Site icon Stotra Nidhi

Yuddha Kanda Sarga 11 – युद्धकाण्ड एकादशः सर्गः (११)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

॥ द्वितीयमन्त्राधिवेशः ॥

स बभूव कृशो राजा मैथिलीकाममोहितः ।
असम्मानाच्च सुहृदां पापः पापेन कर्मणा ॥ १ ॥

[* अतीव कामसम्पन्नो वैदेहीमनुचिन्तयन् । *]
अतीतसमये काले तस्मिन् वै युधि रावणः ।
अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत ॥ २ ॥ [मन्त्र]

स हेमजालविततं मणिविद्रुमभूषितम् ।
उपगम्य विनीताश्वमारुरोह महारथम् ॥ ३ ॥

तमास्थाय रथश्रेष्ठं महामेघसमस्वनम् ।
प्रययौ रक्षसश्रेष्ठो दशग्रीवः सभां प्रति ॥ ४ ॥

असिचर्मधरा योधाः सर्वायुधधरास्तथा ।
राक्षसा राक्षसेन्द्रस्य पुरतः सम्प्रतस्थिरे ॥ ५ ॥

नानाविकृतवेषाश्च नानाभूषणभूषिताः ।
पार्श्वतः पृष्ठतश्चैनं परिवार्य ययुस्ततः ॥ ६ ॥

रथैश्चातिरथाः शीघ्रं मत्तैश्च वरवारणैः ।
अनूत्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥ ७ ॥

गदापरिघहस्ताश्च शक्तितोमरपाणयः ।
परश्वधधराश्चान्ये तथाऽन्ये शूलपाणयः ॥ ८ ॥

ततस्तूर्यसहस्राणां सं‍जज्ञे निस्वनो महान् ।
तुमुलः शङ्खशब्दश्च सभां गच्छति रावणे ॥ ९ ॥

स नेमिघोषेण महान् सहसाऽभिविनादयन् ।
राजमार्गं श्रिया जुष्टं प्रतिपेदे महारथः ॥ १० ॥

विमलं चातपत्राणां प्रगृहीतमशोभत ।
पाण्डरं राक्षसेन्द्रस्य पूर्णस्ताराधिपो यथा ॥ ११ ॥

हेममञ्जरिगर्भे च शुद्धस्फटिकविग्रहे ।
चामरव्यजने चास्य रेजतुः सव्यदक्षिणे ॥ १२ ॥

ते कृताञ्जलयः सर्वे रथस्थं पृथिवीस्थिताः ।
राक्षसा राक्षसश्रेष्ठं शिरोभिस्तं ववन्दिरे ॥ १३ ॥

राक्षसैः स्तूयमानः सन् जयाशीर्भिररिन्दमः ।
आससाद महातेजाः सभां सुविहितां शुभाम् ॥ १४ ॥

सुवर्णरजतस्थूणां विशुद्धस्फटिकान्तराम् ।
विराजमानो वपुषा रुक्मपट्‍टोत्तरच्छदाम् ॥ १५ ॥

तां पिशाचशतैः षड्भिरभिगुप्तां सदा शुभाम् ।
प्रविवेश महातेजाः सुकृतां विश्वकर्मणा ॥ १६ ॥

तस्यां तु वैडूर्यमयं प्रियकाजिनसंवृतम् ।
महत्सोपाश्रयं भेजे रावणः परमासनम् ॥ १७ ॥

ततः शशासेश्वरवद्दूताँल्लघुपराक्रमान् ।
समानयत मे क्षिप्रमिहैतान्राक्षसानिति ॥ १८ ॥

कृत्यमस्ति महज्जातं समर्थ्यमिह नो महत् ।
राक्षसास्तद्वचः श्रुत्वा लङ्कायां परिचक्रमुः ॥ १९ ॥

अनुगेहमवस्थाय विहारशयनेषु च ।
उद्यानेषु च रक्षांसि चोदयन्तो ह्यभीतवत् ॥ २० ॥

ते रथान् रुचिरानेके दृप्तानेके पृथग्घयान् ।
नागानन्येऽधिरुरुहुर्जग्मुश्चैके पदातयः ॥ २१ ॥

सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः ।
सम्पतद्भिर्विरुरुचे गरुत्मद्भिरिवाम्बरम् ॥ २२ ॥

ते वाहनान्यवस्थाप्य यानानि विविधानि च ।
सभां पद्भिः प्रविविशुः सिंहा गिरिगुहामिव ॥ २३ ॥

राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः ।
पीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन् ॥ २४ ॥

ते समेत्य सभायां वै राक्षसा राजशासनात् ।
यथार्हमुपतस्थुस्ते रावणं राक्षसाधिपम् ॥ २५ ॥

मन्त्रिणश्च यथा मुख्या निश्चितार्थेषु पण्डिताः ।
अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः ॥ २६ ॥

समेयुस्तत्र शतशः शूराश्च बहवस्तदा ।
सभायां हेमवर्णायां सर्वार्थस्य सुखाय वै ॥ २७ ॥

रम्यायां राक्षसेन्द्रस्य समेयुस्तत्र सङ्घशः ।
राक्षसा राक्षसश्रेष्ठं परिवार्योपतस्थिरे ॥ २८ ॥

ततो महात्मा विपुलं सुयुग्यं
वरं रथं हेमविचित्रिताङ्गम् ।
शुभं समास्थाय ययौ यशस्वी
विभीषणः संसदमग्रजस्य ॥ २९ ॥

स पूर्वजायावरजः शशंस
नामाथ पश्चाच्चरणौ ववन्दे ।
शुकः प्रहस्तश्च तथैव तेभ्यो
ददौ यथार्हं पृथगासनानि ॥ ३० ॥

सुवर्णनानामणिभुषणानां
सुवाससां संसदि राक्षसानाम् ।
तेषां परार्ध्यागरुचन्दनानां
स्रजश्च गन्धाः प्रववुः समन्तात् ॥ ३१ ॥ [श्च]

न चुक्रुशुर्नानृतमाह कश्चि-
-त्सभासदो नापि जजल्पुरुच्चैः ।
संसिद्धार्थाः सर्व एवोग्रवीर्या
भर्तुः सर्वे ददृशुश्चाननं ते ॥ ३२ ॥

स रावणः शस्त्रभृतां मनस्विनां
महाबलानां समितौ मनस्वी ।
तस्यां सभायां प्रभया चकाशे
मध्ये वसूनामिव वज्रहस्तः ॥ ३३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकादशः सर्गः ॥ ११ ॥

युद्धकाण्ड द्वादशः सर्गः (१२) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments