Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
बालार्ककोटिरुचिरां कोटिब्रह्माण्डभूषिताम् ।
कन्दर्पकोटिलावण्यां बालां वन्दे शिवप्रियाम् ॥ १ ॥
वह्निकोटिप्रभां सूक्ष्मां कोटिकोटिसहेलिनीम् ।
वरदां रक्तवर्णां च बालां वन्दे सनातनीम् ॥ २ ॥
ज्ञानरत्नाकरां भीमां परब्रह्मावतारिणीम् ।
पञ्चप्रेतासनगतां बालां वन्दे गुहाशयाम् ॥ ३ ॥
पराप्रासादमूर्ध्निस्थां पवित्रां पात्रधारिणीम् ।
पशुपाशच्छिदां तीक्ष्णां बालां वन्दे शिवासनाम् ॥ ४ ॥
गिरिजां गिरिमध्यस्थां गीः रूपां ज्ञानदायिनीम् ।
गुह्यतत्त्वपरां चाद्यां बालां वन्दे पुरातनीम् ॥ ५ ॥
बौद्धकोटिसुसौन्दर्यां चन्द्रकोटिसुशीतलाम् ।
आशावासां परां देवीं वन्दे बालां कपर्दिनीम् ॥ ६ ॥
सृष्टिस्थित्यन्तकारिणीं त्रिगुणात्मकरूपिणीम् ।
कालग्रसनसामर्थ्यां बालां वन्दे फलप्रदाम् ॥ ७ ॥
यज्ञनाशीं यज्ञदेहां यज्ञकर्मशुभप्रदाम् ।
जीवात्मविश्वजननीं बालां वन्दे परात्पराम् ॥ ८ ॥
इत्येतत्परमं गुह्यं नाम्ना मुक्तावलीस्तवम् ।
ये पठन्ति महेशानि फलं वक्तुं न शक्यते ॥ ९ ॥
गुह्याद्गुह्यतरं गुह्यं महागुह्यं वरानने ।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ १० ॥
कन्यार्थी लभते कन्यां मोक्षार्थी मोक्षमाप्नुयात् ।
बहुनात्र किमुक्तेन चिन्तामणिरिवापरम् ॥ ११ ॥
गोपनीयं प्रयत्नेन गोपनीयं न संशयः ।
अन्येभ्यो नैव दातव्यं किमन्यच्छ्रोतुमिच्छसि ॥ १२ ॥
इति श्रीविष्णुयामले श्री बाला मुक्तावली स्तोत्रम् ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.