Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
हरिः ओं । श्री गणेशाय नमः । श्री गुरुभ्यो नमः ।
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं ।
प्रसन्नवदनं ध्यायेत्सर्व विघ्नोपशांतये ॥
आचम्य –
ओं केशवाय स्वाहा ।
ओं नारायणाय स्वाहा ।
ओं माधवाय स्वाहा ।
ओं गोविंदाय नमः । ओं विष्णवे नमः ।
ओं मधुसूदनाय नमः । ओं त्रिविक्रमाय नमः ।
ओं वामनाय नमः । ओं श्रीधराय नमः ।
ओं हृषीकेशाय नमः । ओं पद्मनाभाय नमः ।
ओं दामोदराय नमः । ओं संकर्षणाय नमः ।
ओं वासुदेवाय नमः । ओं प्रद्युम्नाय नमः ।
ओं अनिरुद्धाय नमः । ओं पुरुषोत्तमाय नमः ।
ओं अथोक्षजाय नमः । ओं नारसिंहाय नमः ।
ओं अच्युताय नमः । ओं जनार्दनाय नमः ।
ओं उपेंद्राय नमः । ओं हरये नमः ।
ओं श्री कृष्णाय नमः ।
प्राणायामम् –
ओं भूः । ओं भुवः । ओग्ं सुवः । ओं महः । ओं जनः । ओं तपः । ओग्ं सत्यं । ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । ओमापो ज्योती रसोमृतं ब्रह्म भूर्भुवस्सुवरोम् ।
संकल्पम् –
मम उपात्त समस्त दुरितक्षय द्वारा श्री परमेश्वरमुद्दिश्य श्री परमेश्वर प्रीत्यर्थं शुभाभ्यां शुभे शोभने मुहूर्ते श्री महाविष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीय परार्थे श्वेतवराह कल्पे वैवस्वत मन्वंतरे कलियुगे प्रथमपादे जंबूद्वीपे भारतवर्षे भरतखंडे मेरोः _____ दिग्भागे श्रीशैलस्य ___ प्रदेशे ___, ___ नद्योः मध्य प्रदेशे शोभन गृहे समस्त देवता ब्राह्मण आचार्य हरिहर गुरु चरण सन्निधौ अस्मिन् वर्तमन व्यावहरिक चांद्रमानेन श्री ____ नाम संवत्सरे ___ अयने ___ ऋतौ ___ मासे ___ पक्षे ___ तिथौ ___ वासरे ___ नक्षत्रे ___ योगे ___ करण एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीमान् ___ गोत्रस्य ___ नामधेयस्य मम श्रौत स्मार्त नित्य नैमित्तिक काम्य कर्मानुष्ठान योग्यता सिद्ध्यर्थं ब्रह्मतेजोऽभिवृद्ध्यर्थं नूतन यज्ञोपवीत धारणं करिष्ये ॥
यज्ञोपवीत जलाभिमंत्रणम् –
ओं आपो॒ हि ष्ठा म॑यो॒भुव॑: । ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से ।
यो व॑श्शि॒वत॑मो॒ रस॑: । तस्य॑ भाजयते॒ह न॑: ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अरं॑ गमाम वः । यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ॥ (तै.आ.४-४२-४)
नवतंतु देवताह्वानं ।
ओंकारं प्रथमतंतौ आवाहयामि ।
अग्निं द्वितीयतंतौ आवाहयामि ।
सर्पं (नागं) तृतीयतंतौ आवाहयामि ।
सोमं चतुर्थतंतौ आवाहयामि ।
पितॄन् पंचमतंतौ आवाहयामि ।
प्रजापतिं षष्ठतंतौ आवाहयामि ।
वायुं सप्तमतंतौ आवाहयामि ।
सूर्यं अष्टमतंतौ आवाहयामि ।
विश्वेदेवान् नवमतंतौ आवाहयामि ।
ब्रह्मदैवत्यं ऋग्वेदं प्रथम दोरके आवाहयामि ।
विष्णुदैवत्यं यजुर्वेदं द्वितीय दोरके आवाहयामि ।
रुद्रदैवत्यं सामवेदं तृतीयदोरके आवाहयामि ।
ओं ब्र॒ह्मादे॒वानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा᳚म् ।
श्ये॒नो गृध्रा॑णा॒ग्॒ स्वधि॑ति॒र्वना॑ना॒ग्ं॒ सोम॑: प॒वित्र॒मत्ये॑ति॒ रेभन्न्॑ ॥
ब्रह्मादेवानामिति ब्रह्मणे नमः – प्रथमग्रंथौ ब्रह्माणमावाहयामि ।
ओं इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धा निद॑धेप॒दम् ।
समू॑ढमस्यपाग्ं सु॒रे ।
इदं विष्णुरिति विष्णवे नमः – द्वितीयग्रंथौ विष्णुमावाहयामि ।
ओं कद्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से ।
वो॒चेम॒ शन्त॑मग्ं हृ॒दे ।
कद्रुद्रायमिति रुद्राय नमः – तृतीयग्रंथौ रुद्रमावाहयामि ।
यज्ञोपवीत षोडशोपचार पूज ।
ओं प्रणवाद्यावाहित देवताभ्यो नमः – ध्यायामि ।
ओं प्रणवाद्यावाहित देवताभ्यो नमः – आवाहयामि ।
ओं प्रणवाद्यावाहित देवताभ्यो नमः – पाद्यं समर्पयामि ।
ओं प्रणवाद्यावाहित देवताभ्यो नमः – अर्घ्यं समर्पयामि ।
ओं प्रणवाद्यावाहित देवताभ्यो नमः – आचमनीयं समर्पयामि ।
ओं प्रणवाद्यावाहित देवताभ्यो नमः – स्नानं समर्पयामि ।
ओं प्रणवाद्यावाहित देवताभ्यो नमः – वस्त्रयुग्मं समर्पयामि ।
ओं प्रणवाद्यावाहित देवताभ्यो नमः – यज्ञोपवीतं समर्पयामि ।
ओं प्रणवाद्यावाहित देवताभ्यो नमः – गंधं समर्पयामि ।
ओं प्रणवाद्यावाहित देवताभ्यो नमः – पुष्पाणि समर्पयामि ।
ओं प्रणवाद्यावाहित देवताभ्यो नमः – धूपमाघ्रापयामि ।
ओं प्रणवाद्यावाहित देवताभ्यो नमः – दीपं दर्शयामि ।
ओं प्रणवाद्यावाहित देवताभ्यो नमः – नैवेद्यं समर्पयामि ।
ओं प्रणवाद्यावाहित देवताभ्यो नमः – तांबूलं समर्पयामि ।
ओं प्रणवाद्यावाहित देवताभ्यो नमः – कर्पूरनीराजनं समर्पयामि ।
ओं प्रणवाद्यावाहित देवताभ्यो नमः – मंत्रपुष्पं समर्पयामि ।
ओं प्रणवाद्यावाहित देवताभ्यो नमः – आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।
सूर्यनारायण दर्शनम् –
(तै.ब्रा.३-७-६-२२)
ओं उ॒द्यन्न॒द्य मि॑त्रमहः आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् ।
हृद्रो॒गं मम॑ सूर्य ह॒रि॒माणं॑ च नाशय ।
शुके॑षु मे हरि॒माणं᳚ रो॒प॒णाका॑सु दध्मसि ।
अथो॑ हरिद्र॒वेषु॑ मे ह॒रि॒माणं॒ निद॑ध्मसि ।
उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ सह॑सा स॒ह ।
द्वि॒षन्तं॒ मह्यं॑ रं॒धय॒न् मो अ॒हं द्वि॑ष॒ते र॑धम् ॥
यज्ञोपवीतं सूर्याय दर्शयित्वा ।
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तव॑: ।
दृ॒शे विश्वा॑य सूर्यम् ॥
आचम्य ॥
पुनः संकल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ मम श्रौत स्मार्त नित्य नैमित्तिक कर्मानुष्ठान योग्यता सिद्ध्यर्थं नूतन यज्ञोपवीत धारणं करिष्ये ॥
अस्य यज्ञोपवीतमिति मंत्रस्य परमेष्ठी ऋषिः, परब्रह्म परमात्मा देवता, त्रिष्टुप् छंदः, यज्ञोपवीतधारणे विनियोगः ॥
ओं य॒ज्ञो॒प॒वी॒तं प॒रमं॑ पवि॒त्रं
प्र॒जाप॑ते॒र्यत्स॒हजं॑ पु॒रस्ता᳚त् ।
आयु॑ष्यमग्र्यं॒ प्र॒ति मुं॑च शु॒भ्रं
य॑ज्ञोपवी॒तं ब॒लम॑स्तु॒ तेज॑: ॥
आचम्य ॥
(गृहस्थः प्रति – )
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ मम उद्वाहानंतर (गार्हस्थ्य) कर्मानुष्ठान योग्यता सिद्ध्यर्थं द्वितीय यज्ञोपवीत धारणं करिष्ये ॥
ओं य॒ज्ञो॒प॒वी॒तं प॒रमं॑ पवि॒त्रं
प्र॒जाप॑ते॒र्यत्स॒हजं॑ पु॒रस्ता᳚त् ।
आयु॑ष्यमग्र्यं॒ प्र॒ति मुं॑च शु॒भ्रं
य॑ज्ञोपवी॒तं ब॒लम॑स्तु॒ तेज॑: ॥
(गृहस्थः प्रति – )
आचम्य ॥
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ उत्तरीयार्थं तृतीय यज्ञोपवीतधारणं करिष्ये ॥
ओं य॒ज्ञो॒प॒वी॒तं प॒रमं॑ पवि॒त्रं
प्र॒जाप॑ते॒र्यत्स॒हजं॑ पु॒रस्ता᳚त् ।
आयु॑ष्यमग्र्यं॒ प्र॒ति मुं॑च शु॒भ्रं
य॑ज्ञोपवी॒तं ब॒लम॑स्तु॒ तेज॑: ॥
आचम्य ॥
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ नूतन यज्ञोपवीते मंत्र सिद्ध्यर्थं यथाशक्ति गायत्री मंत्रजपं करिष्ये ॥
गायत्री ध्यानम् –
मुक्ता विद्रुम हेम नील धवळच्छायैर्मुखैस्त्रीक्षणैः
युक्तामिंदु निबद्ध रत्नमकुटां तत्त्वार्थ वर्णात्मिकाम् ।
गायत्रीं वरदाभयांकुश कशाः शुभ्रं कपालं गदां
शंखं चक्रमथारविंदयुगळं हस्तैर्वहंतीं भजे ॥
दश गायत्री जपं –
ओं भूर्भुव॒स्सुव॑: । तत्स॑वितु॒र्वरे᳚ण्य॒म् । भर्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥
आचम्य ॥
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ जीर्णयज्ञोपवीत विसर्जनं करिष्ये ।
उपवीतं छिन्नतंतुं जीर्णं कश्मलदूषितम् ।
विसृजामि यशो ब्रह्मवर्चो दीर्घायुरस्तु मे ॥
एतावद्दिन पर्यंतं ब्रह्मत्वं धारितं मया ।
जीर्णत्वात् त्वत् परित्यागो गच्छ सूत्र यथा सुखम् ॥
यज्ञोपवीतं यदि जीर्णवंतं
वेदांत नित्यं परब्रह्म सत्यम् ।
आयुष्यमग्र्यं प्रतिमुंच शुभ्रं
यज्ञोपवीतं विसृजस्तुतेजः ॥
जीर्णयज्ञोपवीत विसर्जन मंत्रम् –
स॒मु॒द्रं ग॑च्छ॒ स्वाहा॑ऽन्तरि॑क्षं गच्छ॒ स्वाहा॑ दे॒वग्ं स॑वि॒तारं॑ गच्छ॒ स्वाहा॑ऽहोरा॒त्रे ग॑च्छ॒ स्वाहा॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॒ सोमं॑ गच्छ॒ स्वाहा॑ य॒ज्ञं ग॑च्छ॒ स्वाहा॒ छन्दाग्ं॑सि गच्छ॒ स्वाहा॒ द्यावा॑ पृथि॒वी ग॑च्छ॒ स्वाहा॒ नभो॑ दि॒व्यं ग॑च्छ॒ स्वाहा॒ऽग्निं वै᳚श्वान॒रं ग॑च्छ॒ स्वाहा॒ऽद्भ्यस्त्वौष॑धीभ्यो॒ मनो॑ मे॒ हार्दि॑ यच्छ त॒नूं त्वचं॑ पु॒त्रं नप्ता॑रमशीय॒ शुग॑सि॒ तम॒भि शो॑च॒ यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो धाम्नो॑धाम्नो राजन्नि॒तो व॑रुण नो मुञ्च॒ यदापो॒ अंघ्नि॑या॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च ॥
इति जीर्ण यज्ञोपवीतं विसृजेत् ।
आचम्य ॥
ओं तत्सत् ब्रह्मार्पणमस्तु ॥
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.