Site icon Stotra Nidhi

Sri Bala Shanti Stotram – श्री बाला शान्ति स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

श्रीभैरव उवाच ।
जय देवि जगद्धात्रि जय पापौघहारिणि ।
जय दुःखप्रशमनि शान्तिर्भव ममार्चने ॥ १ ॥

श्रीबाले परमेशानि जय कल्पान्तकारिणि ।
जय सर्वविपत्तिघ्ने शान्तिर्भव ममार्चने ॥ २ ॥

जय बिन्दुनादरूपे जय कल्याणकारिणि ।
जय घोरे च शत्रुघ्ने शान्तिर्भव ममार्चने ॥ ३ ॥

मुण्डमाले विशालाक्षि स्वर्णवर्णे चतुर्भुजे ।
महापद्मवनान्तस्थे शान्तिर्भव ममार्चने ॥ ४ ॥

जगद्योनि महायोनि निर्णयातीतरूपिणि ।
पराप्रासादगृहिणि शान्तिर्भव ममार्चने ॥ ५ ॥

इन्दुचूडयुते चाक्षहस्ते श्रीपरमेश्वरि ।
रुद्रसंस्थे महामाये शान्तिर्भव ममार्चने ॥ ६ ॥

सूक्ष्मे स्थूले विश्वरूपे जय सङ्कटतारिणि ।
यज्ञरूपे जाप्यरूपे शान्तिर्भव ममार्चने ॥ ७ ॥

दूतीप्रिये द्रव्यप्रिये शिवे पञ्चाङ्कुशप्रिये ।
भक्तिभावप्रिये भद्रे शान्तिर्भव ममार्चने ॥ ८ ॥

भावप्रिये लासप्रिये कारणानन्दविग्रहे ।
श्मशानस्य देवमूले शान्तिर्भव ममार्चने ॥ ९ ॥

ज्ञानाज्ञानात्मिके चाद्ये भीतिनिर्मूलनक्षमे ।
वीरवन्द्ये सिद्धिदात्रि शान्तिर्भव ममार्चने ॥ १० ॥

स्मरचन्दनसुप्रीते शोणितार्णवसंस्थिते ।
सर्वसौख्यप्रदे शुद्धे शान्तिर्भव ममार्चने ॥ ११ ॥

कापालिकि कलाधारे कोमलाङ्गि कुलेश्वरि ।
कुलमार्गरते सिद्धे शान्तिर्भव ममार्चने ॥ १२ ॥

शान्तिस्तोत्रं सुखकरं बल्यन्ते पठते शिवे ।
देव्याः शान्तिर्भवेत्तस्य न्यूनाधिक्यादिकर्मणि ॥ १३ ॥

मन्त्रसिद्धिकामनया दशावृत्त्या पठेद्यदि ।
मन्त्रसिद्धिर्भवेत्तस्य नात्र कार्या विचारणा ॥ १४ ॥

चन्द्रसूर्योपरागे च यः पठेत् स्तोत्रमुत्तमम् ।
बाला सद्मनि सौख्येन बहुकालं वसेत्ततः ॥ १५ ॥

सर्वभद्रमवाप्नोति सर्वत्र विजयी भवेत् ।
तीर्थकोटिगुणं चैव दानकोटिफलं तथा ।
लभते नात्र सन्देहः सत्यं सत्यं मयोदितम् ॥ १६ ॥

इति चिन्तामणितन्त्रे श्री बाला शान्ति स्तोत्रम् ।


इतर श्री बाला स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments