Site icon Stotra Nidhi

Sri Venkatesha Stotram – श्री वेङ्कटेश स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

कौशिकश्रीनिवासार्यतनयं विनयोज्ज्वलम् ।
वात्सल्यादिगुणावासं वन्दे वरददेशिकम् ॥

पद्मस्थां युवतीं परार्ध्यवृषभाद्रीशायतोरस्स्थली-
मध्यावासमहोत्सवां क्षणसकृद्विश्लेषवाक्यासहाम् ।
मूर्तीभावमुपागतामिव कृपां मुग्धाखिलाङ्गां श्रियं
नित्यानन्दविधायिनीं निजपदे न्यस्तात्मनां संश्रये ॥ १ ॥

श्रीमच्छेषमहीधरेशचरणौ प्राप्यौ च यौ प्रापकौ
अस्मद्देशिकपुङ्गवैः करुणया सन्दर्शितौ तावकौ ।
प्रोक्तौ वाक्ययुगेन भूरिगुणकावार्यैश्च पूर्वैर्मुहुः
श्रेयोभिः शठवैरिमुख्यमुनिभिस्तौ संश्रितौ संश्रये ॥ २ ॥

यस्यैकं गुणमादृताः कवयितुं नित्याः प्रवृत्ता गिरः
तस्याभूमितया स्ववाङ्मनसयोर्वैक्लब्यमासेदिरे ।
तत्तादृग्बहुसद्गुणं कवयितुं मोहाद्वृषाद्रीश्वरं
काङ्क्षे कार्यविवेचनं न हि भवेन्मूढाशयानां नृणाम् ॥ ३ ॥

यत्पादा ॥ योषितं निजसकृत्स्पर्शेन काञ्चिच्छिला-
मङ्गार ॥ डिम्भतामनुपमौ शान्तं कमप्यञ्चितौ ।
यत्पादूरखिलां शशास च महीमाश्चर्यसीमास्थलीम्
अद्राक्षं हरिमञ्जनाचलतटे निर्निद्रपद्मेक्षणम् ॥ ४ ॥

अत्रस्यन्मणिराजराजिविलसन्मञ्जीरनिर्यन्महः-
स्तोमप्रास्तसमस्तविस्तृततमश्श्रीमन्दिराभ्यन्तरम् ।
व्याकोचाम्बुजसुन्दरं चरणयोर्द्वन्द्वं वृषाद्रीशितुः
चक्षुर्भ्यामनुभूय सर्वसुलभं प्राप्स्यामि मोदं कदा ॥ ५ ॥

सत्कृत्या समकाललब्धतनुभिर्गोपीभिरत्यादरात्
विन्यस्तौ वदने कुचे च नितरां रोमाञ्चरोहाञ्चिते ।
पद्माभूकरपल्लवैः सचकितं संवाह्यमानौ मृदू
मान्यौ वेङ्कटभूधरेशचरणौ मार्गे दृशोः स्तां मम ॥ ६ ॥

प्रातः फुल्लपयोरुहान्तरदलस्निग्धारुणान्तस्थलौ
निष्पीताखिलनीरनीरधिलसन्नीलाम्बुदाभौ बहिः ।
राकाशीतमरीचिसन्निभनखज्योतिर्वितानाञ्चितौ
पादौ पन्नगपुङ्गवाचलपतेर्मध्येमनस्स्तां मम ॥ ७ ॥

मन्दारप्रसवाभिरामशिरसां बृन्दारकश्रेयसां
बृन्दैरिन्दुकलाभृता च विधिना वन्द्यौ धृतानन्दथू ।
बन्धच्छेदविधायिनौ विनमतां छन्दश्शताभिष्टुतौ
वन्दे शेषमहीधरेशचरणौ वन्दारुचिन्तामणी ॥ ८ ॥

चिञ्चामूलकृतासनेन मुनिना तत्त्वार्थसन्दर्शिना
कारुण्येन जगद्धितं कथयता स्वानुष्ठितिख्यापनात् ।
निश्चिक्ये शरणं यदेव परमं प्राप्यं च सर्वात्मनां
तत्पादाब्जयुगं भजामि वृषभक्षोणीधराधीशितुः ॥ ९ ॥

नन्दिष्यामि कदाऽहमेत्य महता घर्मेण तप्तो यथा
मन्दोदञ्चितमारुतं मरुतले मर्त्यो महान्तं ह्रदम् ।
सन्तप्तो भवतापदावशिखिना सर्वार्तिसंशामकं
पादद्वन्द्वमहीशभूधरपतेर्निर्द्वन्द्वहृन्मन्दिरम् ॥ १० ॥

यौ बृन्दावनभूतले व्यहरतां दैतेयबृन्दावृते
कुप्यत्कालियविस्तृतोच्छ्रितफणारङ्गेषु चानृत्यताम् ।
किञ्चानस्समुदास्थतां किसलयप्रस्पर्धिनावासुरं
तन्वातां मम वेङ्कटेशचरणौ तावंहसां संहृतिम् ॥ ११ ॥

शेषित्वप्रमुखान्निपीय तु गुणान्नित्या हरेस्सूरयो
वैकुण्ठे तत एत्य वेङ्कटगिरिं सौलभ्यमुख्यानिह ।
नित्योदञ्चितसंनिधेर्निरुपमान्निर्विश्य तस्याद्भुतान्
निर्गन्तुं प्रभवन्ति हन्त न ततो वैकुण्ठकुण्ठादराः ॥ १२ ॥

सम्फुल्लाद्भुतपुष्पभारविनमच्छाखाशतानां सदा
सौरभ्यानुभवाभियन्मधुलिहां सङ्घैर्वृते भूरुहाम् ।
उद्यद्रश्मिभिरुज्ज्वलैर्मणिगणैरुत्तुङ्गशृङ्गैर्वृष-
क्षोणीभर्तरि वर्ततेऽखिलजगत्क्षेमाय लक्ष्मीसखः ॥ १३ ॥

नानादिङ्मुखवासिनो नरगणानभ्यागतानादरात्
प्रत्युद्यात इवान्तिकस्फुटतरप्रेक्ष्यप्रसन्नाननः ।
सानुक्रोशमनास्सडिम्भमहिलान् सम्प्राप्तसर्वेप्सितान्
कुर्वन्नञ्जनभूधरे कुवलयश्यामो हरिर्भासते ॥ १४ ॥

आपादादनवद्यमाच शिरसस्सौन्दर्यसीमास्पदं
हस्तोदञ्चितशङ्खचक्रमुरसा बिभ्राणमम्भोधिजाम् ।
माल्यैरुल्लसितं मनोज्ञमकुटीमुख्यैश्च भूषाशतैः
मध्येतारणमञ्जनाचलतटे भान्तं हरिं भावये ॥ १५ ॥

मञ्जीराञ्चितपादमद्भुतकटीविभ्राजिपीताम्बरं
पद्मालङ्कृतनाभिमङ्गमहसा पाथोधरभ्रान्तिदम् ।
पार्श्वालङ्कृतिशङ्खचक्रविलसत्पाणिं परं पूरुषं
वन्दे मन्दहसं विचित्रमकुटीजुष्टं वृषाद्रीश्वरम् ॥ १६ ॥

नानाभासुररत्नमौक्तिकवरश्रेणीलसत्तोरण-
स्वर्णस्तम्भयुगान्तरालकभृशप्रद्योतमानाननम् ।
आनासश्रुतिलोलनीलविशदस्निग्धान्तरक्तेक्षणं
नाथं प्रेक्षितुमञ्जनाचलतटे नालं सहस्रं दृशाम् ॥ १७ ॥

चक्राब्जे करयुग्मकेन सततं बिभ्रत् करेण स्पृशन्
सव्येनोरुमपीतरेण चरणौ सन्दर्शयन् भूषणैः ।
सद्रत्नैः सकला दिशो वितिमिराः कुर्वन् वृषाद्रौ हरिः
शुद्धस्वान्तनिषेविते विजयते शुद्धान्तबाहान्तरः ॥ १८ ॥

सुस्निग्धाधरपल्लवं मृदुहसं मीनोल्लसल्लोचनं
गण्डप्रस्फुरदंशुकुण्डलयुगं विभ्राजिसुभ्रून्नसम् ।
फालोद्भासिपरार्ध्यरत्नतिलकं वक्त्रं प्रलम्बालकं
भव्यं वेङ्कटनायकस्य पिबतां भाग्यं न वाचां पदम् ॥ १९ ॥

त्वत्पादाम्बुजसस्पृहं मम मनः कुर्यास्त्वदन्यस्पृहां
दूरं तोलय दुःखजालजननीं त्वत्पादवाञ्छाद्विषम् ।
किञ्च त्वत्परतन्त्रभूसुरकृपापात्रं क्रिया मां सदा
सर्पाधीश्वरभूधरेन्द्र भगवन् सर्वार्थसन्दायक ॥ २० ॥

नाकार्षं श्रुतिचोदितां कृतिमहं किञ्चिन्न चावेदिषं
जीवेशौ भवभञ्जनी न च भवत्पादाब्जभक्तिर्मम ।
श्रीमत्त्वत्करुणैव देशिकवरोपज्ञं प्रवृत्ता मयि
त्वत्प्राप्तौ शरणं वृषाचलपतेऽभूवं ततस्त्वद्भरः ॥ २१ ॥

श्रीमत्कौशिकवंशवारिधिविधोः श्रीवेङ्कटेशाख्यया
विख्यातस्य गुरोर्विशुद्धमनसो विद्यानिधेः सूनुना ।
भक्त्यैतां वरदाभिधेन भणितां श्रीवेङ्कटेशस्तुतिं
भव्यां यस्तु पठेदमुष्य वितरेच्छ्रेयः परं श्रीसखः ॥

इति वेङ्कटेश स्तोत्रम् ।


इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments