणिरिवापरः ।
ततॊ विमानाग्रगतं भरतॊ भ्रातरं तदा ॥ ३६ ॥

ववंदॆ प्रयतॊ रामं मॆरुस्थमिव भास्करम् ।
ततॊ रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् ॥ ३७ ॥

हंसयुक्तं महावॆगं निष्पपात महीतलॆ ।
आरॊपितॊ विमानं तद्भरतः सत्यविक्रमः ॥ ३८ ॥

राममासाद्य मुदितः पुनरॆवाभ्यवादयत् ।
तं समुत्थाप्य काकुत्स्थश्चिरस्याक्षिपथं गतम् ॥ ३९ ॥

अंकॆ भरतमारॊप्य मुदितः परिषस्वजॆ ।
ततॊ लक्ष्मणमासाद्य वैदॆहीं चाभ्यवादयत् ॥ ४० ॥ [परंतप]

अभिवाद्य ततः प्रीतॊ भरतॊ नाम चाब्रवीत् ।
सुग्रीवं कैकयीपुत्रॊ जांबवंतं तथाऽंगदम् ॥ ४१ ॥

मैंदं च द्विविदं नीलमृषभं परिषस्वजॆ ।
सुषॆणं च नलं चैव गवाक्षं गंधमादनम् ॥ ४२ ॥

शरभं पनसं चैव भरतः परिषस्वजॆ ।
तॆ कृत्वा मानुषं रूपं वानराः कामरूपिणः ॥ ४३ ॥

कुशलं पर्यपृच्छंस्तॆ प्रहृष्टा भरतं तदा ।
अथाब्रवीद्राजपुत्रः सुग्रीवं वानरर्षभम् ॥ ४४ ॥

परिष्वज्य महातॆजा भरतॊ धर्मिणां वरः ।
त्वमस्माकं चतुर्णां तु भ्राता सुग्रीव पंचमः ॥ ४५ ॥

सौहृदाज्जायतॆ मित्रमपकारॊऽरिलक्षणम् ।
विभीषणं च भरतः सांत्ववाक्यमथाब्रवीत् ॥ ४६ ॥

दिष्ट्या त्वया सहायॆन कृतं कर्म सुदुष्करम् ।
शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम् ॥ ४७ ॥

सीतायाश्चरणौ पश्चाद्विनयादभ्यवाफ़्दयत् ।
रामॊ मातरमासाद्य विषण्णां शॊककर्शिताम् ॥ ४८ ॥

जग्राह प्रणतः पादौ मनॊ मातुः प्रसादयन् ।
अभिवाद्य सुमित्रां च कैकॆयीं च यशस्विनीं ॥ ४९ ॥

स मातॄश्च ततः सर्वाः पुरॊहितमुपागमत् ।
स्वागतं तॆ महाबाहॊ कौसल्यानंदवर्धन ॥ ५० ॥

इति प्रांजलयः सर्वॆ नागरा राममब्रुवन् ।
तान्यंजलिसहस्राणि प्रगृहीतानि नागरैः ॥ ५१ ॥

व्याकॊशानीव पद्मानि ददर्श भरताग्रजः ।
पादुकॆ तॆ तु रामस्य गृहीत्वा भरतः स्वयम् ॥ ५२ ॥

चरणाभ्यां नरॆंद्रस्य यॊजयामास धर्मवित् ।
अब्रवीच्च तदा रामं भरतः स कृतांजलिः ॥ ५३ ॥

ऎतत्तॆ रक्षितं राजन्राज्यं निर्यातितं मया ।
अद्य जन्म कृतार्थं मॆ संवृत्तश्च मनॊरथः ॥ ५४ ॥

यस्त्वां पश्यामि राजानमयॊध्यां पुनरागतम् ।
अवॆक्षतां भवान्कॊशं कॊष्ठागारं पुरं बलम् ॥ ५५ ॥

भवतस्तॆजसा सर्वं कृतं दशगुणं मया ।
तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम् ॥ ५६ ॥

मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः ।
ततः प्रहर्षाद्भरतमंकमारॊप्य राघवः ॥ ५७ ॥

ययौ तॆन विमानॆन ससैन्यॊ भरताश्रमम् ।
भरताश्रममासाद्य ससैन्यॊ राघवस्तदा ॥ ५८ ॥

अवतीर्य विमानाग्रादवतस्थॆ महीतलॆ ।
अब्रवीच्च तदा रामस्तद्विमानमनुत्तमम् ॥ ५९ ॥

वह वैश्रवणं दॆवमनुजानामि गम्यताम् ।
ततॊ रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् ।
उत्तरां दिशमागम्य जगाम धनदालयम् ॥ ६० ॥

पुरॊहितस्यात्मसमस्य राघवॊ
बृहस्पतॆः शक्र इवामराधिपः ।
निपीड्य पादौ पृथगासनॆ शुभॆ
सहैव तॆनॊपविवॆश राघवः ॥ ६१ ॥

इत्यार्षॆ श्रीमद्रामायणॆ वाल्मीकीयॆ आदिकाव्यॆ युद्धकांडॆ त्रिंशदुत्तरशततमः सर्गः ॥ १३० ॥

युद्धकाण्ड एकत्रिंशदुत्तरशततमः सर्गः (१३१) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments