Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्रीबालास्तवराजस्तोत्रस्य श्रीमृत्युञ्जय ऋषिः, ककुप्छन्दः, श्रीबाला देवता, क्लीं बीजं, सौः शक्तिः, ऐं कीलकं, भोगमोक्षार्थे जपे विनियोगः ।
करन्यासः –
ऐं अङ्गुष्ठाभ्यां नमः ।
क्लीं तर्जनीभ्यां नमः ।
सौः मध्यमाभ्यां नमः ।
ऐं अनामिकाभ्यां नमः ।
क्लीं कनिष्ठिकाभ्यां नमः ।
सौः करतल करपृष्ठाभ्यां नमः ।
हृदयादिन्यासः –
ऐं हृदयाय नमः ।
क्लीं शिरसे स्वाहा ।
सौः शिखायै वषट् ।
ऐं कवचाय हुम् ।
क्लीं नेत्रत्रयाय वौषट् ।
सौः अस्त्राय फट् ।
भूर्भुवस्सुवरों इति दिग्बन्धः ॥
ध्यानम् ।
अक्षपुस्तधरां रक्तां वराभयकराम्बुजाम् ।
चन्द्रमुण्डां त्रिनेत्रां च ध्यायेद्बालां फलप्रदाम् ॥ १ ॥
ऐं त्रैलोक्यविजयायै हुं फट् ।
क्लीं त्रिगुणरहितायै हुं फट् ।
सौः सर्वैश्वर्यदायिन्यै हुं फट् ॥ २ ॥
नातः परतरा सिद्धिर्नातः परतरा गतिः ।
नातः परतरो मन्त्रः सत्यं सत्यं वदाम्यहम् ॥ ३ ॥
रक्तां रक्तच्छदां तीक्ष्णां रक्तपां रक्तवाससीम् ।
स्वरूपां रत्नभूषां च ललज्जिह्वां परां भजे ॥ ४ ॥
त्रैलोक्यजननीं सिद्धां त्रिकोणस्थां त्रिलोचनाम् ।
त्रिवर्गफलदां शान्तां वन्दे बीजत्रयात्मिकाम् ॥ ५ ॥
श्रीबालां वारुणीप्रीतां बालार्ककोटिद्योतिनीम् ।
वरदां बुद्धिदां श्रेष्ठां वामाचारप्रियां भजे ॥ ५ ॥
चतुर्भुजां चारुनेत्रां चन्द्रमौलिं कपालिनीम् ।
चतुःषष्टियोगिनीशां वीरवन्द्यां भजाम्यहम् ॥ ६ ॥
कौलिकां कलतत्त्वस्थां कौलावाराङ्कवाहनाम् ।
कौसुम्भवर्णां कौमारीं कवर्मधारिणीं भजे ॥ ७ ॥
द्वादशस्वररूपायै नमस्तेऽस्तु नमो नमः ।
नमो नमस्ते बालायै कारुण्यायै नमो नमः ॥ ८ ॥
विद्याविद्याद्यविद्यायै नमस्तेऽस्तु नमो नमः ।
विद्याराज्ञ्यै महादेव्यै शिवायै सततं नमः ॥ ९ ॥
ऐं बालायै विद्महे क्लीं त्रिभुवनेश्वर्यै धीमहि ।
सौः तन्नो देवी प्रचोदयात् । ऐं बालायै स्वाहा ॥ १० ॥
द्वादशान्तालयां श्रेष्ठां षोडशाधारगां शिवाम् ।
पञ्चेन्द्रियस्वरूपाख्यां भूयो भूयो नमाम्यहम् ॥ ११ ॥
ब्रह्मविद्यां ब्रह्मरूपां ब्रह्मज्ञानप्रदायिनीम् ।
वसुप्रदां वेदरूपां वन्दे बालां शुभाननाम् ॥ १२ ॥
अघोरां भीषणामाद्यामनन्तोपरिसंस्थिताम् ।
देवदेवेश्वरीं भद्रां श्रीबालां प्रणमाम्यहम् ॥ १३ ॥
भवप्रियां भवाधारां भगरूपां भगप्रियाम् ।
भयानकां भूतधात्रीं भूदेवपूजितां भजे ॥ १४ ॥
अकारादिक्षकारान्तां क्लीबाक्षरात्मिकां पराम् ।
वन्दे वन्दे महामायां भवभव्यभयापहाम् ॥ १५ ॥
नाडीरूप्यै नमस्तेऽस्तु धातुरूप्यै नमो नमः ।
जीवरूप्यै नमस्यामि ब्रह्मरूप्यै नमो नमः ॥ १६ ॥
नमस्ते मन्त्ररूपायै पीठगायै नमो नमः ।
सिंहासनेश्वरि तुभ्यं सिद्धिरूप्यै नमो नमः ॥ १७ ॥
नमस्ते मातृरूपिण्यै नमस्ते भैरवप्रिये ।
नमस्ते चोपपीठायै बालायै सततं नमः ॥ १८ ॥
योगेश्वर्यै नमस्तेऽस्तु योगदायै नमो नमः ।
योगनिद्रास्वरूपिण्यै बालादेव्यै नमो नमः ॥ १९ ॥
सुपुण्यायै नमस्तेऽस्तु सुशुद्धायै नमो नमः ।
सुगुह्यायै नमस्तेऽस्तु बालादेव्यै नमो नमः ॥ २० ॥
इतीदं स्तवराजाख्यं सर्वस्तोत्रोत्तमोत्तमम् ।
ये पठन्ति महेशानि पुनर्जन्म न विद्यते ॥ २१ ॥
सर्वपापहरं पुण्यं सर्वस्फोटविनाशकम् ।
सर्वसिद्धिप्रदं श्रेष्ठं भोगैश्वर्यप्रदायकम् ॥ २२ ॥
भूर्भुवस्सुवरों इति दिग्विमोकः ॥
इति श्री बाला स्तवराजः ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.