Site icon Stotra Nidhi

Sri Gayatri Hrudayam (Devi Bhagavate) – श्री गायत्री हृदयम् (देवीभागवते)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

नारद उवाच ।
भगवन् देवदेवेश भूतभव्यजगत्प्रभो ।
कवचं च श्रुतं दिव्यं गायत्रीमन्त्रविग्रहम् ॥ १ ॥

अधुना श्रोतुमिच्छामि गायत्रीहृदयं परम् ।
यद्धारणाद्भवेत्पुण्यं गायत्रीजपतोऽखिलम् ॥ २ ॥

श्रीनारायण उवाच ।
देव्याश्च हृदयं प्रोक्तं नारदाथर्वणे स्फुटम् ।
तदेवाहं प्रवक्ष्यामि रहस्यातिरहस्यकम् ॥ ३ ॥

विराड्रूपां महादेवीं गायत्रीं वेदमातरम् ।
ध्यात्वा तस्यास्त्वथाङ्गेषु ध्यायेदेताश्च देवताः ॥ ४ ॥

पिण्डब्रह्मण्डयोरैक्याद्भावयेत्स्वतनौ तथा ।
देवीरूपे निजे देहे तन्मयत्वाय साधकः ॥ ५ ॥

नादेवोऽभ्यर्चयेद्देवमिति वेदविदो विदुः ।
ततोऽभेदाय काये स्वे भावयेद्देवता इमाः ॥ ६ ॥

अथ तत्सम्प्रवक्ष्यामि तन्मयत्वमथो भवेत् ।
गायत्रीहृदयस्याऽस्याऽप्यहमेव ऋषिः स्मृतः ॥ ७ ॥

गायत्रीछन्द उद्दिष्टं देवता परमेश्वरी ।
पूर्वोक्तेन प्रकारेण कुर्यादङ्गानि षट्क्रमात् ।
आसने विजने देशे ध्यायेदेकाग्रमानसः ॥ ८ ॥

अथार्थन्यासः । द्यौमूर्ध्नि दैवतम् । दन्तपङ्क्तावश्विनौ । उभे सन्ध्ये चौष्ठौ । मुखमग्निः । जिह्वा सरस्वती । ग्रीवायां तु बृहस्पतिः । स्तनयोर्वसवोऽष्टौ । बाह्वोर्मरुतः । हृदये पर्जन्यः । आकाशमुदरम् । नाभावन्तरिक्षम् । कट्योरिन्द्राग्नी । जघने विज्ञानघनः प्रजापतिः । कैलासमलये ऊरू । विश्वेदेवा जान्वोः । जङ्घायां कौशिकः । गुह्यमयने । ऊरू पितरः । पादौ पृथिवी । वनस्पतयोऽङ्गुलीषु । ऋषयो रोमाणि । नखानि मुहूर्तानि । अस्थिषु ग्रहाः । असृङ्मांसमृतवः ॥ संवत्सरा वै निमिषम् । अहोरात्रावादित्यश्चन्द्रमाः । प्रवरां दिव्यां गायत्रीं सहस्रनेत्रां शरणमहं प्रपद्ये ॥

ओं तत्सवितुर्वरेण्याय नमः । ओं तत्पूर्वाजयाय नमः । तत्प्रातरादित्याय नमः । तत्प्रातरादित्यप्रतिष्ठायै नमः ॥

प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । सायं प्रातरधीयानो अपापो भवति । सर्वतीर्थेषु स्नातो भवति । सर्वैर्देवैर्ज्ञातो भवति । अवाच्यवचनात्पूतो भवति । अभक्ष्यभक्षणात्पूतो भवति । अभोज्यभोजनात्पूतो भवति । अचोष्यचोषणात्पूतो भवति । असाध्यसाधनात्पूतो भवति । दुष्प्रतिग्रहशतसहस्रात्पूतो भवति । सर्वप्रतिग्रहात्पूतो भवति । पङ्क्तिदूषणात्पूतो भवति । अनृतवचनात्पूतो भवति । अथाऽब्रह्मचारी ब्रह्मचारी भवती । अनेन हृदयेनाधीतेन क्रतुसहस्रेणेष्टं भवति । षष्टिशतसहस्रगायत्र्या जप्यानि फलानि भवन्ति । अष्टौ ब्राह्मणान् सम्यग्ग्राहयेत् । तस्य सिद्धिर्भवति । य इदं नित्यमधीयानो ब्राह्मणः प्रातः शुचिः सर्वपापैः प्रमुच्यत इति । ब्रह्मलोके महीयते ॥

इत्याह भगवान् श्रीनारायणः ॥

इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे श्री गायत्री हृदयं नाम चतुर्थोऽध्यायः ॥


इतर श्री गायत्री स्तोत्राणि पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments