Site icon Stotra Nidhi

Sri Bala Stavaraja – श्री बाला स्तवराजः

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

अस्य श्रीबालास्तवराजस्तोत्रस्य श्रीमृत्युञ्जय ऋषिः, ककुप्छन्दः, श्रीबाला देवता, क्लीं बीजं, सौः शक्तिः, ऐं कीलकं, भोगमोक्षार्थे जपे विनियोगः ।

करन्यासः –
ऐं अङ्गुष्ठाभ्यां नमः ।
क्लीं तर्जनीभ्यां नमः ।
सौः मध्यमाभ्यां नमः ।
ऐं अनामिकाभ्यां नमः ।
क्लीं कनिष्ठिकाभ्यां नमः ।
सौः करतल करपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ऐं हृदयाय नमः ।
क्लीं शिरसे स्वाहा ।
सौः शिखायै वषट् ।
ऐं कवचाय हुम् ।
क्लीं नेत्रत्रयाय वौषट् ।
सौः अस्त्राय फट् ।
भूर्भुवस्सुवरों इति दिग्बन्धः ॥

ध्यानम् ।
अक्षपुस्तधरां रक्तां वराभयकराम्बुजाम् ।
चन्द्रमुण्डां त्रिनेत्रां च ध्यायेद्बालां फलप्रदाम् ॥ १ ॥

ऐं त्रैलोक्यविजयायै हुं फट् ।
क्लीं त्रिगुणरहितायै हुं फट् ।
सौः सर्वैश्वर्यदायिन्यै हुं फट् ॥ २ ॥

नातः परतरा सिद्धिर्नातः परतरा गतिः ।
नातः परतरो मन्त्रः सत्यं सत्यं वदाम्यहम् ॥ ३ ॥

रक्तां रक्तच्छदां तीक्ष्णां रक्तपां रक्तवाससीम् ।
स्वरूपां रत्नभूषां च ललज्जिह्वां परां भजे ॥ ४ ॥

त्रैलोक्यजननीं सिद्धां त्रिकोणस्थां त्रिलोचनाम् ।
त्रिवर्गफलदां शान्तां वन्दे बीजत्रयात्मिकाम् ॥ ५ ॥

श्रीबालां वारुणीप्रीतां बालार्ककोटिद्योतिनीम् ।
वरदां बुद्धिदां श्रेष्ठां वामाचारप्रियां भजे ॥ ५ ॥

चतुर्भुजां चारुनेत्रां चन्द्रमौलिं कपालिनीम् ।
चतुःषष्टियोगिनीशां वीरवन्द्यां भजाम्यहम् ॥ ६ ॥

कौलिकां कलतत्त्वस्थां कौलावाराङ्कवाहनाम् ।
कौसुम्भवर्णां कौमारीं कवर्मधारिणीं भजे ॥ ७ ॥

द्वादशस्वररूपायै नमस्तेऽस्तु नमो नमः ।
नमो नमस्ते बालायै कारुण्यायै नमो नमः ॥ ८ ॥

विद्याविद्याद्यविद्यायै नमस्तेऽस्तु नमो नमः ।
विद्याराज्ञ्यै महादेव्यै शिवायै सततं नमः ॥ ९ ॥

ऐं बालायै विद्महे क्लीं त्रिभुवनेश्वर्यै धीमहि ।
सौः तन्नो देवी प्रचोदयात् । ऐं बालायै स्वाहा ॥ १० ॥

द्वादशान्तालयां श्रेष्ठां षोडशाधारगां शिवाम् ।
पञ्चेन्द्रियस्वरूपाख्यां भूयो भूयो नमाम्यहम् ॥ ११ ॥

ब्रह्मविद्यां ब्रह्मरूपां ब्रह्मज्ञानप्रदायिनीम् ।
वसुप्रदां वेदरूपां वन्दे बालां शुभाननाम् ॥ १२ ॥

अघोरां भीषणामाद्यामनन्तोपरिसंस्थिताम् ।
देवदेवेश्वरीं भद्रां श्रीबालां प्रणमाम्यहम् ॥ १३ ॥

भवप्रियां भवाधारां भगरूपां भगप्रियाम् ।
भयानकां भूतधात्रीं भूदेवपूजितां भजे ॥ १४ ॥

अकारादिक्षकारान्तां क्लीबाक्षरात्मिकां पराम् ।
वन्दे वन्दे महामायां भवभव्यभयापहाम् ॥ १५ ॥

नाडीरूप्यै नमस्तेऽस्तु धातुरूप्यै नमो नमः ।
जीवरूप्यै नमस्यामि ब्रह्मरूप्यै नमो नमः ॥ १६ ॥

नमस्ते मन्त्ररूपायै पीठगायै नमो नमः ।
सिंहासनेश्वरि तुभ्यं सिद्धिरूप्यै नमो नमः ॥ १७ ॥

नमस्ते मातृरूपिण्यै नमस्ते भैरवप्रिये ।
नमस्ते चोपपीठायै बालायै सततं नमः ॥ १८ ॥

योगेश्वर्यै नमस्तेऽस्तु योगदायै नमो नमः ।
योगनिद्रास्वरूपिण्यै बालादेव्यै नमो नमः ॥ १९ ॥

सुपुण्यायै नमस्तेऽस्तु सुशुद्धायै नमो नमः ।
सुगुह्यायै नमस्तेऽस्तु बालादेव्यै नमो नमः ॥ २० ॥

इतीदं स्तवराजाख्यं सर्वस्तोत्रोत्तमोत्तमम् ।
ये पठन्ति महेशानि पुनर्जन्म न विद्यते ॥ २१ ॥

सर्वपापहरं पुण्यं सर्वस्फोटविनाशकम् ।
सर्वसिद्धिप्रदं श्रेष्ठं भोगैश्वर्यप्रदायकम् ॥ २२ ॥

भूर्भुवस्सुवरों इति दिग्विमोकः ॥

इति श्री बाला स्तवराजः ।


इतर श्री बाला स्तोत्राणि पश्यतु ।

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments