Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
क्व प्रासूत कदा त्वां गौरी न प्रामाण्यं तव जनने ।
विप्राः प्राहुरजं गणराजं यः प्राचामपि पूर्वतमः ॥ १ ॥
नासि गणपते शङ्करात्मजो भासि तद्वदेवाखिलात्मकः ।
ईशता तवानीशता नृणां केशवेरिता साशयोक्तिभिः ॥ २ ॥
गजमुख तावकमन्त्र महिम्ना सृजति जगद्विधिरनुकल्पम् ।
भजति हरिस्त्वां तदवनकृत्ये यजति हरोऽपि विरामविधौ ॥ ३ ॥
सुखयति शतमखमुखसुरनिकरानखिलक्रतु विघ्नघ्नोऽयम् ।
निखिलजगज्जीवकजीवनदः स खलु यतः पर्जन्यात्मा ॥ ४ ॥
प्रारम्भे कार्याणां हेरम्बं यो ध्यायेत् ।
पारं यात्येव कृतेरारादाप्नोति सुखम् ॥ ५ ॥
गौरीसूनोः पादाम्भोजे लीना चेतोवृत्तिर्मे ।
घोरे संसारारण्ये वासः कैलासे वास्तु ॥ ६ ॥
गुहगुरु पदयुगमनिशमभयदम् ।
वहसि मनसि यदि शमयसि दुरितम् ॥ ७ ॥
जय जय शङ्करवरसूनो भयहर भजतां गणराज ।
नय मम चेतस्तव चरणं नियमय धर्मेऽन्तः करणम् ॥ ८ ॥
चलसि चित्त किन्नु विषमविषयकानने
कलय वृत्तिममृत दातृकरिवरानने ।
तुलय खेदमोदयुगलमिदमशाश्वतं
विलय भयमलङ्घ्यमेव जन्मनि स्मृतम् ॥ ९ ॥
सोमशेखरसूनवे सिन्दूरसोदरभानवे
यामिनीपतिमौलये यमिहृदयविरचितकेलये ।
मूषकाधिपगामिने मुख्यात्मनोऽन्तर्यामिने
मङ्गलं विघ्नद्विषे मत्तेभवक्त्रज्योतिषे ॥ १० ॥
अवधीरितदाडिमसुम सौभगमवतु गणेशज्योति-
-र्मामवतु गणेशज्योतिः ।
हस्तचतुष्टयधृत वरदाभय पुस्तकबीजापूरं
धृत पुस्तकबीजापूरम् ॥ ११ ॥
रजताचल वप्रक्रीडोत्सुक गजराजास्यमुदारं
भज श्रीगजराजास्यमुदारम् ।
फणिपरिकृत कटिवलयाभरणं कृणु रे जनहृदिकारणं
तव कृणु रे जनहृदिकारणम् ॥ १२ ॥
यः प्रगे गजराजमनुदिनमप्रमेयमनुस्मरेत् ।
स प्रयाति पवित्रिताङ्गो विप्रगङ्गाद्यधिकताम् ॥ १३ ॥
सुब्रह्मण्यमनीषिविरचिता त्वब्रह्मण्यमपाकुरुते ।
गणपतिगीता गानसमुचिता सम्यक्पठतां सिद्धान्तः ॥ १४ ॥
इति श्रीसुब्रह्मण्ययोगि विरचित श्री गणपति गीता ॥
इतर श्री गणेश स्तोत्राणि पश्यतु ।
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.