Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां भजे ॥ १ ॥
पूर्वस्यां भैरवी पातु बाला मां पातु दक्षिणे ।
मालिनी पश्चिमे पातु वासिनी चोत्तरेऽवतु ॥ २ ॥
ऊर्ध्वं पातु महादेवी श्रीबाला त्रिपुरेश्वरी ।
अधस्तात्पातु देवेशी पातालतलवासिनी ॥ ३ ॥
आधारे वाग्भवः पातु कामराजस्तथा हृदि ।
महाविद्या भगवती पातु मां परमेश्वरी ॥ ४ ॥
ऐं लं ललाटे मां पायात् ह्रौं ह्रीं हंसश्च नेत्रयोः ।
नासिका कर्णयोः पातु ह्रीं ह्रौं तु चिबुके तथा ॥ ५ ॥
सौः पातु मे हृदि गले ह्रीं ह्रः नाभिदेशके ।
सौः क्लीं श्रीं गुह्यदेशे तु ऐं ह्रीं पातु च पादयोः ॥ ६ ॥
ह्रीं क्लीं मां सर्वतः पातु सौः पायात् पदसन्धिषु ।
जले स्थले तथा कोशे देवराजगृहे तथा ॥ ७ ॥
क्षें क्षें मां त्वरिता पातु मां चक्री सौः मनोभवा ।
हंसौः पायान्महादेवी परं निष्कलदेवता ॥ ८ ॥
विजया मङ्गला दूती कल्पा मां भगमालिनी ।
ज्वालामालिनी नित्या सर्वदा पातु मां शिवा ॥ ९ ॥
इतीदं कवचं देवि देवानामपि दुर्लभम् ।
तव प्रीत्या समाख्यातं गोपनीयं प्रयत्नतः ॥ १० ॥
इदं रहस्यं परमं गुह्याद्गुह्यतरं प्रिये ।
धन्यं प्रशस्यमायुष्यं भोगमोक्षप्रदं शिवम् ॥ ११ ॥
इति दुःस्वप्ननाशक श्री बाला कवचम् ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.