Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
देवि त्वया बाष्कलदुर्मुखादि-
-दैत्येषु वीरेषु रणे हतेषु ।
सद्वाक्यतस्त्वामनुनेतुकामो
मोघप्रयत्नो महिषश्चुकोप ॥ २४-१ ॥
त्वां कामरूपः खुरपुच्छशृङ्गै-
-र्नानास्त्रशस्त्रैश्च भृशं प्रहर्ता ।
गर्जन्विनिन्दन्प्रहसन्धरित्रीं
प्रकम्पयंश्चासुरराड्युयोध ॥ २४-२ ॥
जपारुणाक्षी मधुपानतुष्टा
त्वं चारिणाऽरेर्महिषस्य कण्ठम् ।
छित्वा शिरो भूमितले निपात्य
रणाङ्गणस्था विबुधैः स्तुताऽभूः ॥ २४-३ ॥
मातस्त्वया नो विपदो निरस्ता
अशक्यमन्यैरिदमद्भुताङ्गि ।
ब्रह्माण्डसर्गस्थितिनाशकर्त्रीं
कस्त्वां जयेत् केन कथं कुतो वा ॥ २४-४ ॥
विद्यास्वरूपाऽसि महेशि यस्मिन्
स वै परेषां सुखदः कविश्च ।
त्वं वर्तसे यत्र सदाऽप्यविद्या-
-स्वरूपिणी स त्वधमः पशुः स्यात् ॥ २४-५ ॥
कृपाकटाक्षास्तव देवि यस्मिन्
पतन्ति तस्यात्मजवित्तदाराः ।
यच्छन्ति सौख्यं न पतन्ति यस्मिन्
त एव दुःखं ददतेऽस्य नूनम् ॥ २४-६ ॥
पश्याम नित्यं तव रूपमेत-
-त्कथाश्च नामानि च कीर्तयाम ।
नमाम मूर्ध्ना पदपङ्कजे ते
स्मराम कारुण्यमहाप्रवाहम् ॥ २४-७ ॥
त्वमेव माताऽसि दिवौकसां नो
नान्या द्वितीया हितदानदक्षा ।
अन्ये सुता वा तव सन्ति नो वा
न रक्षिता नस्त्वदृते महेशि ॥ २४-८ ॥
क्व त्वं वयं क्वेति विचिन्त्य सर्वं
क्षमस्व नो देव्यपराधजालम् ।
यदा यदा नो विपदो भवन्ति
तदा तदा पालय पालयास्मान् ॥ २४-९ ॥
इति स्तुवत्सु त्रिदशेषु सद्यः
कृपाश्रुनेत्रैव तिरोदधाथ ।
ततो जगद्देवि विभूतिपूर्णं
बभूव धर्मिष्ठसमस्तजीवम् ॥ २४-१० ॥
त्वां संस्मरेयं न च वा स्मरेयं
विपत्सु मा विस्मर मां विमूढम् ।
रुदन् बिडालार्भकवन्न किञ्चि-
-च्छक्नोमि कर्तुं शुभदे नमस्ते ॥ २४-११ ॥
पञ्चविंश दशकम् (२५) – महासरस्वत्यवतारम्-सुम्भादिवधम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.