Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सहस्रार महाशूर रणधीर गिरा स्तुतिम् ।
षट्कोणरिपुहृद्बाण सन्त्राण करवाणि ते ॥ १ ॥
यस्त्वत्तस्तप्तसुतनुः सोऽत्ति मुक्तिफलं किल ।
नातप्ततनुरित्यस्तौत् ख्याता वाक् त्वं महौजस ॥ २ ॥
हतवक्रद्विषच्चक्र हरिचक्र नमोऽस्तु ते ।
प्रकृतिघ्नासतां विघ्न त्वमभग्नपराक्रम ॥ ३ ॥
कराग्रे भ्रमणं विष्णोर्यदा ते चक्र जायते ।
तदा द्विधाऽपि भ्रमणं दृश्यतेऽन्तर्बहिर्द्विषाम् ॥ ४ ॥
वरादवध्यदैत्यौघशिरः खण्डनचातुरी ।
हरेरायुध ते दृष्टा न दृष्टा या हरायुधे ॥ ५ ॥
अवार्यवीर्यस्य हरेः कार्येषु त्वं धुरन्धरः ।
असाध्यसाधको राट् ते त्वं चासाध्यस्य साधकः ॥ ६ ॥
ये विघ्नकन्धराश्चक्र दैतेयास्तव धारया ।
त एव चित्रमनयंस्तथाऽप्यच्छिन्नकन्धराम् ॥ ७ ॥
अरे तवाग्रे नृहरेररिः कोऽपि न जीवति ।
नेमे तवाग्रे कामाद्या नेमे जीवन्त्वहो द्विषः ॥ ८ ॥
पवित्र पविवत् त्राहि पवित्रीकुरु चाश्रितान् ।
चरण श्रीशचरणौ स्थिरीकुरु मनस्सु नः ॥ ९ ॥
यस्त्वं दुर्वाससः पृष्ठनिष्ठो दृष्टोऽखिलैः सुरैः ।
अस्तावयः स्वभर्तारं सत्वं स्तावय मद्गिरा ॥ १० ॥
भूस्थदुर्दर्शनं सर्वं धिक्कुरुष्व सुदर्शन ।
वायोः सुदर्शनं सर्वस्यायोध्यं कुरु ते नमः ॥ ११ ॥
सुष्ठु दर्शय लक्ष्मीशतत्त्वं सूर्यायुतप्रभ ।
द्वारं नः कुरु हर्याप्त्यै कृतद्वार त्वमस्यपि ॥ १२ ॥
पद्यानि निरवद्यानि वादिराजाभिधः सुधीः ।
द्वादश द्वादशारस्य चक्रस्य स्तुतयेऽकृत ॥ १३ ॥
इति श्रीवादिराजयति कृतं श्री सहस्रार स्तुतिः ।
इतर श्री विष्णु स्तोत्राणि पश्यतु |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.