Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ हनूमाद्यागमनम् ॥
सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः ।
राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ॥ १ ॥
स प्रणम्य च सुग्रीवं राघवौ च महाबलौ ।
वानरैः सह तैः शूरैर्दिवमेवोत्पपात ह ॥ २ ॥
स यथैवागतः पूर्वं तथैव त्वरितं गतः ।
निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह ॥ ३ ॥
स प्रविष्टो मधुवनं ददर्श हरियूथपान् ।
विमदानुत्थितान्सर्वान्मेहमानान्मधूदकम् ॥ ४ ॥
स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम् ।
उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् ॥ ५ ॥
सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः ।
अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः ॥ ६ ॥
युवराजस्त्वमीशश्च वनस्यास्य महाबल ।
मौर्ख्यात्पूर्वं कृतो दोषस्तं भवान् क्षन्तुमर्हति ॥ ७ ॥
आख्यातं हि मया गत्वा पितृव्यस्य तवानघ ।
इहोपयातं सर्वेषामेतेषां वनचारिणाम् ॥ ८ ॥
स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः ।
प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम् ॥ ९ ॥
प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः ।
शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः ॥ १० ॥
श्रुत्वा दधिमुखस्तैतद्वचनं श्लक्ष्णमङ्गदः ।
अब्रवीत्तान्हरिश्रेष्ठो वाक्यं वाक्यविशारदः ॥ ११ ॥
शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः ।
तत्क्षमं नेह नः स्थातुं कृते कार्ये परन्तपाः ॥ १२ ॥
पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः ।
किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः ॥ १३ ॥
सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः ।
तथाऽस्मि कर्ता कर्तव्ये भवद्भिः परवानहम् ॥ १४ ॥
नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि ।
अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया ॥ १५ ॥
ब्रुवतश्चाङ्गदस्यैवं श्रुत्वा वचनमव्ययम् ।
प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः ॥ १६ ॥
एवं वक्ष्यति को राजन्प्रभुः सन्वानरर्षभ ।
ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते ॥ १७ ॥
तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित् ।
सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम् ॥ १८ ॥
सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः ।
स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः ॥ १९ ॥
त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम् ।
क्वचिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते ॥ २० ॥
एवं तु वदतां तेषामङ्गदः प्रत्यभाषत ।
बाढं गच्छाम इत्युक्त्वा उत्पपात महीतलात् ॥ २१ ॥ [खमुत्पेतुर्महाबलाः]
उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः ।
कृत्वाकाशं निराकाशं यन्त्रोत्क्षिप्ता इवाचलाः ॥ २२ ॥
[* अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् । *]
तेम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः ।
विनदन्तो महानादं घना वातेरिता यथा ॥ २३ ॥
अङ्गदे समनुप्राप्ते सुग्रीवो वानराधिपः ।
उवाच शोकोपहतं रामं कमललोचनम् ॥ २४ ॥
समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः ।
नागन्तुमिह शक्यं तैरतीते समये हि नः ॥ २५ ॥
न मत्सकाशमागच्छेत्कृत्ये हि विनिपातिते ।
युवराजो महाबाहुः प्लवतां प्रवरोङ्गदः ॥ २६ ॥
यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः ।
भवेत्स दीनवदनो भ्रान्तविप्लुतमानसः ॥ २७ ॥
पितृपैतामहं चैतत्पूर्वकैरभिरक्षितम् ।
न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः ॥ २८ ॥
कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत ।
दृष्टा देवी न सन्देहो न चान्येन हनूमता ॥ २९ ॥
न ह्यन्यः कर्मणो हेतुः साधनेऽस्य हनूमतः ।
हनूमति हि सिद्धिश्च मतिश्च मतिसत्तम ॥ ३० ॥
व्यवसायश्च वीर्यं च सूर्ये तेज इव ध्रुवम् ।
जाम्बवान्यत्र नेता स्यादङ्गदश्च बलेश्वरः ॥ ३१ ॥
हनुमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ।
मा भूश्चिन्तासमायुक्तः सम्प्रत्यमितविक्रम ॥ ३२ ॥
ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे ।
हनुमत्कर्मदृप्तानां नर्दतां काननौकसाम् ॥ ३३ ॥
किष्किन्धामुपयातानां सिद्धिं कथयतामिव ।
ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः ॥ ३४ ॥
आयताञ्चितलाङ्गूलः सोऽभवद्धृष्टमानसः ।
आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणः ॥ ३५ ॥
अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् ।
तेऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदान्विताः ॥ ३६ ॥
निपेतुर्हरिराजस्य समीपे राघवस्य च ।
हनुमांश्च महाबहुः प्रणम्य शिरसा ततः ॥ ३७ ॥
नियतामक्षतां देवीं राघवाय न्यवेदयत् ॥ ३८ ॥
[* अधिकपाठः –
दृष्टा देवीति हनुमद्वदनादमृतोपमम् ।
आकर्ण्य वचनं रामो हर्षमाप सलक्ष्मणः ॥
*]
निश्चितार्थस्ततस्तस्मिन्सुग्रीवः पवनात्मजे ।
लक्ष्मणः प्रीतिमान्प्रीतं बहुमानादवैक्षत ॥ ३९ ॥
प्रीत्या च रममाणोऽथ राघवः परवीरहा ।
बहुमानेन महता हनूमन्तमवैक्षत ॥ ४० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुःषष्टितमः सर्गः ॥ ६४ ॥
सुन्दरकाण्ड पञ्चषष्टितमः सर्गः (६५)>>
सम्पूर्ण वाल्मीकि सुन्दरकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.